कामादिरुत्सेकः स्वाः प्रकृतीः कोपयति, अपनयो बाह्याः
तद् उभयं आसुरी वृत्तिः
स्वजनविकारः कोपः
परवृद्धिहेतुषु आपद्ऽर्थोऽनर्थः संशय इति
योऽर्थः शत्रुवृद्धिं अप्राप्तः करोति, प्राप्तः प्रत्यादेयः परेषां भवति, प्राप्यमाणो वा क्षयव्यय उदयो भवति, स भवत्यापद्ऽर्थः
यथा सामन्तानां आमिषभूतः सामन्तव्यसनजो लाभः, शत्रुप्रार्थितो वा स्वभावाधिगम्यो लाभः, पश्चात् कोपेन पार्ष्णिग्राहेण वा विगृहीतः पुरस्ताल्लाभः, मित्र उच्छेदेन सन्धिव्यतिक्रमेण वा मण्डलविरुद्धो लाभः इत्यापद्ऽर्थः
स्वतः परतो वा भय उत्पत्तिरित्यनर्थः
तयोः अर्थो न वा इति, अनर्थो न वा इति, अर्थोऽनर्थ इति, अनर्थोऽर्थ इति संशयः
शत्रुमित्रं उत्साहयितुं अर्थो न वा इति संशयः
शत्रुबलं अर्थमानाभ्यां आवाहयितुं अनर्थो न वा इति संशयः
बलवत्सामन्तां भूमिं आदातुं अर्थोऽनर्थ इति संशयः
जायसा सम्भूययानं अनर्थोऽर्थ इति संशयः
तेषां अर्थसंशयं उपगच्छेत्
अर्थोऽर्थानुबन्धः, अर्थो निरनुबन्धः, अर्थोऽनर्थानुबन्धः, अनर्थोऽर्थानुबन्धः, अनर्थो निरनुबन्धः, अनर्थोऽनर्थानुबन्धः इत्यनुबन्धषड्वर्गः
शत्रुं उत्पाट्य पार्ष्णिग्राहादानं अर्थोऽनर्थानुबन्धः
उदासीनस्य दण्डानुग्रहः फलेन अर्थो निरनुबन्धः
परस्यान्तर्।उच्छेदनं अर्थोऽनर्थानुबन्धः
शत्रुप्रतिवेशस्यानुग्रहः कोशदण्डाभ्यां अनर्थोऽनर्थानुबन्धः
हीनशक्तिं उत्साह्य निवृत्तिरनर्थो निरनुबन्धः
ज्यायांसं उत्थाप्य निवृत्तिरनर्थोऽनर्थानुबन्धः
तेषां पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम्
इति कार्यावस्थापनम्
समन्ततो युगपद्ऽर्थ उत्पत्तिः समन्ततोऽर्थापद् भवति
सा एव पार्ष्णिग्राहविगृहीता समन्ततोऽर्थसंशयापद् भवति
तयोर्मित्राक्रन्द उपग्रहात् सिद्धिः
समन्ततः शत्रुभ्यो भय उत्पत्तिः समन्त्तोऽनर्थापद् भवति
सा एव मित्रविगृहीता समन्ततोऽनर्थसंशयापद् भवति
तयोश्चलामित्राक्रन्द उपग्रहात् सिद्धिः, परमिश्राप्रतीकारो वा
इतो लाभ इतरतो लाभ इत्युभयतोऽर्थापद् भवति
तस्यां समन्ततोऽर्थायां च लाभगुणयुक्तं अर्थं आदातुं यायात्
तुल्ये लाभगुणे प्रधानं आसन्नं अनतिपातिनं ऊनो वा येन भवेत् तं आदातुं यायात्
इतोऽनर्थ इतरतोऽनर्थ इत्युभयतोऽनर्थापत्
तस्यां समन्ततोऽनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत
मित्राभावे प्रकृतीनां लघीयस्य एकतोऽनर्थां साधयेत्, उभयतोऽनर्थां ज्यायस्या, समन्ततोऽनर्थां मूलेन प्रतिकुर्यात्
अशक्ये सर्वं उत्सृज्यापगच्छेत्
दृष्टा हि जीवतः पुनर्।आवृत्तिर्यथा सुयात्रा उदयनाभ्याम्
इतो लाभ इतरतो राज्याभिमर्श इत्युभयतोऽर्थानर्थापद् भवति
तस्यां अनर्थसाधको योऽर्थः तं आदातुं यायात्
अन्यथा हि राज्याभिमर्शं वारयेत्
एतया समन्ततोऽर्थानर्थापद् व्याख्याता
इतोऽनर्थ इतरतोऽर्थसंशय इत्युभयतोऽनर्थार्थसंशया
तस्यां पूर्वं अनर्थं साधयेत्, तत्सिद्धावर्थसंशयम्
एतया समन्ततोऽनर्थार्थसंशया व्याख्याता
इतोऽर्थ इतरतोऽनर्थसंशय इत्युभयतोऽर्थानर्थसंशयापद्
एतया समन्ततोऽर्थानर्थसंशया व्याख्याता
तस्यां पूर्वां पूर्वां प्रकृतीनां अनर्थसंशयान् मोक्षयितुं यतेत
श्रेयो हि मित्रं अनर्थसंशये तिष्ठन्न दण्डः, दण्डो वा न कोश इति
समग्रमोक्षणाभावे प्रकृतीनां अवयवान् मोक्षयितुं यतेत
तत्र पुरुषप्रकृतीनां बहुलं अनुरक्तं वा तीक्ष्णलुब्धवर्जं, द्रव्यप्रकृतीनां सारं महा उपकारं वा
सन्धिनाऽऽसनेन द्वैधीभावेन वा लघूनि, विपर्ययैर्गुरूणि
क्षयस्थानवृद्धीनां च उत्तर उत्तरं लिप्सेत
प्रातिलोम्येन वा क्षयादीनां आयत्यां विशेषं पश्येत्
इति देशावस्थापनम्
एतेन यात्राऽऽदिमध्यान्तेष्वर्थानर्थसंशयानां उपसम्प्राप्तिर्व्याख्याता
निरन्तरयोगित्वाच्चार्थानर्थसंशयानां यात्राऽऽदावर्थः श्रेयान् उपसम्प्राप्तुं पार्ष्णिग्राहासारप्रतिघाते क्षयव्ययप्रवासप्रत्यादेये मूलरक्षणेषु च भवति
तथाऽनर्थः संशयो वा स्वभूमिष्ठस्य विषह्यो भवति
एतेन यात्रामध्येऽर्थानर्थसंशयानां उपसम्प्राप्तिर्व्याख्याता
यात्राऽन्ते तु कर्शनीयं उच्छेदनीयं वा कर्शयित्वा उच्छिद्य वाऽर्थः श्रेयान् उपसम्प्राप्तुं नानर्थः संशयो वा पराबाधभयात्
सामवायिकानां अपुरोगस्य तु यात्रामध्यान्तगोऽनर्थः संशयो वा श्रेयान् उपसम्प्राप्तुं अनिर्बन्धगामित्वात्
अर्थो धर्मः काम इत्यर्थत्रिवर्गः
तस्य पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम्
अनर्थोऽधर्मः शोक इत्यनर्थत्रिवर्गः
तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम्
अर्थोऽनर्थ इति, धर्मोऽधर्म इति, कामः शोक इति संशयत्रिवर्गः
तस्य उत्तरपक्षसिद्धौ पूर्वपक्षः श्रेयान् उपसम्प्राप्तुम्
इति कालावस्थापनम्
इत्यापदः - तासां सिद्धिः
पुत्रभ्रातृबन्धुषु सामदानाभ्यां सिद्धिरनुरूपा, पौरजानपददण्डमुख्येषु दानभेदाभ्यां, सामन्ताटविकेषु भेददण्डाभ्याम्
एषाऽनुलोमा, विपर्यये प्रतिलोमा
मित्रामित्रेषु व्यामिश्रा सिद्धिः
परस्परसाधका ह्युपायाः
शत्रोः शङ्कितामात्येषु सान्त्वं प्रयुक्तं शेषप्रयोगं निवर्तयति, दूष्यामात्येषु दानं, सङ्घातेषु भेदः, शक्तिमत्सु दण्ड इति
गुरुलाघवयोगाच्चापदां नियोगविकल्पसमुच्चया भवन्ति
अनेन एव उपायेन नान्येन इति नियोगः
अनेन वाऽन्येन वा इति विकल्पः
अनेनान्येन च इति समुच्चयः
तेषां एकयोगाश्चत्वारः त्रियोगाश्च, द्वियोगाः षट्, एकश्चतुर्योगः
इति पञ्चदश उपायाः
तावन्तः प्रतिलोमाः
तेषां एकेन उपायेन सिद्धिरेकसिद्धिः, द्वाभ्यां द्विसिद्धिः, त्रिभिः त्रिसिद्धिः, चतुर्भिश्चतुःसिद्धिरिति
धर्ममूलत्वात् कामफलत्वाच्चार्थस्य धर्मार्थकामानुबन्धा याऽर्थस्य सिद्धिः सा सर्वार्थसिद्धिः
दैवाद् अग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षं आसुरी सृष्टिरित्यापदः
तासां दैवतब्राह्मणर्पणिपाततः सिद्धिः
अतिवृष्टिरवृष्टिर्वा सृष्टिर्वा याऽऽसुरी भवेत् ।
तस्यां आथर्वणं कर्म सिद्धारम्भाश्च सिद्धयः