श्लोक ०९-०६

Kautilya Arthashastra by Acharya Chankya
दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा
दूष्यशुद्धायां पौरेषु जानपदेषु वा दण्डवर्जान् उपायान् प्रयुञ्जीत
दण्डो हि महाजने क्षेप्तुं अशक्यः
क्षिप्तो वा तं चार्थं न कुर्यात्, अन्यं चानर्थं उत्पादयेत्
मुख्येषु त्वेषां दाण्डकर्मिकवच्चेष्टेत
शत्रुशुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः सामादिभिः सिद्धिं लिप्सेत
स्वामिन्यायत्ता प्रधानसिद्धिः, मन्त्रिष्वायत्ताऽऽयत्तसिद्धिः, उभयायत्ता प्रधानायत्तसिद्धिः
दूष्यादूष्याणां आमिश्रितत्वाद् आमिश्रा
आमिश्रायां अदूष्यतः सिद्धिः
आलम्बनाभावे ह्यालम्बिता न विद्यन्ते
मित्रामित्राणां एकीभावात् परमिश्रा
परमिश्रायां मित्रतः सिद्धिः
सुकरो हि मित्रेण सन्धिः, नामित्रेण इति
मित्रं चेन्न सन्धिं इच्छेद् अभीक्ष्णं उपजपेत्
ततः सत्त्रिभिरमित्राद् भेदयित्वा मित्रं लभेत
मित्रसङ्घस्य वा योऽन्तस्थायी तं लभेत
अन्तस्थायिनि लब्धे मध्यस्थायिनो भिद्यन्ते
मध्यस्थायिनं वा लभेत
मध्यस्थायिनि लब्धे नान्तस्थायिनः संहन्यन्ते
यथा च एषां आश्रयभेदः तान् उपायान् प्रयुञ्जीत
धार्मिकं जातिकुलश्रुतवृत्तस्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य उपकारान् अपकाराभ्यां वा सान्त्वयेत्
निवृत्त उत्साहं विग्रहश्रान्तं प्रतिहत उपायं क्षयव्ययाभ्यां प्रवासेन च उपतप्तं शौचेनान्यं लिप्समानं अन्यस्माद् वा शङ्कमानं मैत्रीप्रधानं वा कल्याणबुद्धिं साम्ना साधयेत्
लुब्धं क्षीणं वा तपस्विमुख्यावस्थापनापूर्वं दानेन साधयेत्
तत् पञ्चविधं - देयविसर्गो गृहीतानुवर्तनं आत्तप्रतिदानं स्वद्रव्यदानं अपूर्वं परस्वेषु स्वयङ्ग्राहदानं च
इति दानकर्म
परस्परद्वेषवैरभूमिहरणशङ्कितं अतोऽन्यतमेन भेदयेत्
भीरुं वा प्रतिघातेन कृतसन्धिरेष त्वयि कर्मकरिष्यति, मित्रं अस्य निसृष्टं, सन्धौ वा नाभ्यन्तरः इति
यस्य वा स्वदेशाद् अन्यदेशाद् वा पण्यानि पण्यागारतयाऽऽगच्छेयुः तानि अस्य यातव्याल्लब्धानि इति सत्त्रिणश्चारयेयुः
बहुलीभूते शासनं अभित्यक्तेन प्रेषयेत् एतत् ते पण्यं पण्यागारं वा मया ते प्रेषितं, सामवायिकेषु विक्रमस्व, अपगच्छ वा, ततः पणशेषं अवाप्स्यसि इति
ततः सत्त्रिणः परेषु ग्राहयेयुः एतद् अरिप्रदत्तम् इति
शत्रुप्रख्यातं वा पण्यं अविज्ञातं विजिगीषुं गच्छेत्
तद् अस्य वैदेहकव्यञ्जनाः शत्रुमुख्येषु विक्रीणीरन्
ततः सत्त्रिणः परेषु ग्राहयेयुः एतत् पण्यं अरिप्रदत्तम् इति
महाऽपराधान् अर्थमानाभ्यां उपगृह्य वा शस्त्ररसाग्निभिरमित्रे प्रणिदध्यात्
अथ एकं अमात्यं निष्पातयेत्
तस्य पुत्रदारं उपगृह्य रात्रौ हतं इति ख्यापयेत्
अथामात्यः शत्रोः तान् एक एकशः प्ररूपयेत्
ते चेद् यथा उक्तं कुर्युर्न च एनान् ग्राहयेत्
अशक्तिमतो वा ग्राहयेत्
आप्तभाव उपगतो मुख्याद् अस्यात्मानं रक्षणीयं कथयेत्
अथामित्रशासनं मुख्य उपघाताय प्रेषितं उभयवेतनो ग्राहयेत्
उत्साहशक्तिमतो वा प्रेषयेत् अमुष्य राज्यं गृहाण, यथाऽस्थितो नः सन्धिः इति
ततः सत्त्रिणः परेषु ग्राहयेयुः
एकस्य स्कन्धावारं वीवधं आसारं वा घातयेयुः
इतरेषु मैत्रीं ब्रुवाणाः त्वं एतेषां घातयितव्यः इत्युपजपेयुः
यस्य वा प्रवीरपुरुषो हस्ती हयो वा म्रियेत गूढपुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्पर उपहतं ब्रूयुः
ततः शासनं अभिशस्तस्य प्रेषयेत् भूयः कुरु ततः पणशीषं अवाप्स्यसि इति
तद् उभयवेतना ग्राहयेयुः
भिन्नेष्वन्यतमं लभेत
तेन सेनापतिकुमारदण्डचारिणो व्याख्याताः
सान्धिकं च भेदं प्रयुञ्जीत
इति भेदकर्म
तीक्ष्णं उत्साहिनं व्यसनिनं स्थितशत्रुं वा गूढपुरुषाः शस्त्राग्निरसादिभिः साधयेयुः, सौकर्यतो वा तेषां अन्यतमः
तीक्ष्णो ह्येकः शस्त्ररसाग्निभिः साधयेत्
अयं सर्वसन्दोहकर्म विशिष्टं वा करोति
इत्युपायचतुर्वर्गः
पूर्वः पूर्वश्चास्य लघिष्ठः
सान्त्वं एकगुणम्
दानं द्विगुणं सान्त्वपूर्वम्
भेदः त्रिगुणः सान्त्वदानपूर्वः
दण्डश्चतुर्गुणः सान्त्वदानभेदपूर्वः
इत्यभियुञ्जानेषु उक्तम्
स्वभूमिष्ठेषु तु त एव उपायाः
विशेषः तु
स्वभूमिष्ठानां अन्यतमस्य पण्यागारैरभिज्ञातान् दूतमुख्यान् अभीक्ष्णं प्रेषयेत्
त एनं सन्धौ परहिंसायां वा योजयेयुः
अप्रतिपद्यमानं कृतो नः सन्धिः इत्यावेदयेयुः
तं इतरेषां उभयवेतनाः सङ्क्रामयेयुः अयं वो राजा दुष्टः इति
यस्य वा यस्माद् भयं वैरं द्वेषो वा तं तस्माद् भेदयेयुः अयं ते शत्रुणा सन्धत्ते, पुरा त्वां अतिसन्धत्ते, क्षिप्रतरं सन्धीयस्व, निग्रहे चास्य प्रयतस्व इति
आवाहविवाहाभ्यां वा कृत्वा सम्योगं असम्युक्तान् भेदयेत्
सामन्ताटविकतत्कुलीनापरुद्धैश्च एषां राज्यानि घातयेत्, सार्थव्रजाटवीर्वा, दण्डं वाऽभिसृतम्
परस्परापाश्रयाश्च एषां जातिसङ्घाश्छिद्रेषु प्रहरेयुः, गूढाश्चाग्निरसशस्त्रेण
वीतंसगिलवच्चारीन् योगैराचरितैः शठः ।
घातयेत् परमिश्रायां विश्वासेनामिषेण च