सन्ध्य्।आदीनां अयथा उद्देशावस्थापनं अपनयः
तस्माद् आपदः सम्भवन्ति
बाह्य उत्पत्तिरभ्यन्तरप्रतिजापा, अभ्यन्तर उत्पत्तिर्बाह्यप्रतिजापा, बाह्य उत्पत्तिर्बाह्यप्रतिजापा, अभ्यन्तर उत्पत्तिरभ्यन्तरप्रतिजापा - इत्यापदः
यत्र बाह्या अभ्यन्तरानुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्र उभययोगे प्रतिजपतः सिद्धिर्विशेषवती
सुव्याजा हि प्रतिजपितारो भवन्ति, न उपजपितारः
तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः
कृच्छ्र उपजापा हि बाह्यानां अभ्यन्तराः तेषां इतरे वा
महतश्च प्रयत्नस्य वधः परेषां, अर्थानुबन्धश्चात्मन इति
अभ्यन्तरेषु प्रतिजपत्सु सामदाने प्रयुञ्जीत
स्थानमानकर्म सान्त्वम्
अनुग्रहपरिहारौ कर्मस्वायोगो वा दानम्
बाह्येषु प्रतिजपत्सु भेददण्डौ प्रयुञ्जीत
सत्त्रिणो मित्रव्यञ्जना वा बाह्यानां चारं एषां ब्रूयुः अयं वो राजा दूष्यव्यञ्जनैरतिसन्धातुकामः, बुध्यध्वम् इति
दूष्येषु वा दूष्यव्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर्भेदयेयुः, बाह्यान् वा दूष्यैः
दूष्यान् अनुप्रविष्टा वा तीक्ष्णाः शस्त्ररसाभ्यां हन्युः
आहूय वा बाह्यान् घातयेयुः
यत्र बाह्या बाह्यान् उपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, तत्र एकान्तयोग उपजपितुः सिद्धिर्विशेषवती
दोषशुद्धौ हि दूष्या न विद्यन्ते
दूष्यशुद्धौ हि दोषः पुनरन्यान् दूषयति
तस्माद् बाह्येषु उपजपत्सु भेददण्डौ प्रयुञ्जीत
सत्त्रिणो मित्रव्यञ्जना वा ब्रूयुः अयं वो राजा स्वयं आदातुकामः, विगृहीताः स्थानेन राज्ञा, बुध्यध्वम् इति
प्रतिजपितुर्वा दूतदण्डान् अनुप्रविष्टाः तीक्ष्णाः शस्त्ररसादिभिरेषां छिद्रेषु प्रहरेयुः
ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः
अभ्यन्तरान् अभ्यन्तरेषु उपजपत्सु यथाऽर्हं उपायं प्रयुञ्जीत
तुष्टलिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत
शौचसामर्थ्यापदेशेन व्यसनाभ्युदयावेक्षणेन वा प्रतिपूजनं इति दानम्
मित्रव्यञ्जनो वा ब्रूयाद् एतान् चित्तज्ञानार्थं उपधास्यति वो राजा, तद् अस्याख्यातव्यं इति
परस्पराद् वा भेदयेद् एनान् असौ चासौ च वो राजन्येवं उपजपति - इति भेदः
दाण्डकर्मिकवच्च दण्डः
एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत्
अहिभयाद् अभ्यन्तरकोपो बाह्यकोपात् पापीयान् इत्युक्तं पुरस्ताद्
पूर्वां पूर्वां विजानीयाल्लघ्वीं आपदं आपदाम् ।
उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये