श्लोक १०-०१

Kautilya Arthashastra by Acharya Chankya
वास्तुकप्रशस्ते वास्तुनि नायकवर्धकि मौहूर्तिकाः स्कन्धावारं, वृत्तं दीर्घं चतुर्ऽश्रं वा भूमिवशेन वा, चतुर्द्वारं षट्पथं नवसंस्थानं मापयेयुः खातवप्रसालद्वाराट्टालकसम्पन्नं भये स्थाने च
मध्यमस्य उत्तरे नवभागे राजवास्तुकं धनुःशतायामं अर्धविस्तारं, पश्चिमार्धे तस्यान्तःपुरम्
अन्तर्वंशिकसैन्यं चान्ते निविशेत
पुरस्ताद् उपस्थानं, दक्षिणतः कोशशासनकार्यकरणानि, वामतो राजाउपवाह्यानां हस्त्य्ऽश्वरथानां स्थानम्
अतो धनुःशतान्तराश्चत्वारः शकटमेथीप्रततिस्तम्भसालपरिक्षेपाः
प्रथमे पुरस्तान् मन्त्रिपुरोहितौ, दण्षिणतः कोष्ठागारं महानसं च, वामतः कुप्यायुधागारम्
द्वितीये मौलभृतानां स्थानं अश्वरथानां सेनापतेश्च
तृतीये हस्तिनः श्रेण्यः प्रशास्ता च
चतुर्थे विष्टिर्नायको मित्रामित्राटवीबलं स्वपुरुषाधिष्ठितम्
वणिजो रूपाजीवाश्चानुमहापथम्
बाह्यतो लुब्धकश्वगणिनः सतूर्याग्नयः, गूढाश्चारक्षाः
शत्रूणां आपाते कूपकूटावपातकण्टकिनीश्च स्थापयेत्
अष्टादशवर्गाणां आरक्षविपर्यासं कारयेत्
दिवायामं च कारयेद् अपसर्पज्ञानार्थम्
विवादसौरिकसमाजद्यूतवारणं च कारयेत्, मुद्रारक्षणं च
सेनानिवृत्तं आयुधीयं अशासनं शून्यपालो बध्नीयात्
पुरस्ताद् अध्वनः सम्यक्प्रशास्ता रक्षणानि च ।
यायाद् वर्धकिविष्टिभ्यां उदकानि च कारयेत्