ग्रामारण्यानां अध्वनि निवेशान् यवस इन्धन उदकवशेन परिसङ्ख्याय स्थानासनगमनकालं च यात्रां यायात्
तत्प्रतीकारद्विगुणं भक्त उपकरणं वाहयेत्
अशक्तो वा सैन्येष्वायोजयेत्, अन्तरेषु वा निचिनुयात्
पुरस्तान्नायकः, मध्ये कलत्रं स्वामी च, पार्श्वयोरश्वा बाहु।उत्सारः, चक्रान्तेषु हस्तिनः प्रसारवृद्धिर्वा, पश्चात् सेनापतिर्यायात् निविशेत
सर्वतो वनाजीवः प्रसारः
स्वदेशाद् अन्वायतिर्वीवधः
मित्रबलं आसारः
कलत्रस्थानं अपसारः
पुरस्ताद् अध्याघाते मकरेण यायात्, पश्चात्शकटेन, पार्श्वयोर्वज्रेण, समन्ततः सर्वतोभद्रेण, एकायने सूच्या
पथिद्वैधीभावे स्वभूमितो यायात्
अभूमिष्ठानां हि स्वभूमिष्ठा युद्धे प्रतिलोमा भवन्ति
योजनं अधमा, अध्यर्धं मध्यमा, द्वियोजनं उत्तमा, सम्भाव्या वा गतिः
आश्रयकारी सम्पन्नघाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः, सङ्कटो मार्गः शोधयितव्यः, कोशो दण्डो मित्रामित्राटवीबलं विष्टि।ऋतुर्वा प्रतीक्ष्याः, कृतदुर्गकर्मनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्चागमिष्यति, उपजपितारो वा नातित्वरयन्ति, शत्रुरभिप्रायं वा पूरयिष्यति, इति शनैर्यायात्, विपर्यये शीघ्रम्
हस्तिस्तम्भसङ्क्रमसेतुबन्धनौकाष्ठवेणुसङ्घातैरलाबुचर्मकरण्डदृतिप्लवगण्डिकावेणिकाभिश्च उदकानि तारयेत्
तीर्थाभिग्रहे हस्त्य्ऽश्वैरन्यतो रात्रावुत्तार्य सत्त्रं गृह्णीयात्
अनुदके चक्रिचतुष्पदं चाध्वप्रमाणेन शक्त्या उदकं वाहयेत्
दीर्घकान्तारं अनुदकं यवस इन्धन उदकहीनं वा कृच्छ्राध्वानं अभियोगप्रस्कन्नं क्षुत्पिपासाऽध्वक्लान्तं पङ्कतोयगम्भीराणां वा नदीदरीशैलानां उद्यानापयाने व्यासक्तं एकायनमार्गे शैलविषमे सङ्कटे वा बहुलीभूतं निवेशे प्रस्थिते विसम्नाहं भोजनव्यासक्तं आयतगतपरिश्रान्तं अवसुप्तं व्याधिमरकदुर्भिक्षपीडितं व्याधितपत्त्य्ऽश्वद्विपं अभूमिष्ठं वा बलव्यसनेषु वा स्वसैन्यं रक्षेत्, परसैन्यं चाभिहन्यात्
एकायनमार्गप्रयातस्य सेनानिश्चारग्रासाहारशय्याप्रस्ताराग्निनिधानध्वजायुधसङ्ख्यानेन परबलज्ञानम्
तदाऽऽत्मानो गूहयेत्
पार्वतं वनदुर्गं वा सापसारप्रतिग्रहम् ।
स्वभुमौ पृष्ठतः कृत्वा युध्येत निविशेत च