श्लोक १०-०३

Kautilya Arthashastra by Acharya Chankya
बलविशिष्टः कृत उपजापः प्रतिविहित।ऋतुः स्वभूम्यां प्रकाशयुद्धं उपेयात्
विपर्यये कूटयुद्धम्
बलव्यसनावस्कन्दकालेषु परं अभिहन्यात्, अभूमिष्ठं वा स्वभूमिष्ठः, प्रकृतिप्रग्रहो वा स्वभूमिष्ठम्
दूष्यामित्राटवीबलैर्वा भङ्गं दत्त्वा विभूमिप्राप्तं हन्यात्
संहतानीकं हस्तिभिर्भेदयेत्
पूर्वं भङ्गप्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात्
पुरस्ताद् अभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्ऽश्वेनाभिहन्यात्
पृष्ठतोऽभिहत्या प्रचलं विमुखं वा पुरस्तात् सारबलेनाभिहन्यात्
ताभ्यां पार्श्वाभिगातौ व्याख्यातौ
यतो वा दूष्यफल्गुबलं ततोऽभिहन्यात्
पुरस्ताद् विषमायां पृष्ठतोऽभिहन्यात्
पृष्ठतो विषमायां पुरस्ताद् अभिहन्यात्
पार्श्वतो विषमायां इतरतोऽभिहन्यात्
दूष्यामित्राटवीबलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात्
दूष्यबलेन वा स्वयं भङ्गं दत्त्वा जितम् इति विश्वस्तं अविश्वस्तः सत्त्रापाश्रयोऽभिहन्यात्
सार्थव्रजस्कन्धावारसंवाहविलोपप्रमत्तं अप्रमत्तोऽभिहन्यात्
फल्गुबलावच्छन्नसारबलो वा परवीरान् अनुप्रविश्य हन्यात्
गोग्रहणेन श्वापदवधेन वा परवीरान् आकृष्य सत्त्रच्छन्नोऽभिहन्यात्
रात्राववस्कन्देन जागरयित्वा निद्राक्लान्तान् अवसुप्तान् वा दिवा हन्यात्
सपादचर्मकोशैर्वा हस्तिभिः सौप्तिकं दद्यात्
अहःसम्नाहपरिश्रान्तान् अपराह्नेऽभिहन्यात्
शुष्कचर्मवृत्तशर्कराकोशकैर्गोमहिष उष्ट्रयूथैर्वा त्रस्नुभिरकृतहस्त्य्ऽश्वं भिन्नं अभिन्नः प्रतिनिवृत्तं हन्यात्
प्रतिसूर्यवातं वा सर्वं अभिहन्यात्
धान्वनवनसङ्कटपङ्कशैलनिम्नविषमनावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि
पूर्वे च प्रहरणकालाः कूटयुद्धहेतवः
सङ्ग्रामः तु निर्दिष्टदेशकालो धर्मिष्ठः
संहत्य दण्डं ब्रूयात् तुल्यवेतनोऽस्मि, भवद्भिः सह भोग्यं इदं राज्यं, मयाऽभिहितैः परोऽभिहन्तव्यः इति
वेदेष्वप्यनुश्रूयते समाप्तदक्षिणानां यज्ञानां अवभृथेषु सा ते गतिर्या शूराणाम् इति
अपि इह श्लोकौ भवतः
यान् यज्ञसङ्घैः तपसा च विप्राः स्वर्ग एषिणः पात्रचयैश्च यान्ति ।
क्षणेन तान् अप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः
नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भकृत उत्तरीयम् ।
तत् तस्य मा भून्नरकं च गच्छेद् यो भर्तृपिण्डस्य कृते न युध्येत् - इति
मन्त्रिपुरोहिताभ्यां उत्साहयेद् योधान् व्यूहसम्पदा
कार्तान्तिकादिश्चास्य वर्गः सर्वज्ञदैवतसम्योगख्यापनाभ्यां स्वपक्षं उद्धर्षयेत्, परपक्षं च उद्वेजयेत्
श्वो युद्धम् इति कृत उपवासः शस्त्रवाहनं चानुशयीत
अथर्वभिश्च जुहुयात्
विजययुक्ताः स्वर्गीयाश्चाशिषो वाचयेत्
ब्राह्मणेभ्यश्चात्मानं अतिसृजेत्
शौर्यशिल्पाभिजनानुरागयुक्तं अर्थमानाभ्यां अविसंवादितं अनीकगर्भं कुर्वीत
पितृपुत्रभ्रातृकाणां आयुधीयानां अध्वजं मुण्डानीकं राजस्थानम्
हस्ती रथो वा राजवाहनं अश्वानुबन्धः
यत् प्रायसैन्यो यत्र वा विनीतः स्यात् त्(अद्) अधिरोहयेत्
राजव्यञ्जनो व्यूहाधिष्ठानं आयोज्यः
सूतमागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जातिसङ्घकुलकर्मवृत्तस्तवं च योधानां वर्णयेयुः
पुरोहितपुरुषाः कृत्याभिचारं ब्रूयुः, यन्त्रिकवर्धकिमौहूर्तिकाः स्वकर्मसिद्धिं असिद्धिं परेषाम्
सेनापतिरर्थमानाभ्यां अभिसंस्कृतं अनीकं आभाषेत - शतसाहस्रो राजवधः, पञ्चाशत्साहस्रः सेनापतिकुमारवधः, दशसाहस्रः प्रवीरमुख्यवधः, पञ्चसाहस्रो हस्तिरथवधः, साहस्रोऽश्ववधः, शत्यः पत्तिमुख्यवधः, शिरो विंशतिकं भोगद्वैगुण्यं स्वयङ्ग्राहश्च इति
तद् एषां दशवर्गाधिपतयो विद्युः
चिकित्सकाः शस्त्रयन्त्रागदस्नेहवस्त्रहस्ताः स्त्रियश्चान्नपानरक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतः तिष्ठेयुः
अदक्षिणामुखं पृष्ठतःसूर्यं अनुलोमवातं अनीकं स्वभूमौ व्यूहेत
परभूमिव्यूहे चाश्वांश्चारयेयुः
यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्च उभयथा जीयेत
विपर्यये जयति, उभयथा स्थाने प्रजवे च
समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात् पार्श्वाभ्यां पश्चाच्च ज्ञेया
समायां दण्डमण्डलव्यूहाः, विषमायां भोगासंहतव्यूहाः, व्यामिश्रायां विषमव्यूहाः
विशिष्टबलं भङ्क्त्वा सन्धिं याचेत
समबलेन याचितः सन्दधीत
हीनं अनुहन्यात्, न त्वेव स्वभूमिप्राप्तं त्यक्तात्मानं वा
पुनर्।आवर्तमानस्य निराशस्य च जीविते ।
अधार्यो जायते वेगः तस्माद् भग्नं न पीडयेत्