स्वभूमिः पत्त्य्ऽश्वरथद्विपानां इष्टा युद्धे निवेशे च
धान्वनवननिम्नस्थलयोधिनां खनकाकाशदिवारात्रियोधिनां च पुरुषाणां नादेयपार्वतानूपसारसानां च हस्तिनां अश्वानां च यथास्वं इष्टा युद्धभूमयः कालाश्च
समा स्थिराऽभिकाशा निरुत्खातिन्यचक्रखुराऽनक्षग्राहिण्यवृक्षगुल्मव्रततीस्तम्भकेदारश्वभ्रवल्मीकसिकतापङ्कभङ्गुरा दरणहीना च रथभूमिः, हस्त्य्ऽश्वयोर्मनुष्याणां च समे विषमे हिता युद्धे निवेशे च
अण्व्ऽश्मवृक्षा ह्रस्वलङ्घनीयश्वभ्रा मन्ददरणदोषा चाश्वभूमिः
स्थूलस्थाण्वश्मवृक्षव्रततीवल्मीकगुल्मा पदातिभूमिः
गम्यशैलनिम्नविषमा मर्दनीयवृक्षा छेदनीयव्रतती पङ्कभङ्गुरा दरणहीना च हस्तिभूमिः
अकण्टकिन्यबहुविषमा प्रत्यासारवती इति पदातीनां अतिशयः
द्विगुणप्रत्यासारा कर्दम उदकखञ्जनहीना निह्शर्करा इति वाजिनां अतिशयः
पांसुकर्दम उदकनलशराधानवती श्वदण्ष्ट्रहीना महावृक्षशाखाघातवियुक्ता इति हस्तिनां अतिशयः
तोयाशयापाश्रयवती निरुत्खातिनी केदारहीना व्यावर्तनसमर्था इति रथानां अतिशयः
उक्ता सर्वेषां भूमिः
एतया सर्वबलनिवेशा युद्धानि च व्याख्यातानि भवन्ति
भूमिवासवनविचयोऽविषमतोयतीर्थवातरश्मिग्रहणं वीवधासारयोर्घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसारवृद्धिर्बाहु।उत्सारः पूर्वप्रहारो व्यावेशनं व्यावेधनं आश्वासो ग्रहणं मोक्षणं मार्गानुसारविनिमयः कोशकुमाराभिहरणं जघनकोट्य्ऽभिघातो हीनानुसारणं अनुयानं समाजकर्म इत्यश्वकर्माणि
पुरोयानं अकृतमार्गवासतीर्थकर्म बाहु।उत्सारः तोयतरणावतरणे स्थानगमनावतरणं विषमसम्बाधप्रवेशोऽग्निदानशमनं एकाङ्गविजयो भिन्नसन्धानं अभिन्नभेदनं व्यसने त्राणं अभिघातो विभीषिका त्रासनंऽउदार्यं ग्रहणं मोक्षणं सालद्वाराट्टालकभञ्जनं कोशवाहनापवाहनं इति हस्तिकर्माणि
स्वबलरक्षा चतुर्ऽङ्गबलप्रतिषेधः सङ्ग्रामे ग्रहणं मोक्षणं भिन्नसन्धानं अभिन्नभेदनं त्रासनं औदार्यं भीमघोषश्च इति रथकर्माणि
सर्वदेशकालशस्त्रवहनं व्यायामश्च इति पदातिकर्माणि
शिबिरमार्गसेतुकूपतीर्थशोधनकर्म यन्त्रायुधावरण उपकरणग्रासवहनं आयोधनाच्च प्रहरणावरणप्रतिविद्धापनयनं इति विष्टिकर्माणि
कुर्याद् गवाश्वव्यायोगं रथेष्वल्पहयो नृपः ।
खर उष्ट्रशकटानां वा गर्भं अल्पगजः तथा