श्लोक १०-०५

Kautilya Arthashastra by Acharya Chankya
पञ्चधनुःशतापकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात्, भूमिवशेन वा
विभक्तमुख्यां अचक्षुर्विषये मोक्षयित्वा सेनां सेनापतिनायकौ व्यूहेयाताम्
शमान्तरं पत्तिं स्थापयेत्, त्रिशमान्तरं अश्वं, पञ्चशमान्तरं रथं हस्तिनं वा
द्विगुणान्तरं त्रिगुणान्तरं वा व्यूहेत
एवं यथासुखं असम्बाधं युध्येत
पञ्चारत्नि धनुः
तस्मिन् धन्विनं स्थापयेत्, त्रिधनुष्यश्वं, पञ्चधनुषि रथं हस्तिनं वा
पञ्चधनुरनीकसन्धिः पक्षकक्ष उरस्यानाम्
अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः
पञ्चदश रथस्य हस्तिनो वा, पञ्च चाश्वाः
तावन्तः पादगोपा वाजिरथद्विपानां विधेयाः
त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत्, तावत् कक्षं पक्षं च उभयतः
पञ्चचत्वारिंशद् एवं रथा रथव्यूहे भवन्ति, द्वे शते पञ्चविंशतिश्चाश्वाः, षट्शतानि पञ्चसप्ततिश्च पुरुषाः प्रतियोधारः, तावन्तः पादगोपाः
एष समव्यूहः
तस्य द्विरथ उत्तरा वृद्धिरा एकविंशतिरथाद् इति
एवं ओजा दश समव्यूहप्रकृतयो भवन्ति
पक्षकक्ष उरस्यानां मिथो विषमसङ्ख्याने विषमव्यूहः
तस्यापि द्विरथ उत्तरा वृद्धिरा एकविंशतिरथाद् इति
एवं ओजा दश विषमव्यूहप्रकृतयो भवन्ति
अतः सैन्यानां व्यूहशेषं आवापः कार्यः
रथानां द्वौ त्रिभागावङ्गेष्वावापयेत्, शेषं उरस्यं स्थापयेत्
एवं त्रिभाग ऊनो रथानां आवापः कार्यः
तेन हस्तिनां अश्वानां आवापो व्याख्यातः
यावद्ऽश्वरथद्विपानां युद्धसम्बाधन्ं न कुर्यात् तावद् आवापः कार्यः
दण्डबाहुल्यं आवापः
पत्तिबाहुल्यं प्रत्यापावः
एकाङ्गबाहुल्यं अन्वावापः
दूष्यबाहुल्यं अत्यावापः
परावापात् प्रत्यावापाच्च चतुर्गुणाद् आऽष्टगुणाद् इति वा विभवतः सैन्यानां आवापः
रथव्यूहेन हस्तिव्यूहो व्याख्यातः
व्यामिश्रो वा हस्तिरथाश्वानां - चक्रान्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये
हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्यभेदी
विपरीतोऽन्तभेदी
हस्तिनां एव तु शुद्धः - साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति
अश्वव्यूहो - वर्मिणां उरस्यं शुद्धानां कक्षपक्षाविति
पत्तिव्यूहः - पुरस्ताद् आवरणिनः पृष्ठतो धन्विनः
इति शुद्धाः
पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, परव्यूहवशेन वा विपर्यासः
इति द्व्य्ऽङ्गबलविभागः
तेन त्र्ऽङ्गबलविभागो व्याख्यातः
दण्डसम्पत् सारबलं पुंसां
हस्त्य्ऽश्वयोर्विशेषः कुलं जातिः सत्त्वं वयःस्थता प्राणो वर्ष्म जवः तेजः शिल्पं स्तैर्यं उदग्रता विधेयत्वं सुव्यञ्जनाचारता इति
पत्त्य्ऽश्वरथद्विपानां सारत्रिभागं उरस्यं स्थापयेत्, द्वौ त्रिभागौ कक्षं पक्षं च उभयतः, अनुलोमं अनुसारं, प्रतिलोमं तृतीयसारं, फल्गु प्रतिलोमम्
एवं सर्वं उपयोगं गमयेत्
फल्गुबलं अन्तेष्ववधाय वेगाभिहूलिको भवति
सारबलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात्, जघने तृतियियसारं, मध्ये फल्गुबलम्
एवं एतत् सहिष्णु भवति
व्यूहं तु स्थापयित्वा पक्षकक्ष उरस्यानां एकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात्
यत् परस्य दुर्बलं वीतहस्त्य्ऽश्वं दूष्यामात्यं कृत उपजापं वा तत्प्रभूतसारेणाभिहन्यात्
यद् वा परस्य सारिष्ठं तद्द्विगुणसारेणाभिहन्यात्
यद् अङ्गं अल्पसारं आत्मनः तद् बहुना उपचिनुयात्
यतः परस्यापचयः ततोऽभ्याशे व्यूहेत, यतोत् वा भयं स्यात्
अभिसृतं परिसृतं अतिसृतं अपसृतं उन्मथ्यावधानं वलयो गोमूत्रिका मण्डलं प्रकीर्णिका व्यावृत्तपृष्ठं अनुवंशं अग्रतः पार्श्वाभ्यां पृष्ठतो भग्नरक्षा भग्नानुपात इत्यश्वयुद्धानि
प्रकीर्णिकावर्जान्येतान्येव चतुर्णां अङ्गानां व्यस्तसमस्तानां वा घातः, पक्षकक्ष उरस्यानां च प्रभञ्जनं अवस्कन्दः सौप्तिकं च इति हसित्युद्धानि
उन्मथ्यावधानवर्जान्येतान्येव स्वभूमावभियानापयानस्थितयुद्धानि इति रथयुद्धानि
सर्वदेशकालप्रहरणं उपांशुदण्डश्च इति पत्तियुद्धानि
एतेन विधिना व्यूहान् ओजान् युग्मांश्च कारयेत् ।
विभवो यावद् अङ्गानां चतुर्णां सदृशो भवेत्
द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहे ।
भिन्नसङ्घातनं तस्मान्न युध्येताप्रतिग्रहः