पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः
पक्षौ कक्षावुरस्य्ं प्रतिग्रह इति बार्हस्प्त्यः
प्रपक्षकक्ष उरस्या उभयोः दण्डभोगमण्डलासंहताः प्रकृतिव्यूहाः
तत्र तिर्यग्वृत्तिर्दण्डः
समस्तानां अन्वावृत्तिर्भोगः
सरतां सर्वतोवृत्तिर्मण्डलः
स्थितानां पृथग्ऽनीकवृत्तिरसंहतः
पक्षकक्ष उरस्यैः समं वर्तमानो दण्डः
स कक्षातिक्रान्तः प्रदरः
स एव पक्षकक्षाभ्यां प्रतिक्रान्तो दृढकः
स एवातिक्रान्तः पक्षाभ्यां असह्यः
पक्षाववस्थाप्य उरस्यातिक्रान्तः श्येनः
विपर्यये चापं चापकुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च
चापपक्षः सञ्जयः
स एव उरस्यातिक्रान्तो विजयः
स्थूलकर्णपक्षः स्थूणाकर्णः
द्विगुणपक्षस्थूणो विशालविजयः
त्र्य्ऽभिक्रान्तपक्षश्चमूमुखः
विपर्यये झषास्यः
ऊर्ध्वराजिर्दण्डः सूची
द्वौ दण्डौ वलयः
चत्वारो दुर्जयः
इति दण्डव्यूहाः
पक्षकक्ष उरस्यैर्विषमं वर्तमानो भोगः
स सर्पसारी गोमूत्रिका वा
स युग्म उरस्यो दण्डपक्षः शकटः
विपर्यये मकरः
हस्त्य्ऽश्वरथैर्व्यतिकीर्णः शकटः पारिपतन्तकः
इति भोगव्यूहाः
पक्षकक्ष उरस्यानां एकीभावे मण्डलः
स सर्वतोमुखः सर्वतोभद्रः
अष्टानीको दुर्जयः
इति मण्डलव्यूहाः
पक्षकक्ष उरस्यानां असंहताद् असंहतः
स पञ्चानीकानां आकृतिस्थापनाद् वज्रो गोधा वा
चतुर्णां उद्धानकः काकपदी वा
त्रयाणां अर्धचन्द्रकः कर्कटकशृङ्गी वा
इत्यसंहतव्यूहाः
रथ उरस्यो हस्तिकक्षोऽश्वपृष्ठोऽरिष्टः
पत्तयोऽश्वा रथा हस्तिनश्चानुपृष्ठं अचलः
हस्तिनोऽश्वा रथाः पत्तयश्चानुपृष्ठं अप्रतिहतः
तेषां प्रदरं दृढकेन घातयेत्, दृढकं असह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, सञ्जयं विजयेन, स्थूणाकर्णं विशालविजयेन, पारिपतन्तकं सर्वतोभद्रेण
दुर्जयेन सर्वान् प्रतिव्यूहेत
पत्त्य्ऽश्वरथद्विपानां पूर्वं पूर्वं उत्तरेण घातयेत्, हीनाङ्गं अधिकाङ्गेन च इति
अङ्गदशकस्य एकः पतिः पतिकः, पतिकदशकस्य एकः सेनापतिः, तद्दशकस्य एको नायक इति
स तूर्यघोषध्वजपताकाभिर्व्यूहाङ्गानां संज्ञाः स्थापयेद् अङ्गविभागे सङ्घाते स्थाने गमने व्यावर्तने प्रहरणे च
समे व्यूहे देशकालसारयोगात् सिद्धिः
यन्त्रैरुपनिषद्योगैः तीक्ष्णैर्व्यासक्तघातिभिः ।
मायाभिर्देवसम्योगैः शकटैर्हस्तिभीषणैः
दूष्यप्रकोपैर्गोयूथैः स्कन्धावारप्रदीपनैः ।
कोटीजघनघातैर्वा दूतव्यञ्जनभेदनैः
दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः ।
शत्रुराटविको वा इति परस्य उद्वेगं आचरेत्
एकं हन्यान्न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।
प्रज्ञानेन तु मतिः क्षिप्ता हन्याद् गर्भगतान् अपि