सङ्घलाभो दण्डमित्रलाभानां उत्तमः
सङ्घा हि संहतत्वाद् अधृष्याः परेषाम्
तान् अनुगुणान् भुञ्जीत सामदानाभ्यां, विगुणान् भेददण्डाभ्याम्
काम्बोजसुराष्ट्रक्षत्रियश्रेण्य्।आदयो वार्त्तशस्त्र उपजीविनः
लिच्छिविकवृजिकमल्लकमद्रककुकुरकुरुपाञ्चालादयो राजशब्द उपजीविनः
सर्वेषां आसन्नाः सत्त्रिणः सङ्घानां परस्परन्यङ्गद्वेषवैरकलहस्थानान्युपलभ्य क्रमाभिनीतं भेदं उपचारयेयुः असौ त्वा विजल्पति इति
एवं उभयतोबद्धरोषाणां विद्याशिल्पद्यूतवैहारिकेष्वाचार्यव्यञ्जना बालकलहान् उत्पादयेयुः
वेशशौण्डिकेषु वा प्रतिलोमप्रशंसाभिः सङ्घमुख्यमनुष्याणां तीक्ष्णाः कलहान् उत्पादयेयुः, कृत्यपक्ष उपग्रहेण वा
कुमारकान् विशिष्टच्छिन्दिकया हीनच्छिन्दिकान् उत्साहयेयुः
विशिष्टानां च एकपात्रं विवाहं वा हीनेभ्यो वारयेयुः
हीनान् वा विशिष्टैरेकपात्रे विवाहे वा योजयेयुः
अवहीनान् वा तुल्यभाव उपगमने कुलतः पौरुषतः स्थानविपर्यासतो वा
व्यवहारं अवस्थितं वा प्रतिलोमस्थापनेन निशामयेयुः
विवादपदेषु वा द्रव्यपशुमनुष्याभिघातेन रात्रौ तीक्ष्णाः कलहान् उत्पादयेयुः
सर्वेषु च कलहस्थानेषु हीनपक्षं राजा कोशदण्डाभ्यां उपगृह्य प्रतिपक्षवधे योजयेत्
भिन्नान् अपवाहयेद् वा
भूमौ च एषां पञ्चकुलीं दशकुलीं वा कृष्यायां निवेशयेत्
एकस्था हि शस्त्रग्रहणसमर्थाः स्युः
समवाये च एषां अत्ययं स्थापयेत्
राजशब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राजपुत्रत्वे स्थापयेत्
कार्तान्तिकादिश्चास्य वर्गो राजलक्षण्यतां सङ्घेषु प्रकाशयेत्
सङ्घमुख्यांश्च धर्मिष्ठान् उपजपेत् स्वधर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम् इति
प्रतिपन्नेषु कृत्यपक्ष उपग्रहार्थं अर्थं दण्डं च प्रेषयेत्
विक्रमकाले शौण्डिकव्यञ्जनाः पुत्रदारप्रेतापदेशेन नैषेचनिकम् इति मदनरसयुक्तान् मद्यकुम्भान्शतशः प्रयच्छेयुः
चैत्यदैवतद्वाररक्षास्थानेषु च सत्त्रिणः समयकर्मनिक्षेपं सहिरण्याभिज्ञानमुद्राणि हिरण्यभाजनानि च प्ररूपयेयुः
दृश्यमानेषु च सङ्घेषु राजकीयाः इत्यावेदयेयुः
अथावस्कन्दं दद्यात्
सङ्घानां वा वाहनहिरण्ये कालिके गृहीत्वा सङ्घमुख्याय प्रख्यातं द्रव्यं प्रयच्छेत्
तद् एषां याचिते दत्तं अमुष्मै मुख्याय इति ब्रूयात्
एतेन स्कन्धावाराटवीभेदो व्याख्यातः
सङ्घमुख्यपुत्रं आत्मसम्भावितं वा सत्त्री ग्राहयेत् अमुष्य राज्ञः पुत्रः त्वं, शत्रुभयाद् इह न्यस्तोऽसि इति
प्रतिपन्नं राजा कोशदण्डाभ्यां उपगृह्य सङ्घेषु विक्रमयेत्
अवाप्तार्थः तं अपि प्रवासयेत्
बन्धकीपोषकाः प्लवकनटनर्तकसौभिका वा प्रणिहिताः स्त्रीभिः परमरूपयौवनाभिः सङ्घमुख्यान् उन्मादयेयुः
जातकामानां अन्यतमस्य प्रत्ययं कृत्वाऽन्यत्र गमनेन प्रसभहरणेन वा कलहान् उत्पादयेयुः
कलहे तीक्ष्णाः कर्म कुर्युः हतोऽयं इत्थं कामुकः इति
विसंवादितं वा मर्षयमाणं अभिसृत्य स्त्री ब्रूयात् असौ मां मुख्यः त्वयि जातकामां बाधते, तस्मिञ्जीवति न इह स्थास्यामि इति घातं अस्य प्रयोजयेत्
प्रसह्यापहृता वा वनान्ते क्रिडागृहे वाऽपहर्तारं रात्रौ तीक्ष्णेन घातयेत्, स्वयं वा रसेन
ततः प्रकाशयेत् अमुना मे प्रियो हतः इति
जातकामं वा सिद्धव्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसन्धायापगच्छेत्
तस्मिन्न् अपक्रान्ते सत्त्रिणः परप्रयोगं अभिशंसेयुः
आढ्यविधवा गूढाजीवा योगस्त्रियो वा दायनिक्षेपार्थं विवदमानाः सङ्घमुख्यान् उन्मादयेयुः, अदितिकौशिकस्त्रियो नर्तकीगायना वा
प्रतिपन्नान् गूढवेश्मसु रात्रिसमागमप्रविष्टांः तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा
सत्त्री वा स्त्रीलोलुपं सङ्घमुख्यं प्ररूपयेत् अमुष्मिन् ग्रामे दरिद्रकुल्लं अपसृतं, तस्य स्त्री राजार्हा, गृहाण एनाम् इति
गृहीतायां अर्धमासानन्तरं सिद्धव्यञ्जनो दूष्यसङ्घमुख्यमध्ये प्रक्रोशेत् असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाऽधिचरति इति
तं चेत् सङ्घो निगृह्णीयात्, राजा एनं उपगृह्य विगुणेषु विक्रमयेत्
अनिगृहीते सिद्धव्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः
ततः तद्व्यञ्जनाः प्रक्रोशेयुः असौ ब्रह्महा ब्राह्मणीजारश्च इति
कार्तान्तिकव्यञ्जनो वा कन्यां अन्येन वृतां अन्यस्य प्ररूपयेत् अमुष्य कन्या राजपत्नी राजप्रसविनी च भविष्यति, सर्वस्वेन प्रसह्य वा एनां लभस्व इति
अलभ्यमानायां परपक्षं उद्धर्षयेत्
लब्धायां सिद्धः कलहः
भिक्षुकी वा प्रियभार्यं मुख्यं ब्रूयात् असौ ते मुख्यो यौवन उत्सिक्तो भार्यायां मां प्राहिणोत्, तस्याहं भयाल्लेख्यं आभरणं गृहीत्वाऽऽगताऽस्मि, निर्दोषा ते भार्या, गूढं अस्मिन् प्रतिकर्तव्यं, अहं अपि तावत् प्रतिपत्स्यामि इति
एवं।आदिषु कलहस्थानेषु स्वयं उत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीनपक्षं राजा कोशदण्डाभ्यां उपगृह्य विगुणेषु विक्रमयेद् अपवाहयेद् वा
सङ्घेष्वेवं एकराजो वर्तेत
सङ्घाश्चाप्येवं एकराजाद् एतेभ्योऽतिसङ्घान् एभ्यो रक्षयेयुः
सङ्घमुख्यश्च सङ्घेषु न्यायवृत्तिर्हितः प्रियः ।
दान्तो युक्तजनः तिष्ठेत् सर्वचित्तानुवर्तकः