बलीयसाऽभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसधर्मा तिष्ठेत्
इन्द्रस्य हि स प्रणमति यो बलीयसो नमति इति भारद्वाजः
सर्वसन्दोहेन बलानां युध्येत
पराक्रमो हि व्यसनं अपहन्ति
स्वधर्मश्च एष क्षत्रियस्य, युद्धे जयः पराजयो वा इति विशालाक्षः
न इति कौटिल्यः
सर्वत्रानुप्रणतः कुलैडक इव निराशो जीविते वसति
युध्यमानश्चाल्पसैन्यः समुद्रं इवाप्लवोऽवगाहमानः सीदति
तद्विशिष्टं तु राजानं आश्रितो दुर्गं अविषह्यं वा चेष्टेत
त्रयोऽभियोक्तारो धर्मलोभासुरविजयिन इति
तेषां अभ्यवपत्त्या धर्मविजयी तुष्यति
तं अभ्यवपद्येत, परेषां अपि भयात्
भूमिद्रव्यहरणेन लोभविजयी तुष्यति
तं अर्थेनाभ्यवपद्येत
भूमिद्रव्यपुत्रदारप्राणहरणेनासुरविजयी
तं भूमिद्रव्याभ्यां उपगृह्याग्राह्यः प्रतिकुर्वीत
तेषां अन्यतमं उत्तिष्ठमानं सन्धिना मन्त्रयुद्धेन कूटयुद्धेन वा प्रतिव्यूहेत
शत्रुपक्षं अस्य सामदानाभ्यां, स्वपक्षं भेददण्डाभ्याम्
दुर्गं राष्ट्रं स्कन्धावारं वाऽस्य गूढाः शस्त्ररसाग्निभिः साधयेयुः
सर्वतः पार्ष्णिं अस्य ग्राहयेत्
अटवीभिर्वा राज्यं घातयेत्, तत्कुलीनापरुद्धाभ्यां वा हारयेत्
अपकारान्तेषु चास्य दूटं प्रेषयेत्
अनपकृत्य वा सन्धानम्
तथाऽप्यभिप्रयान्तं कोशदण्डयोः पाद उत्तरं अहोरात्र उत्तरं वा सन्धिं याचेत
स चेद् दण्डसन्धिं याचेत, कुण्ठं अस्मै हस्त्य्ऽश्वं दद्याद्, उत्साहितं वा गरयुक्तम्
पुरुषसन्धिं याचेत, दूष्यामित्राटवीबलं अस्मै दद्याद् योगपुरुषाधिष्ठितम्
तथा कुर्याद् यथा उभयविनाशः स्यात्
तीक्ष्णबलं वाऽस्मै दद्याद् यद् अवमानितं विकुर्वीत, मौलं अनुरक्तं वा यद् अस्य व्यसनेऽपकुर्यात्
कोशसन्धिं याचेत, सारं अस्मै दद्याद् यस्य क्रेतारं नाधिगच्छेत्, कुप्यं अयुद्धयोग्यं वा
भूमिसन्धिं याचेत, प्रत्यादेयां नित्यामित्रां अनपाश्रयां महाक्षयव्ययनिवेशां वाऽस्मै भूमिं दद्यात्
सर्वस्वेन वा राजधानीवर्जेन सन्धिं याचेत बलीयसः
यत् प्रसह्य हरेद् अन्यः तत् प्रयच्चेद् उपायतः ।
रक्षेत् स्वदेहं न धनं का ह्यनित्ये धने दया