श्लोक १२-०२

Kautilya Arthashastra by Acharya Chankya
स चेत् सन्धौ नावतिष्ठेत, ब्रूयाद् एनं - इमे शत्रुषड्वर्गवशगा राजानो विनष्टाः, तेषां अनात्मवतां नार्हसि मार्गं अनुगन्तुम्
धर्मं अर्थं चावेक्षस्व
मित्रमुखा ह्यमित्राः ते ये त्वा साहसं अधर्मं अर्थातिक्रमं च ग्राहयन्ति
शूरैः त्यक्तात्मभिः सह योद्धुं साहसं, जनक्षयं उभयतः कर्तुं अधर्मः, दृष्टं अर्थं मित्रं अदुष्टं च त्यक्तुं अर्थातिक्रमः
मित्रवांश्च स राजा, भूयश्च एतेनार्थेन मित्राण्युद्योजयिष्यति यानि त्वा सर्वतोऽभियास्यन्ति
न च मध्यम उदासीनयोर्मण्डलस्य वा परित्यक्तः, भवांः तु परित्यक्तः यत्त्वा समुद्युक्तं उपप्रेक्षन्ते भूयः क्षयव्ययाभ्यां युज्यतां, मित्राच्च भिद्यतां, अथ एनं परित्यक्तमूलं सुखेन उच्छेत्स्यामः इति
स भवान्नार्हति मित्रमुखानां अमित्राणां श्रोतुं, मित्राण्युद्वेजयितुं अमित्रांश्च श्रेयसा योक्तुं, प्राणसंशयं अनर्थं च उपगन्तुम् इति यच्छेत्
तथाऽपि प्रतिष्ठमानस्य प्रकृतिकोपं अस्य कारयेद् यथा सङ्घवृत्ते व्याख्यातं योगवामने च
तीक्ष्णरसदप्रयोगं च
यद् उक्तं आत्मरक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश्च प्रयुञ्जीत
बन्धकीपोषकाः परमरूपयौवनाभिः स्त्रीभिः सेनामुख्यान् उन्मादयेयुः
बहूनां एकस्यां द्वयोर्वा मुख्ययोः कामे जाते तीक्ष्णाः कलहान् उत्पादयेयुः
कलहे पराजितपक्षं परत्रापगमने यात्रासाहाय्यदाने वा भर्तुर्योजयेयुः
कामवशान् वा सिद्धव्यञ्जनाः सांवदनिकीभिरोषधीभिरतिसन्धानाय मुख्येषु रसं दापयेयुः
वैदेहकव्यञ्जने वा राजमहिष्याः सुभगायाः प्रेष्यां आसन्नां कामनिमित्तं अर्थेनाभिवृष्य परित्यजेत्
तस्य एव परिचारकव्यञ्जन उपदिष्टः सिद्धव्यञ्जनः सांवदनिकीं ओषधीं दद्यात् वैदेहकशरीरेऽवघातव्या इति
सिद्धे सुभगाया अप्येनं योगं उपदिशेत् राजशरीरेऽवधातव्या इति
ततो रसेनातिसन्दध्यात्
कार्तान्तिकव्यञ्जनो वा महामात्रं राजलक्षणसम्पन्नम् क्रमाभिनीतं ब्रूयात्
भार्यां अस्य भिक्षुकी राजपत्नी राजप्रसविनी वा भविष्यसि इति
भार्याव्यञ्जना वा महामात्रं ब्रूयात् राजा किल मां अवरोधयिष्यति, तवान्तिकाय पत्त्रलेख्यं आभरणं च इदं परिव्राजिकयाऽऽहृतम् इति
सूदारालिकव्यञ्जनो वा रसप्रयोगार्थं राजवचनं अर्थं चास्य लोभनीयं अभिनयेत्
तद् अस्य वैदेहकव्यञ्जनः प्रतिसन्दध्यात्, कार्यसिद्धिं च ब्रूयात्
एवं एकेन द्वाभ्यां त्रिभिरित्युपायैरेक एकं अस्य महामात्रं विक्रमायापगमनाय वा योजयेत् - इति
दुर्गेषु चास्य शून्यपालासन्नाः सत्त्रिणः पौरजानपदेषु मैत्रीनिमित्तं आवेदयेयुः - शून्यपालेन उक्ता योधाश्चाधिकरणस्थाश्च कृच्छ्रगतो राजा जीवन्न् आगमिष्यति, न वा, प्रसह्य वित्तं आर्जयध्वं, अमित्रांश्च हत इति
बहुलीभूते तीक्ष्णाः पौरान्निशास्वाहारयेयुः, मुख्यांश्चाभिहन्युः एवं क्रियन्ते ये शून्यपालस्य न शुश्रूषन्ते इति
शून्यपालस्थानेषु च सशोणितानि शस्त्रवित्तबन्धनान्युत्सृजेयुः
ततः सत्त्रिणः शून्यपालो घातयति विलोपयति च इत्यावेदयेयुः
एवं जानपदान् समाहर्तुर्भेदयेयुः
समाहर्तृपुरुषांः तु ग्राममध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः एवं क्रियन्ते ये जनपदं अधर्मेण बाधन्ते इति
समुत्पन्ने दोषे शून्यपालं समाहर्तारं वा प्रकृतिकोपेन घातयेयुः
तत्कुलीनं अपरुद्धं वा प्रतिपादयेयुः
अन्तःपुरपुरद्वारं द्रव्यधान्यपरिग्रहान् ।
दहेयुः तांश्च हन्युर्वा ब्रूयुरस्यार्तवादिनः