राज्ञो राजवल्लभानां चासन्नाः सत्त्रिणः पत्त्य्ऽश्वरथद्विपमुख्यानां राजा क्रुद्धः इति सुहृद्विश्वासेन मित्रस्थानीयेषु कथयेयुः
बहुलीभूते तीक्ष्णाः कृतरात्रिचारप्रतीकारा गृहेषु स्वामिवचनेनागम्यताम् इति ब्रूयुः
तान्निर्गच्छत एवाभिहन्युः, स्वामिसन्देशः इति चासन्नान् ब्रूयुः
ये चाप्रवासिताः तान् सत्त्रिणो ब्रूयुः एतत् तद् यद् अस्माभिः कथितं, जीवितुकामेनापक्रान्तव्यम् इति
येभ्यश्च राजा याचितो न ददाति तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा अयाच्यं अर्थं असौ चासौ च मा याचते, मया प्रत्याख्याताः शत्रुसंहिताः, तेषां उद्धरणे प्रयतस्व इति
ततः पूर्ववद् आचरेत्
येभ्यश्च राजा याचितो ददाति तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा अयाच्यं अर्थं असौ चासौ च मा याचते, तेभ्यो मया सोऽर्थो विश्वासार्थं दत्तः, शत्रुसंहिताः, तेषां उद्धरणे प्रयतस्व इति
ततः पूर्ववद् आचरेत्
ये च एनं याच्यं अर्थं न याचन्ते तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा याच्यं अर्थं असौ चासौ च मा न याचते, किं अन्यत् स्वदोषशङ्कितत्वात्, तेषां उद्धरणे प्रयतस्व इति
ततः पूर्ववद् आचरेत्
एतेन सर्वः कृत्यपक्षो व्याख्यातः
प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत् असौ चासौ च ते महामात्रः शत्रुपुरुषैः सम्भाषते इति
प्रतिपन्ने दूष्यान् अस्य शासनहरान् दर्शयेत् एतत् तत् इति
सेनामुख्यप्रकृतिपुरुषान् वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेद् अपवाहयेद् वा
योऽस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणा उपजापयेत् आत्मसम्पन्नतरः त्वं पुत्रः, तथाऽप्यन्तर्हितः, तत्किं उपेक्षसे विक्रम्य गृहाण, पुरा त्वा युवराजो विनाशयति इति
तत्कुलीनं अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात् अन्तर्बलं प्रत्यन्तस्कन्धं अन्तं वाऽस्य प्रमृद्नीहि इति
आटविकान् अर्थमानाभ्यां उपगृह्य राज्यं अस्य घातयेत्
पार्ष्णिग्राहं वाऽस्य ब्रूयात् एष खलु राजा मां उच्छिद्य त्वां उच्छेत्स्यति, पार्ष्णिं अस्य गृहाण, त्वयि निवृत्तस्याहं पार्ष्णिं ग्रहीष्यामि इति
मित्राणि वाऽस्य ब्रूयात् अहं वः सेतुः, मयि विभिन्ने सर्वान् एष वो राजा प्लावयिष्यति, सम्भूय वाऽस्य यात्रां विहनाम इति
तत्संहतानां असंहतानां च प्रेषयेत् एष खलु राजा मां उत्पाट्य भवत्सु कर्म करिष्यति, बुध्यध्वं, अहं वः श्रेयान् अभ्युपपत्तुम् इति
मध्यमस्य प्रहिणुयाद् उदासीनस्य वा पुनः ।
यथाऽऽसन्नस्य मोक्षार्थं सर्वस्वेन तद्ऽर्पणम्