ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेसु गृहपतिकव्यञ्जनाः, जनपदसन्धिषु गोरक्षकतापसव्यञ्जनाः, ते सामन्ताटविकतत्कुलीनापरुद्धानां पण्यागारपूर्वं प्रेषयेयुः अयं देशो हार्यः इति
आगतांश्च एषां दुर्गे गूढपुरुषान् अर्थमानाभ्यां अभिसत्कृत्य प्रकृतिच्छिद्राणि प्रदर्शयेयुः
तेषु तैः सह प्रहरेयुः
स्कन्धावारे वाऽस्य शौण्डिकव्यञ्जनः पुत्रं अभित्यक्तं स्थापयित्वाऽवस्कन्दकाले रसेन प्रवासयित्वा नैषेचनिकम् इति मदनरसयुक्तान् मद्यकुम्भान्शतशः प्रयच्छेत्
शुद्धं वा मद्यं पाद्यं वा मद्यं दद्याद् एकं अहः, उत्तरं रस्सिद्धं प्रयच्छेत्
शुद्धं वा मद्यं दण्डमुख्येभ्यः प्रदाय मदकाले रससिद्धं प्रयच्छेत्
दण्डमुख्यव्यञ्जनो वा पुत्रं अभित्यक्तं इति समानम्
पाक्वमांसिकाउदनिकाउण्डिकापूपिकव्यञ्जना वा पण्यविशेषं अवघोषयित्वा परस्परसङ्घर्षेण कालिकं समर्घतरं इति वा परान् आहूय रसेन स्वपण्यान्यपचारयेयुः
सुराक्षीरदधिसर्पिस्तैलानि वा तद्व्यवहर्तृहस्तेषु गृहीता स्त्रियो बालाश्च रसयुक्तेषु स्वभाजनेषु परिकिरेयुः
अनेनार्घेण, विशिष्टं वा भूयो दीयताम् इति तत्र एवावाकिरेयुः
एतान्येव वैदेहकव्यञ्जनाः, पण्यविरेयेणाहर्तारो वा
हस्त्य्ऽश्वानां विधायवसेषु रसं आसन्ना दद्युः
कर्मकरव्यञ्जना वा रसाक्तं यवसं उदकं वा विक्रीणीरन्
चिरसंसृष्टा वा गोवाणिजका गवां अजावीनां वा यूथान्यवस्कन्दकालेषु परेषां मोहस्थानेषु प्रमुञ्चेयुः, अश्वखर उष्ट्रमहिषादीनां दुष्टांश्च
तद्व्यञ्जना वा चुच्छुन्दरीशोणिताक्ताक्षान्
लुब्धकव्यञ्जना वा व्यालमृगान् पञ्जरेभ्यः प्रमुञ्चेयुः, सर्पग्राहा वा सर्पान् उग्रविषान्, हस्तिजीविनो वा हस्तिनः
अग्निजीविनो वाऽग्निं अवसृजेयुः
गूढपुरुषा वा विमुखान् पत्त्य्ऽश्वरथद्विपमुख्यान् अभिहन्युः, आदीपयेयुर्वा मुख्यावासान्
दूष्यामित्राटविकव्यञ्जनाः प्रणिहिताः पृष्ठाभिघातं अवस्कन्दप्रतिग्रहं वा कुर्युः
वनगूढा वा प्रत्यन्तस्कन्धं उपनिष्कृष्याभिहन्युः, एकायने वीवधासारप्रसारान् वा
ससङ्केतं वा रात्रियुद्धे भूरितूर्यं आहत्य ब्रूयुः अनुप्रविष्टाः स्मो, लब्धं राज्यम् इति
राजावासं अनुप्रविष्टा वा सङ्कुलेषु राजानं हन्युः
सर्वतो वा प्रयातं एन(?एव?) म्लेच्छाटविकदण्टचारिणः सत्त्रापाश्रयाः स्तम्भवाटापाश्रया वा हन्युः
लुब्धकव्यञ्जना वाऽवस्कन्दसङ्कुलेषु गूढयुद्धहेतुभिरभिहन्युः
एकायने वा शैलस्तम्भवाटखञ्जनान्तर्।उदके वा स्वभूमिबलेनाभिहन्युः
नदीसरस्तटाकसेतुबन्धभेदवेगेन वा प्लावयेयुः
धान्वनवनदुर्गनिम्नदुर्गस्थं वा योगाग्निधूमाभ्यां नाशयेयुः
सङ्कटगतं अग्निना, धान्वनगतं धूमेन, निधानगतं रसेन, तोयावगाढं दुष्टग्राहैरुदकचरणैर्वा तीक्ष्णाः साधयेयुः, आदीप्तावासान्निष्पतन्तं वा
योगवामनयोगाभ्यां योगेनान्यतमेन वा ।
अमित्रं अतिसन्दध्यात् सक्तं उक्तासु भूमिषु