श्लोक १२-०५

Kautilya Arthashastra by Acharya Chankya
दैवतेज्यायाम्(देवता इज्यायाम्?) यात्रायां अमित्रस्य बहूनि पूजाऽऽगमस्थानानि भक्तितः
तत्रास्य योगं उब्जयेत्
देवतागृहप्रविष्टस्य उपरि यन्त्रमोक्षणेन गूढभित्तिं शिलां वा पातयेत्
शिलाशस्त्रवर्षं उत्तमागारात्, कपाटं अवपातितं वा, भित्तिप्रणिहितं एकदेशबद्धं वा परिघं मोक्षयेत्
देवतादेहध्वजप्रहरणानि वाऽस्य उपरिष्टात् पातयेत्
स्थानासनगमनभूमिषु वाऽस्य गोमयप्रदेहेन गन्ध उदकप्रसेकेन वा रसं अतिचारयेत्, पुष्पचूर्ण उपहारेण वा
गन्धप्रतिच्छन्नं वाऽस्य तीक्ष्णं धूमं अतिनयेत्
शूलकूपं अवपातनं वा शयनासनस्याधस्ताद् यन्त्रबद्धतलं एनं कीलमोक्षणेन प्रवेशयेत्
प्रत्यासन्ने वाऽमित्रे जनपदाज् जनं अवरोधक्षमं अतिनयेत्
दुर्गाच्चानवरोधक्षमं अपनयेत्, प्रत्यादेयं अरिविषयं वा प्रेषयेत्
जनपदं च एकस्थं शैलवननदीदुर्गेष्वटवीव्यवहितेषु वा पुत्रभ्रातृपरिगृहीतं स्थापयेत्
उपरोधहेतवो दण्ड उपनतवृत्ते व्याख्याताः
तृणकाष्ठं आयोजनाद् दाहयेत्
उदकानि च दूषयेत्, अवस्रावयेच्च
कूपकूटावपातकण्टकिनीश्च बहिरुब्जयेत्
सुरुङ्गां अमित्रस्थाने बहुमुखीं कृत्वा निचयमुख्यान् अभिहारयेत्, अमित्रं वा
परप्रयुक्तायां वा सुरुङ्गायां परिखां उदकान्तिकीं खानयेत्, कूपशालां अनुसालं वा
तोयकुम्भान् कांस्यभाण्डानि वा शङ्कास्थानेषु स्थापयेत् खाताभिज्ञानार्थम्
ज्ञाते सुरुङ्गापथे प्रतिसुरुङ्गां कारयेत्
मध्ये भित्त्वा धूमं उदकं वा प्रयच्छेत्
प्रतिविहितदुर्गो वा मूले दायाद् कृत्वा प्रतिलोमां अस्य दिशं गच्छेत्, यतो वा मित्रैर्बन्धुभिराटविकैर्वा संसृज्येत परस्यामित्रैर्दूष्यैर्वा महद्भिः, यतो वा गतोऽस्य मित्रैर्वियोगं कुर्यात् पार्ष्णिं वा गृह्णीयात् राज्यं वाऽस्य हारयेत् वीवधासारप्रसारान् वा वारयेत्, यतो वा शक्नुयाद् आक्षिकवद् अपक्षेपेणास्य प्रहर्तुं, यतो वा स्वं राज्यं त्रायेत मूलस्य उपचयं वा कुर्यात्
यतः सन्धिं अभिप्रेतं लभेत ततो वा गच्छेत्
सहप्रस्थायिनो वाऽस्य प्रेषयेयुः अयं ते शत्रुरस्माकं हस्तगतः, पण्यं विप्रकारं वाऽपदिश्य हिरण्यं अन्तःसारबलं च प्रेषय यस्य एनं अर्पयेम बद्धं प्रवासितं वा इति
प्रतिपन्ने हिरण्यं सारबलं चाददीत
अन्तपालो वा दुर्गसम्प्रदाने बल एकदेशं अतिनीय विश्वस्तं घातयेत्
जनपदं एकस्थं वा घातयितुं अमित्रानीकं आवाहयेत्
तद् अवरुद्धदेशं अतिनीय विश्वस्तं घातयेत्
मित्रव्यञ्जनो वा बाह्यस्य प्रेषयेत् क्षीणं अस्मिन् दुर्गे धान्यं स्नेहाः क्षारो लवणं वा, तद् अमुष्मिन् देशे काले च प्रवेक्ष्यति, तद् उपगृहाण इति
ततो रसविद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्यामित्राटविकाः प्रवेशयेयुः, अन्ये वाऽभित्यक्ताः
तेन सर्वभाण्डवीवधग्रहणं व्याख्यातम्
सन्धिं वा कृत्वा हिरण्य एकदेशं अस्मै दद्यात्, विलम्बमानः शेषम्
ततो रक्षाविधानान्यवस्रावयेत्
अग्निरसशस्त्रैर्वा प्रहरेत्
हिरण्यप्रतिग्राहिणो वाऽस्य वल्लभान् अनुगृह्णीयात्
परिक्षीणो वाऽस्मै दुर्गं दत्त्वा निर्गच्छेत्
सुरुङ्गया कुक्षिप्रदरेण वा प्राकारभेदेन निर्गच्छेत्
रात्राववस्कन्दं दत्त्वा सिद्धः तिष्ठेत्, असिद्धः पार्श्वेनापगच्छेत्
पाषण्डच्छद्मना मन्दपरिवारो निर्गच्छेत्
प्रेतव्यञ्जनो वा गूढैर्निह्रियेत
स्त्रीवेषधारी वा प्रेतं अनुगच्छेत्
दैवत उपहारश्राद्धप्रहवणेषु वा रसविद्धं अन्नपानं अवसृज्य
कृत उपजापो दूष्यव्यञ्जनैर्निष्पत्य गूढसैन्योऽभिहन्यात्
एवं गृहीतदुर्गो वा प्राश्यप्राशं चैत्यं उपस्थाप्य दैवतप्रतिमाच्छिद्रं प्रविश्यासीत, गूढभित्तिं वा, दैवतप्रतिमायुक्तं वा भूमिगृहम्
विस्मृते सुरुङ्गया रात्रौ राजावासं अनुप्रविश्य सुप्तं अमित्रं हन्यात्
यन्त्रविश्लेषणं वा विश्लेष्याधस्ताद् अवपातयेत्
रसाग्नियोगेनावलिप्तं गृहं जतुगृहं वाऽधिशयानं अमित्रं आदीपयेत्
प्रमदवनविहाराणां अन्यतमे वा विहारस्थाने प्रमत्तं भूमिगृहसुरुङ्गागूढभित्तिप्रविष्टाः तीक्ष्णा हन्युः, गूढप्रणिहिता वा रसेन
स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्परसाग्निधूमान् उपरि मुञ्चेयुः
प्रत्युत्पन्ने वा कारणे यद् यद् उपपद्येत तत् तद् अमित्रेऽन्तःपुरगते गूढसञ्चारः प्रयुञ्जीत
ततो गूढं एवापगच्छेत्, स्वजनसंज्ञां च प्ररूपयेत्
द्वाह्स्थान् वर्षधरांश्चान्यान्निगूढ उपहितान् परे ।
तूर्यसंज्ञाभिराहूय द्विषत्शेषाणि घातयेत्