विजिगीषुः परग्रामं अवाप्तुकामः सर्वज्ञदैवतसम्योगख्यापनाभ्यां स्वपक्षं उद्धर्षयेत्, परपक्षं च उद्वेजयेत्
सर्वज्ञख्यापनं तु - गृहगुह्यप्रवृत्तिज्ञानेन प्रत्यादेशो मुख्यानां, कण्टकशोधनापसर्पावगमेन प्रकाशनं राजद्विष्टकारिणां, विज्ञाप्य उपायनख्यापनं अदृष्टसंसर्गविद्यासंज्ञाऽऽदिभिः, विदेशप्रवृत्तिज्ञानं तद् अहरेव गृहकपोतेन मुद्रासम्युक्तेन
दैवतसम्योगख्यापनं तु - सुरुङ्गामुखेनाग्निचैत्यदैवतप्रतिमाच्छिद्रान् अनुप्रविष्टैरग्निचैत्यदैवतव्यञ्जनैः सम्भाषणं पूजनं च, उदकाद् उत्थितैर्वा नागवरुणव्यञ्जनैः सम्भाषणं पूजनं च, रात्रावन्तर्।उदके समुद्रवालुकाकोशं प्रणिधायाग्निमालादर्शनं, शिलाशिक्यावगृहीते प्लवके स्थानं, उदकबस्तिना जरायुणा वा शिरोऽवगूढनासः पृषतान्त्रकुलीरनक्रशिंशुमार उद्रवसाभिर्वा शतपाक्यं तैलं नस्तः प्रयोगः
तेन रात्रिगणश्चरति
इत्युदकचरणानि
तैर्वरुणनागकन्यावाक्यक्रिया सम्भाषणं च, कोपस्थानेषु मुखाद् अग्निधूम उत्सर्गः
तद् अस्य स्वविषये कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिक इक्षणिकगूढपुरुषाः साचिव्यकराः तद्दर्शिनश्च प्रकाशयेयुः
परस्य विषये दैवतदर्शनं दिव्यकोशदण्ड उत्पत्तिं चास्य ब्रूयुः
दैवतप्रश्ननिमित्तवायसाङ्गविद्यास्वप्नमृगपक्षिव्याहारेषु चास्य विजयं ब्रूयुः, विपरीतं अमित्रस्य
सदुन्दुभिं उल्कां च परस्य नक्षत्रे दर्शयेयुः
परस्य मुख्यान् मित्रत्वेन उपदिशन्तो दूतव्यञ्जनाः स्वामिसत्कारं ब्रूयुः, स्वपक्षबलाधानं परपक्षप्रतिघातं च
तुल्ययोगक्षेमं अमात्यानां आयुधीयानां च कथयेयुः
तेषु व्यसनाभ्युदयावेक्षणं अपत्यपूजनं च प्रयुञ्जीत
तेन परपक्षं उत्साहयेद् यथा उक्तं पुरस्तात्
भूयश्च वक्ष्यामः
साधारणगर्दभेन दक्षान्, लकुटशाखाहननाभ्यां दण्डचारिणः, कुल एडकेन च उद्विग्नान्, अशनिवर्षेण विमानितान्, विदुलेनावकेशिना वायसपिण्डेन कैतवजमेघेन इति विहताशान् दुर्भगालङ्कारेण द्वेषिणा इति पूजाफलान्, व्याघ्रचर्मणा मृत्युकूटेन च उपहितान्, पीलुविखादनेन करकयोष्ट्रया गर्दभीक्षीराऽभिमन्थनेन इति ध्रुव उपकारिण इति
प्रतिपन्नान् अर्थमानाभ्यां योजयेत्
द्रव्यभक्तच्छिद्रेषु च एनान् द्रव्यभक्तदानैरनुगृह्णीयात्
अप्रतिगृह्णतां स्त्रीकुमारालङ्कारान् अभिहरेयुः
दुर्भिक्षस्तेनाटव्य्।उपघातेषु च पौरजानपदान् उत्साहयन्तः सत्त्रिणो ब्रूयुः राजानं अनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः इति
तथा इति प्रतिपन्नेषु द्रव्यधान्यान्यपरिग्रहैः ।
साचिव्यं कार्यं इत्येतद् उपजापाद् भूतं महत्