मुण्डो जटिलो वा पर्वतगुहावासी चतुर्वर्षशतायुर्ब्रुवाणः प्रभूतजटिलान्तेवासी नगराभ्याशे तिष्ठेत्
शिष्याश्चास्य मूलफल उपगमनैरमात्यान् राजानं च भगवद्दर्शनाय योजयेयुः
समागताश्च राज्ञा पूर्वराजदेशाभिज्ञानानि कथयेत्, शते शते च वर्षाणां पूर्णेऽहं अग्निं प्रविश्य पुनर्बालो भवामि, तद् इह भवत् समीपे चतुर्थं अग्निं प्रवेक्ष्यामि, अवश्यं मे भवान् मानयितव्यः, त्रीन् वरान् वृणीष्ण(वृषीष्व) इति
प्रतिपन्नं ब्रूयात् सप्तरात्रं इह सपुत्रदारेण प्रेक्षाप्रहवणपूर्वं वस्तव्यम् इति
वसन्तं अवस्कन्देत
मुण्डो वा जटिलो वा स्थानिकव्यञ्जनः प्रभूतजटिलान्तेवासी वस्तशोणितदिग्धां वेणुशलाकां सुवर्णचूर्णेनावलिप्य वल्मीके निदध्याद् उपजिह्विकानुसरणार्थं, स्वर्णनालिकां वा
ततः सत्त्री राज्ञः कथयेत् असौ सिद्धः पुष्पितं निधिं जानाति इति
स राज्ञा पृष्ठः तथा इति ब्रूयात्, तच्चाभिज्ञानं दर्शयेत्, भूयो वा हिरण्यं अन्तर्।आधाय
ब्रूयाच्च एनं नागरक्षितोऽयं निधिः प्रणिपातसाध्यः इति
प्रतिपन्नं ब्रूयात् सप्तरात्रम् इति समानम्
स्थानिकव्यञ्जनं वा रात्रौ तेजनाग्नियुक्तं एकान्ते तिष्ठन्तं सत्त्रिणः क्रमाभीनीतं राज्ञः कथयेयुः असौ सिद्धः सामेधिकः इति
तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः सप्तरात्रम् इति समानम्
सिद्धव्यञ्जनो वा राजानं जम्भकविद्याभिः प्रलोभयेत्
तं राजा इति समानम्
सिद्धव्यञ्जनो वा देशदेवतां अभ्यर्हितां आश्रित्य प्रहवणैरभीक्ष्णं प्रकृतिमुख्यान् अभिसंवास्य क्रमेण राजानं अतिसन्दध्यात्
जटिलव्यञ्जनं अन्तर्।उदकवासिनं वा सर्वश्वेतं तटसुरुङ्गाभूमिगृहापसरणं वरुणं नागराजं वा सत्त्रिणः क्रमाभिनीतं राज्ञः कथयेयुः
तं राजा इति समानम्
जनपदान्तेवासी सिद्धव्यञ्जनो वा राजानं शत्रुदर्शनाय योजयेत्
प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत्
अश्वपण्य उपयाता वैदेहकव्यञ्जनाः पण्य उपायननिमित्तं आहूय राजानं पण्यपरीक्षायां आसक्तं अश्वव्यतिकीर्णं वा हन्युः, अश्वैश्च प्रहरेयुः
नगराभ्याशे वा चैत्यं आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन् वा विदुलानि धमन्तः स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः, पूजा नो वर्तताम् इत्यव्यक्तं ब्रूयुः
तद् एषां नैमित्तिकमौहूर्तिकव्यञ्जनाः ख्यापयेयुः
मङ्गल्ये वा ह्रदे तटाकमध्ये वा रात्रौ तेजनतैलाभ्यक्ता नागरूपिणः शक्तिमुसलान्ययोमयानि निष्पेषयन्तः तथैव ब्रूयुः
ऋक्षचर्मकञ्चुकिनो वाऽग्निधूम उत्सर्गयुक्ता रक्षोरूपं वहन्तः त्रिरपसव्यं नगरं कुर्वाणाः श्वसृगालवाशितान्तरेषु तथैव ब्रूयुः
चैत्यदैवतप्रतिमां वा तेजनतैलेनाभ्रपटलच्छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः
तद् अन्ये ख्यापयेयुः
दैवतप्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः
तद् अन्ये देवरुधिरसंस्रावे सङ्ग्रामे पराजयं ब्रूयुः
सन्धिरात्रिषु श्मशानप्रमुखे वा चैत्यं ऊर्ध्वभक्षितैर्मनुष्यैः प्ररूपयेयुः
ततो रक्षोरूपी मनुष्यकं याचेत
यश्चात्र शूरवादिकोऽन्यतमो वा द्रष्टुं आगच्छेत् तं अन्ये लोहमुसलैर्हन्युः, यथा रक्षोभिर्हत इति ज्ञायेत
तद् अद्भुतं राज्ञः तद्दर्शिनः सत्त्रिणश्च कथयेयुः
ततो नैमितित्कमौहूर्तिकव्यञ्जनाः शान्तिं प्रायश्चित्तं ब्रूयुः अन्यथा महद् अकुशलं राज्ञो देशस्य च इति
प्रतिपन्नं एतेषु सप्तरात्रं एक एकमन्त्रबलिहोमं स्वयं राज्ञा कर्तव्यम् इति ब्रूयुः
ततः समानम्
एतान् वा योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेशार्थम्
ततः प्रयोजयेद् योगान्
योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात्
हस्तिकामं वा नागवनपाला हस्तिना लक्षण्येन प्रलोभयेयुः
प्रतिपन्नं गहनं एकायनं वाऽतिनीय घातयेयुः, बद्ध्वा वाऽपहरेयुः
तेन मृगयाकामो व्याख्यातः
द्रव्यस्त्रीलोलुपं आढ्यविधवाभिर्वा परमरूपयौवनाभिः स्त्रीभिर्दायनिक्षेपार्थं उपनीताभिः सत्त्रिणः प्रलोभयेयुः
प्रतिपन्नं रात्रौ सत्त्रच्छन्नाः समागमे शस्त्ररसाभ्यां घातयेयुः
सिद्धप्रव्रजितचैत्यस्तूपदैवतप्रतिमानां अभीक्ष्णाभिगमनेषु वा भूमिगृहसुरुङ्गारूढभित्तिप्रविष्टाः तीक्ष्णाः परं अभिहन्युः
येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयम् ।
यात्राविहारे रमते यत्र क्रीडति वाऽम्भसि
धिग्।उक्त्य्।आदिषु सर्वेषु यज्ञप्रहवणेषु वा ।
सूतिकाप्रेतरोगेषु प्रीतिशोकभयेषु वा ।
प्रमादं याति यस्मिन् वा विश्वासात् स्वजन उत्सवे
यत्रास्यारक्षिसञ्चारो दुर्दिने सङ्कुलेषु वा ।
विप्रस्थाने प्रदीप्ते वा प्रविष्टे निर्जनेऽपि वा ।
वस्त्राभरणमाल्यानां फेलाभिः शयनासनैः
मद्यभोजनफेलाभिः तूर्यैर्वाऽभिगताः सह ।
प्रहरेयुररिं तीक्ष्णाः पूर्वप्रणिहितैः सह (इति)
यथैव प्रविशेयुश्च द्विषतः सत्त्रहेतुभिः ।
तथैव चापगच्छेयुरित्युक्तं योगवामनम्