श्रेणीमुख्यं आप्तं निष्पातयेत्
स परं आश्र्त्य पक्षापदेशेन स्वविषयात् साचिव्यकरसहाय उपादानं कुर्वीत
कृतापसर्प उपचयो वा परं अनुमान्य स्वामिनो दूष्यग्रामं वीतहस्त्य्ऽश्वं दूष्यामात्यं दण्डं आक्रन्दं वा हत्वा परस्य प्रेषयेत्
जनपद एकदेशं श्रेणीं अटवीं वा सहाय उपादानार्थं संश्रयेत
विश्वासं उपगतः स्वामिनः प्रेषयेत्
ततः स्वामी हस्तिबन्धनं अटवीघातं वाऽपदिश्य गूढं एव प्रहरेत्
एतेनामात्याटविका व्याख्याताः
शत्रुणा मैत्रीं कृत्वाऽमात्यान् अवक्षिपेत्
ते तत्शत्रोः प्रेषयेयुः भर्तारं नः प्रसादय इति
स यं दूतं प्रेषयेत्, तं उपालभेत भर्ता ते मां अमात्यैर्भेदयति, न च पुनरिहागन्तव्यम् इति
अथ एकं अमात्यं निष्पातयेत्
स परं आश्रित्य योगापसर्पापरक्तदूष्यान् अशक्तिमतः स्तेनाटविकान् उभय उपघातकान् वा परस्य उपहरेत्
आप्तभाव उपगतः प्रवीरपुरुष उपघातं अस्य उपहरेद् अन्तपालं आटविकं दण्डचारिणं वा दृढं असौ चासौ च ते शत्रुणा सन्धत्ते इति
अथ पश्चाद् अभित्यक्तशासनैरेनान् घातयेत्
दण्डबलव्यवहारेण वा शत्रुं उद्योज्य घातयेत्
कृत्यपक्ष उपग्रहेण वा परस्यामित्रं राजानं आत्मन्यपकारयित्वाऽभियुञ्जीत
ततः परस्य प्रेषयेत् असौ ते वैरी ममापकरोति, तं एहि सम्भूय हनिष्यावः, भूमौ हिरण्ये वा ते परिग्रहः इति
प्रतिपन्नं अभिसत्कृत्यागतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत्
अभिविश्वासनार्थं भूमिदानपुत्राभिषेकरक्षाऽपदेशेन वा ग्राहयेत्
अविषह्यं उपांशुदण्डेन वा घातयेत्
स चेद् दण्डं दद्यान्न स्वयं आगच्छेत् तं अस्य वैरिणा घातयेत्
दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाऽप्येनं उभयतःसम्पीडनेन घातयेत्
अविश्वस्तो वा प्रत्येकशो यातुं इच्छेद् राज्य एकदेशं वा यातव्यस्यादातुकामः, तथाऽप्येनं वैरिणा सर्वसन्दोहेन वा घातयेत्
वैरिणा वा सक्तस्य दण्ड उपनयेन मूलं अन्यतो हारयेत्
शत्रुभूम्या वा मित्रं पणेत, मित्रभूम्या वा शत्रुम्
ततः शत्रुभूमिलिप्सायां मित्रेणात्मन्यपकारयित्वाऽभियुञ्जीत - इति समानाः पूर्वेण सर्व एव योगाः
शत्रुं वा मित्रभूमिलिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात्
ततो मित्रगतं अतिसन्दध्यात्
कृतप्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाऽऽत्मानं अभियोजयेत्
ततः सम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत्
मित्रेणाश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत् सामन्तादिभिर्मूलं अस्य हारयेत्
दण्डेन वा त्रातुं इछेत् तं अस्य घातयेत्
तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्यभूम्या पणेत
ततः परस्परं मित्रव्यञ्जना वा उभयवेतना वा दूतान् प्रेषयेयुः अयं ते राजा भूमिं लिप्सते शत्रुसंहितः इति
तयोरन्यतरो जाताशङ्कारोषः, पूर्ववच्चेष्तेत
दुर्गराष्ट्रदण्डमुख्यान् वा कृत्यपक्षहेतुभिरभिविख्याप्य प्रव्राजयेत्
ते युद्धावस्कन्दावरोधव्यसनेषु शत्रुं अतिसन्दध्युः
भेदं वाऽस्य स्ववर्गेभ्यः कुर्युः
अभित्यक्तशासनैः प्रतिसमानयेयुः
लुब्धकव्यञ्जना वा मांसविक्रयेण द्वाह्स्था दौवारिकापाश्रयाश्चोराभ्यागमं परस्य द्विः त्रिरिति निवेद्य लब्धप्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्रामवधेऽवस्कन्दे च द्विषतो ब्रूयुः आसन्नश्चोरगणः, महांश्चाक्रन्दः, प्रभूतं सैन्यं आगच्छतु इति
तद् अर्पयित्वा ग्रामघातदण्डस्य सैन्यं इतरद् आदाय रात्रौ दुर्गद्वारेषु ब्रूयुः हतश्चोरगणः, सिद्धयात्रं इदं सैन्यं आगतं, द्वारं अपाव्रियताम् इति
पूर्वप्रणिहिता वा द्वाराणि दद्युः
तैः सह प्रहरेयुः
कारुशिल्पिपाषण्डकुशीलववैदेहकव्यञ्जनान् आयुधीयान् व्वा परदुर्गे प्रणिदध्यात्
तेषां गृहपतिकव्यञ्जनाः काष्ठतृणधान्यपण्यशकटैः प्रहरणावरणान्यभिहरेयुः, देवध्वजप्रतिमाभिर्वा
ततः तद्व्यञ्जनाः प्रमत्तवधं अवस्कन्दप्रतिग्रहं अभिप्रहरणं पृष्ठतः शङ्खदुन्दुभिशब्देन वा प्रविष्टम् इत्यावेदयेयुः
प्राकारद्वाराट्टालकदानं अनीकभेदं घातं वा कुर्युः
सार्थगणवासिभिरातिवाहिकैः कन्यावाहिकैरश्वपण्यव्यवहारिभिरुपकरणहारकैर्धान्यक्रेतृविक्रेतृभिर्वा प्रव्रजितलिङ्गिभिर्दूतैश्च दणड्ऽतिनयनं, सन्धिकर्मविश्वासनार्थम्
इति राजापसर्पाः
एत एवाटवीनां अपसर्पाः कण्टकशोधन उक्ताश्च
व्रजं अटव्य्।आसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः
कृतसङ्केतं अन्नपानं चात्र मदनरसविद्धं वा कृत्वाऽपगच्छेयुः
गोपालकवैदेहकाश्च ततश्चोरान् गृहीतलोप्त्रभारान् मदनरसविकारकालेऽवस्कन्दयेयुः
सङ्कर्षणदैवतीयो वा मुण्डजटिलव्यञ्जनः प्रहवणकर्मणा मदनरसयोगेनातिसन्दध्यात्
अथावस्कन्दं दद्यात्
शौण्डिकव्यञ्जनो वा दैवतप्रेतकार्य उत्सवसमाजेष्वाटविकान् सुराविक्रय उपायननिमित्तं मदनरसयोगेनातिसन्दध्यात्
अथावस्कन्दं दद्यात्
ग्रामघातप्रविष्टां वा विक्षिप्य बहुधाऽटवीम् ।
घातयेद् इति चोराणां अपसर्पाः प्रकीर्तिताः