श्लोक १३-०४

Kautilya Arthashastra by Acharya Chankya
कर्शनपूर्वं पर्युपासनकर्म
जनपदं यथानिविष्टं अभये स्थापयेत्
उत्थितं अनुग्रहपरिहाराभ्यां निवेषयेत्, अन्यत्रापसरतः
सङ्ग्रामाद् अन्यस्यां भूमौ निवेशयेत्, एकस्यां वा वासयेत्
न ह्यजनो जनपदो राज्यं अजनपदं वा भवति इति कौटिल्यः
विषमस्थस्य मुष्टिं सस्यं वा हन्याद्, वीवधप्रसारौ च
प्रसारवीवधच्छेदान् मुष्टिसस्यवधाद् अपि ।
वमनाद् गूढघाताच्च जायते प्रकृतिक्षयः
प्रभूतगुणबद्ध(वद्ध) अन्यकुप्ययन्त्रशस्त्रावरणविष्टिरश्मिसमग्रं मे सैन्यं, ऋतुश्च पुरस्तात्, अपर्तुः परस्य, व्याधिदुर्भिक्षनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्च इति पर्युपासीत
कृत्वा स्कन्धावारस्य रक्षां वीवधासारयोः पथश्च, परिक्षिप्य दुर्गं खातसालाभ्यां, दूषयित्वा उदकं, अवस्राव्य परिखाः सम्पूरयित्वा वा, सुरुङ्गाबलकुटिकाभ्यां वप्रप्राकारौ हारयेत्, दारं च गुडेन
निम्नं वा पांसुमालयाऽऽच्छादयेत्
बहुलारक्षं यन्त्रैर्घातयेत्
निष्किराद् उपनिष्कृष्याश्वैश्च प्रहरेयुः
विक्रमान्तरेषु च नियोगविकल्पसमुच्चयैश्च उपायानां सिद्धिं लिप्सेत
दुर्गवासिनः श्येनकाकनप्तृभासशुकसारिक उलूककपोतान् ग्राहयित्वा पुच्छेष्वग्नियोगयुक्तान् परदुर्गे विसृजेत्
अपकृष्टस्कन्धावाराद् उच्छ्रितध्वजधन्वारक्षो वा मानुषेणाग्निना परदुर्गं आदीपयेत्
गूढपुर्षाश्चान्तर्दुर्गपालका नकुलवानरबिडालशुनां पुच्छेष्वग्नियोगं आधाय काण्डनिचयरक्षाविधानवेश्मसु विसृजेयुः
शुष्कमत्स्यानां उदरेष्वग्निं आधाय वल्लूरे वा वायस उपहारेण वयोभिर्हारयेयुः
सरलदेवदारुपूतितृणगुग्गुलुश्रीवेष्टकसर्जरसलाक्षागुलिकाः खर उष्ट्राजावीनां लेण्डं चाग्निधारणम्
प्रियालचूर्णं अवल्गुजमषीमधु।उच्छिष्टं अश्वखर उष्ट्रगोलेण्डं इत्येष क्षेप्योऽग्नियोगः
सर्वलोहचूर्णं अग्निवर्णं वा कुम्भीसीसत्रपुचूर्णं वा पारिभद्रकपलाशपुष्पकेशमषीतैलमधु।उच्छिष्टकश्रीवेष्टकयुक्तोऽग्नियोगो विश्वासघाती वा
तेनावलिप्तः शणत्रपुसवल्कवेष्टितो बाण इत्यग्नियोगः
न त्वेव विद्यमाने पराक्रमेऽग्निं अवसृजेत्
अविश्वास्यो ह्यग्निर्दैवपीडनं च, अप्रतिसङ्ख्यातप्राणिधान्यपशुहिरण्यकुप्यद्रव्यक्षयकरः
क्षीणनिचयं चावाप्तं अपि राज्यं क्षयाय एव भवति इति पर्युपासनकर्म
सर्वारम्भ उपकरणविष्टिसम्पन्नोऽस्मि, व्याधितः पर उपधाविरुद्धप्रकृतिरकृतदुर्गकर्मनिचयो वा, निरासारः सासारो वा पुरा मित्रैः सन्धत्ते इत्यवमर्दकालः
स्वयं अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षाऽनीकदर्शनसङ्गसौरिककलहेषु नित्ययुद्धश्रान्तबले बहुलयुद्धप्रतिविद्धप्रेतपुरुषे जागरणक्लान्तसुप्तजने दुर्दिने नदीवेगे वा नीहारसम्प्लवे वाऽवमृद्नीयात्
स्कन्धावारं उत्सृज्य वा वनगूढः शत्रुं निष्क्रान्तं घातयेत्
मित्रासारमुख्यव्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतं अभित्यक्तं प्रेषयेत् - इदं ते छिद्रं, इमे दूष्याः सम्रोद्धुर्वा छिद्रं, अयं ते कृत्यपक्षः इति
तं प्रतिदूतं आदाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषं अभिविख्याप्य प्रवास्य अपगच्छेत्
ततो मित्रासारव्यञ्जनो वा सम्रुद्धं ब्रूयात् मां त्रातुं उपनिर्गच्छ, मया वा सह सम्रोद्धारं जहि इति
प्रतिपन्नं उभयतःसम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत्
नगरं वाऽस्य प्रमृद्नीयात्
सारबलं वाऽस्य वमयित्वाऽभिहन्यात्
तेन दण्ड उपनताटविका व्याख्याताः
दण्ड उपनताटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत् - अयं सम्रोद्धा व्याधितः, पार्ष्णिग्राहेणाभियुक्तः, छिद्रं अन्यद् उत्थितं, अन्यस्यां भूमावपयातुकामः इति
प्रतिपन्ने सम्रोद्धा स्कन्धावारं आदीप्यापयायात्
ततः पूर्ववद् आचरेत्
पण्यसम्पातं वा कृत्वा पण्येन एनं रसविद्धेनातिसन्दध्यात्
आसारव्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् - मया बाह्यं अभिहतं उपनिर्गच्छाभिहन्तुम् इति
प्रतिपन्नं पूर्ववद् आचरेत्
मित्रं बन्धुं वाऽपदिश्य योगपुरुषाः शासनमुद्राहस्ताः प्रविश्य दुर्गं ग्राहयेयुः
आसारव्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् - अमुष्मिन् देशे काले च स्कन्धावारं अभिहनिष्यामि, युष्माभिरपि योद्धव्यम् इति
प्रतिपन्नं यथा उक्तं अभ्याघातसङ्कुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत्
यद् वा मित्रं आवाहयेद् आटव्विकं वा, तं उत्साहयेत् विक्रम्य सम्रुद्धे भूमिं अस्य प्रतिपद्यस्व इति
विक्रान्तं प्रकृतिभिर्दूष्यमुख्य उपग्रहेण वा घातयेत्, स्वयं वा रसेन मित्रघातकोऽयम् इत्यवाप्तार्थः
विक्रमितुकामं वा मित्रव्यञ्जनः परस्याभिशंसेत्
आप्तभाव उपगतः प्रवीरपुरुषानस्य उपघातयेत्
सन्धिं वा कृत्वा जनपदं एनं निवेशयेत्
निविष्टं अस्य जनपदं अविज्ञातो हन्यात्
अपकारयित्वा दूष्याटविकेषु वा बल एकदेशं अतिनीय दुर्गं अवस्कन्देन हारयेत्
दूष्यामित्राटविकद्वेष्यप्रत्यपसृताश्च कृतार्थमानसंज्ञाचिह्नाः परदुर्गं अवस्कन्देयुः
परदुर्गं अवस्कन्द्य स्कन्धावारं वा पतितपरान्मुखाभिपन्नं उक्तकेशशस्त्रभयविरूपेभ्यश्चाभयं अयुध्यमानेभ्यश्च दद्युः
परदुर्गं अवाप्य विशुद्धशत्रुपक्षं कृत उपांशुदण्डप्रतीकारं अन्तर्बहिश्च प्रविशेत्
एवं विजिगीषुरमित्रभूमिं लब्ध्वा मध्यमं लिप्सेत, तत्सिद्धावुदासीनम्
एष प्रथमो मार्गः पृथिवीं जेतुम्
मध्यम उदासीनयोरभावे गुणातिशयेनारिप्रकृतीः साधयेत्, तत उत्तराः प्रकृतीः
एष द्वितीयो मार्गः
मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुं उभयतःसम्पीडनेन साधयेत्
एषतृतीयो मार्गः
शक्यं एकं वा सामन्तं साधयेत्, तेन द्विगुणो द्वितीयं, त्रिगुणः तृतीयम्
एष चतुर्थो मार्गः पृथिवीं जेतुम्
जित्वा च पृथिवीं विभक्तवर्णाश्रमां स्वधर्मेण भुञ्जीत
उपजापोऽपसर्पश्च वामनं पर्युपासनम् ।
अवमर्दश्च पञ्च एते दुर्गलम्भस्य हेतवः