श्लोक ०९-०२

Kautilya Arthashastra by Acharya Chankya
मौलभृतकश्रेणीमित्रामित्राटवीबलानां समुद्दानकालाः
मूलरक्षणाद् अतिरिक्तं मौलबलं, अत्यावापयुक्ता वा मौला मूले विकुर्वीरन्, बहुलानुरक्तमौलबलः सारबलो वा प्रतियोद्धा, व्यायामेन योद्धव्यं, प्रकृष्टेऽध्वनि काले वा क्षयव्ययसहत्वान् मौलानां, बहुलानुरक्तसम्पाते च यातव्यस्य उपजापभयाद् अन्यसैन्यानां भृतादीनां अविश्वासे, बलक्षये वा सर्वसैन्यानां - इति मौलबलकालः
प्रभूतं मे भृतबलं अल्पं च मौलबलम्ण् परस्याल्पं विरक्तं वा मौलबलं, फल्गुप्रायं असारं वा भृतसैन्यम्ण् मन्त्रेण योद्धव्यं अल्पव्यायामेनण् ह्रस्वो देशः कालो वा तनुक्षयव्ययह्ण् अल्पावापं शान्त उपजापं विश्वस्तं वा मे सैन्यम्ण् परस्याल्पः प्रसारो हन्तव्यह्ण् - इति भृतबलकालः
प्रभूतं मे श्रेणीबलं, शक्यं मूले यात्रायां चाधातुम्ण् ह्रस्वः प्रवासः, श्रेणीबलप्रायः प्रतियोद्धा मन्त्रव्यायामाभ्यां प्रतियोद्धुकामः, दण्डबलव्यवहारः - इति श्रेणीबलकालः
प्रभूतं मे मित्रबलं शक्यं मूले यात्रायां चाधातुम्ण् अल्पः प्रवासो मन्त्रयुद्धाच्च भूयो व्यायामयुद्धम्ण् मित्रबलेन वा पूर्वं अटवीं नगरस्थानं आसारं वा योधयित्वा पश्चात् स्वबलेन योद्धयिष्यामिण् मित्रसाधारणं वा मे कार्यम्ण् मित्रायत्ता वा मे कार्यसिद्धिह्ण् आसन्नं अनुग्राह्यं वा मे मित्रम्ण् अत्यावापं वाऽस्य सादयिष्यामि - इति मित्रबलकालः
प्रभूतं मे शत्रुबलं, शत्रुबलेन योधयिष्यामि नगरस्थानं अटवीं वा, तत्र मे श्ववराहयोः कलहे चण्डालस्य इवान्यतरसिद्धिर्भविष्यतिण् आसाराणां अटवीनां वा कण्टकमर्दनं एतत् करिष्यामिण् - अत्युपचितं वा कोपभयान्नित्यं आसन्नं अरिबलं वासयेद्, अन्यत्राभ्यन्तरकोपशङ्कायाः - शत्रुयुद्धावरयुद्धकालश्च - इत्यमित्रबलकालः
तेनाटवीबलकालो व्याख्यातः
मार्गादेशिकं, परभूमियोग्यं, अरियुद्धप्रतिलोमं, अटवीबलप्रायः शत्रुर्वा, बिल्वं बिल्वेन हन्यताम्ण् अल्पः प्रसारो हन्तव्यः - इत्यटवीबलकालः
सैन्यं अनेकं अनेकस्थं उक्तं अनुक्तं वा विलोपार्थं यद् उत्तिष्ठति तद् औत्साहिकं - अभक्तवेतनं विलोपविष्टिप्रतापकरं भेद्यं परेषां, अभेद्यं तुल्यदेशजातिशिल्पप्रायं संहतं महत् इति बल उपादानकालाह्
तेषां कुप्यभृतं अमित्राटवीबलं विलोपभृतं वा कुर्यात्
अमित्रस्य वा बलकाले प्रत्युत्पन्ने शत्रुबलं अवगृह्णीयात्, अन्यत्र वा प्रेषयेत्, अफलं वा कुर्यात्, विक्षिप्तं वा वासयेत्, काले वाऽतिक्रान्ते विसृजेत्
परस्य च एतद् बलसमुद्दानं विघातयेत्, आत्मनः सम्पादयेत्
पूर्वं पूर्वं च एषां श्रेयः सम्नाहयितुम्
तद्भावभावित्वान्नित्यसत्कारानुगमाच्च मौलबलं भृतबलात्श्रेयः
नित्यानन्तरं क्षिप्र उत्थायि वश्यं व भृतबलं श्रेणीबलात्श्रेयः
जानपदं एकार्थ उपगतं तुल्यसङ्घर्षामर्षसिद्धिलाभं च श्रेणीबलं मित्रबलात्श्रेयः
अपरिमितदेशकालं एकार्थ उपगमाच्च मित्रबलं अमित्रबलात्श्रेयः
आर्याधिष्ठितं अमित्रबलं अटवीबलात्श्रेयः
तद् उभयं विलोपार्थम्
अविलोपे व्यसने च ताभ्यां अहिभयं स्यात्
ब्राह्मणक्षत्रियवैश्यशूद्रसैन्यानां तेजःप्राधान्यात् पूर्वं पूर्वं श्रेयः सम्नाहयितुम् इत्याचार्याः
न इति कौटिल्यः
प्रणिपातेन ब्राह्मणबलं परोऽभिहारयेत्
प्रहरणविद्याविनीतं तु क्षत्रियबलं श्रेयः, बहुलसारं वा वैश्यशूद्रबलं इति
तस्माद् एवम्बलः परः, तस्य एतत् प्रतिबलं इति बलसमुद्दानं कुर्यात्
हस्तियन्त्रशकटगर्भकुन्तप्रासहाटकवेणुशल्यवद् हस्तिबलस्य प्रतिबलम्
तद् एव पाषाणलगुडावरणाङ्कुशकचग्रहणीप्रायं रथबलस्य प्रतिबलम्
तद् एवाश्वानां प्रतिबलं, वर्मिणो वा हस्तिनोऽश्वा वा वर्मिणः
कवचिनो रथा आवरणिनः पत्तयश्च चतुर्ऽङ्गबलस्य प्रतिबलम्
एवं बलसमुद्दानं परसैन्यनिवारणम् ।
विभवेन स्वसैन्यानां कुर्याद् अङ्गविकल्पशः