अल्पः पश्चात्कोपो महान् पुरस्ताल्लाभ इति अल्पः पश्चात्कोपो गरीयान्
अल्पं पश्चात्कोपं प्रयातस्स्य दूष्यामित्राटविका हि सर्वतः समेधयन्ति, प्रकृतिकोपो वा
लब्धं अपि च महान्तं पुरस्ताल्लाहं एवम्भूते भृत्यमित्रक्षयव्यया ग्रसन्ते
तस्मात् सहस्र एकीयः पुरस्ताल्लाभस्यायोगः शत एकीयो वा पश्चात्कोप इति न यायात्
सूचीमुखा ह्यनर्था इति लोकप्रवादः
पश्चात्कोपे सामदानभेददण्डान् प्रयुञ्जीत
पुरस्ताल्लाभे सेनापतिं कुमारं वा दण्डचारिणं कुर्वीत
बलवान् वा राजा पश्चात्कोपावग्रहसमर्थः पुरस्ताल्लाभं आदातुं यायात्
अभ्यन्तरकोपशङ्कायां शङ्कितान् आदाय यायात्, बाह्यकोपशङ्कायां वा पुत्रदारं एषाम्
अभ्यन्तरावग्रहं कृत्वा शून्यपालं अनेकबलवर्गं अनेकमुख्यं च स्थापयित्वा यायात्, न वा यायात्
अभ्यन्तरकोपो बाह्यकोपात् पापीयान् इत्युक्तं पुरस्तात्
मन्त्रपुरोहितसेनापतियुवराजानां अन्यतमकोपोऽभ्यन्तरकोपः
तं आत्मदोषत्यागेन परशक्त्य्ऽपराधवशेन वा साधयेत्
महाऽपराधेऽपि पुरोहिते सम्रोधनं अवस्रावणं वा सिद्धिः, युवराजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन् सति पुत्रे
पुत्रं भ्रातरं अन्यं वा कुल्यं राजग्राहिणं उत्साहेन साधयेत्, उत्साहाब्भावे गृहीतानुवर्तनसन्धिकर्मभ्यां अरिसन्धानभयात्
अन्येभ्यः तद्विधेभ्यो वा भूमिदानैर्विश्वासयेद् एनम्
तद्विशिष्टं स्वयङ्ग्राहं दण्डं वा प्रेषयेत्, सामन्ताटविकान् वा, तैर्विगृहीतं अतिसन्दध्यात्
अपरुद्धादानं पारग्रामिकं वा योगं आतिष्ठेत्
एतेन मन्त्रसेनापती व्याख्यातौ
मन्त्र्य्।आदिवर्जानां अन्तर्ऽमात्यानां अन्यतमकोपोऽन्तर्ऽमात्यकोपः
तत्रापि यथाऽर्हं उपायान् प्रयुञ्जीत
राष्ट्रमुख्यान्तपालाटविकदण्ड उपनतानां अन्यतमकोपो बाह्यकोपः
तं अन्योन्येनावग्राहयेत्
अतिदुर्गप्रतिष्टब्धं वा सामन्ताटविकतत्कुलीनापरुद्धानां अन्यतमेनावग्राहयेत्
मित्रेण उपग्राहयेद् वा यथा नामित्रं गच्छेत्
अमित्राद् वा सत्त्री भेदयेद् एनं - अयं त्वा योगपुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति, अवाप्तार्थो दण्डचारिणं अमित्राटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति, विपुत्रदारं अन्ते वा वासयिष्यति
प्रतिहतविक्रमं त्वां भर्तर्य्पण्यं करिष्यति, त्वया वा सन्धिं कृत्वा भर्तारं एव प्रसादयिष्यति
मित्रं उपकृष्टं वाऽस्य गच्छ इति
प्रतिपन्नं इष्टाभिप्रायैः पूजयेत्
अप्रतिपन्नस्य संश्रयं भेदयेद् असौ ते योगपुरुषः प्रणिहितः इति
सत्त्री च एनं अभित्यक्तशासनैर्घातयेत्, गूढपुरुषैर्वा
सहप्रस्थायिनो वाऽस्य प्रवीरपुरुषान् यथाऽभिप्रायकरणेनावाहयेत्
तेन प्रणिहितान् सत्त्री ब्रूयात्
इति सिद्धिः
परस्य च एनान् कोपान् उत्थापयेत्, आत्मनश्च शमयेत्
यः कोपं कर्तुं शमयितुं वा शक्तः तत्र उपजापः कार्यः
यः सत्यसन्धः शक्तः कर्मणि फलावाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः, तर्कयितव्यश्च कल्याणबुद्धिरुताहो शठ इति
शठो हि बाह्योऽभ्यन्तरं एवं उपजपति - भर्तारं चेद्द् हत्वा मां प्रतिपादयिष्यति शत्रुवधो भूमिलाभश्च मे द्विविधो लाभो भविष्यति, अथ वा शत्रुरेनं आहनिष्यति इति हतबन्धुपक्षः तुल्यदोषदण्डेन उद्विग्नश्च मे भूयान् अकृत्यपक्षो भविष्यति, तद्विधे वाऽन्यस्मिन्न् अपि शङ्कितो भविष्यति, अन्यं अन्यं चास्य मुख्यं अभित्यक्तशासनेन घातयिष्यामि इति
अभ्यन्तरो वा शठो बाह्यं एवं उपजपति - कोशं अस्य हरिष्यामि, दण्डं वाऽस्य हनिष्यामि, दुष्टं वा भर्तारं अनेन घातयिष्यामि, प्रतिपन्नं बाह्यं अमित्राटविकेषु विक्रमयिष्यामि चक्रं अस्य सज्यतां, वैरं अस्य प्रसज्यतां, ततः स्वाधीनो मे भविष्यति, ततो भर्तारं एव प्रसादयिष्यामि, स्वयं वा राज्यं ग्रहीष्यामिण् बद्ध्वा वा बाह्यभूमिं भर्तृभूमिं च उभयं अवाप्स्यामि, विरुद्धं वाऽऽवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि, शून्यं वाऽस्य मूलं हरिष्यामि इति
कल्याणबुद्धिः तु सहजीव्यर्थं उपजपति
कल्याणबुद्धिना सन्दधीत, शठं तथा इति प्रतिगृह्यातिसन्दध्यात् - इति
एवं उपलभ्य - परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे ।
रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यं आत्मा विपश्चिता