श्लोक ०९-०१

Kautilya Arthashastra by Acharya Chankya
विजिगीषुरात्मनः परस्य च बलाबलं शक्तिदेशकालयात्राकालबलसमुद्दानकालपश्चात्कोपक्षयव्ययलाभापदां ज्ञात्वा विशिष्टबलो यायात्, अन्यथाऽऽसीत
उत्साहप्रभावयोरुत्साहः श्रेयान्
स्वयं हि राजा शूरो बलवान् अरोगः कृतास्त्रो दण्डद्वितीयोऽपि शक्तः प्रभाववन्तं राजानं जेतुम्
अल्पोऽपि चास्य दण्डः तेजसा कृत्यकरो भवति
निरुत्साहः तु प्रभाववान् राजा विक्रमाभिपन्नो नश्यति इत्याचार्याः
न इति कौटिल्यः
प्रभाववान् उत्साहवन्तं राजानं प्रभावेनातिसन्धत्ते तद्विशिष्टं अन्यं राजानं आवाह्य भृत्वा क्रीत्वा प्रवीरपुरुषान्
प्रभूतप्रभावहयहस्तिरथ उपकरणसम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति
उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोऽन्धाश्च पृथिवीं जिग्युरिति
प्रभावमन्त्रयोः प्रभावः श्रेयान्
मन्त्रशक्तिसम्पन्नो हि वन्ध्यबुद्धिरप्रभावो भवति
मन्त्रकर्म चास्य निश्चितं अप्रभावो गर्भधान्यं अवृष्टिरिव उपहन्ति इत्याचार्याः
न इति कौटिल्यः
मन्त्रशक्तिः श्रेयसी
प्रज्ञाशास्त्रचक्षुर्हि राजाऽल्पेनापि प्रयत्नेन मन्त्रं आधातुं शक्तः परान् उत्साहप्रभाववतश्च सामादिभिर्योग उपनिषद्भ्यां चातिसन्धातुम्
एवं उत्साहप्रभावमन्त्रशक्तीनां उत्तर उत्तराधिकोऽतिसन्धत्ते
देशः पृथिवी
तस्यां हिमवत्समुद्रान्तरं उदीचीनं योजनसहस्रपरिमाणं तिर्यक् चक्रवर्तिक्षेत्रम्
तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः
तेषु यथास्वबलवृद्धिकरं कर्म प्रयुञ्जीत
यत्रात्मनः सैन्यव्यायामानां भूमिः, अभूमिः परस्य, स उत्तमो देशः, विपरीतोऽधमः, साधारणो मध्यमः
कालः शीत उष्णवर्षात्मा
तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगं इति विशेषाः
तेषु यथास्वबलवृद्धिकरं कर्मप्रयुञ्जीत
यत्रात्मनः सैन्यव्यायामानां ऋतुः अनृतुः परस्य, स उत्तमः कालः, विपरीतोऽधमः, साधारणो मध्यमः
शक्तिदेशकालानां तु शक्तिः श्रेयसी इत्याचार्याः
शक्तिमान् हि निम्नस्थलवतो देशस्य शीत उष्णवर्षवतश्च कालस्य शक्तः प्रतीकारे भवति
देशः श्रेयान् इत्येके
स्थलगतो हि श्वा नक्रं विकर्षति, निम्नगतो नक्रः श्वानम् इति
कालः श्रेयान् इत्येके
दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम् इति
न इति कौटिल्यः
परस्परसाधका हि शक्तिदेशकालाः
तैरभ्युच्चितः तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्ताटवीषु च रक्षा विधाय कार्यसाधनसहं कोशदण्डं चादाय क्षीणपुराणभक्तं अगृहीतनवभक्तं असंस्कृतदुर्गममित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिं उपहन्तुं मार्गशीर्षीं यात्रां यायात्
हैमानं चास्य सस्यं वासन्तिकं च मुष्टिं उपहन्तुं चैत्रीं यात्रां यायात्
क्षीणकृणकाष्ठ उदकं असंस्कृतदुर्गममित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिं उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात्
अत्युष्णं अल्पयवस इन्धन उदकं वा देशं हेमन्ते यायात्
तुषारदुर्दिनं अगाधनिम्नप्रायं गहनतृणवृक्षं वा देशं ग्रीष्मे यायात्
स्वसैन्यव्यायामयोग्यं परस्यायोग्यं वर्षति यायात्
मार्गशीर्षीं तैषीं चान्तरेण दीर्घकालां यात्रां यायात्, चैत्रीं वैशाखीं चान्तरेण मध्यमकालां, ज्येष्ठामूलीयां आषाढीं चान्तरेण ह्रस्वकालां, उपोषिष्यन् व्यसने चतुर्थीम्
व्यसनाभियानं विगृह्ययाने व्याख्यातम्
प्रायशश्चाचार्याः परव्यसने यातव्यम् इत्युपदिशन्ति
शक्त्य्।उदये यातव्यं अनैकान्न्तिकत्वाद् व्यसनानां इति कौटिल्यः
यदा वा प्रयातः कर्शयितुं उच्छेतुं वा शक्नुयाद् अमित्रं तदा यायात्
अत्युष्ण उपक्षीणे काले हस्तिबलप्रायो यायात्
हस्तिनो ह्यन्तःस्वेदाः कुष्ठिनो भवन्ति
अनवगाहमानाः तोयं अपिबन्तश्चान्तर्ऽवक्षाराच्चान्धीभवन्ति
तस्मात् प्रभूत उदके देशे वर्षति च हस्तिबलप्रायो यायात्
विपर्यये खर उष्ट्राश्वबलप्रायो देशं अल्पवर्षपङ्कम्
वर्षति मरुप्रायं चतुर्ऽङ्गबलो यायात्
समविषमनिम्नस्थलह्रस्वदीर्घवशेन वाऽध्वनो यात्रां विभजेत्
सर्वा वा ह्रस्वकालाः स्युर्यातव्याः कार्यलाघवात् ।
दीर्घाः कार्यगुरुत्वाद् वा वर्षावासः परत्र च