दैवपीडनं - अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति
अग्न्य्।उदकयोरग्निपीडनं अप्रतिकार्यं सर्वदाहि च, शक्यापगमनं तार्याबाधं उदकपीडनम् इत्याचार्याः
न इत् कौटिल्यः
अग्निर्ग्रामं अर्धग्रामं वा दहति, उदकवेगः तु ग्रामशतप्रवाही इति
व्याधिदुर्भिक्षयोर्व्याधिः प्रेतव्याधित उपसृष्टपरिचारकव्यायाम उपरोधेन कर्माण्युपहन्ति, दुर्भिक्षं पुनरकर्म उपघाति हिरण्यपशुकरदायि च इत्याचार्याः
न इति कौटिल्यः
एकदेशपीडनो व्याधिः शक्यप्रतीकारश्च, सर्वदेशपीडनं दुर्भिक्षं प्राणिनां अजीवनाय इति
तेन मरको व्याख्यातः
क्षुद्रकमुख्यक्षययोः क्षुद्रकक्षयः कर्मणां अयोगक्षेमं करोति, मुख्यक्षयः कर्मानुष्ठान उपरोधधर्मा इत्याचार्याः
न इति कौटिल्यः
शक्यः क्षुद्रकक्षयः प्रतिसन्धातुं बाहुल्यात् क्षुद्रकाणां, न मुख्यक्षयः
सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्वप्रज्ञाऽऽधिक्यात् तद्।आश्रयत्वात् क्षुद्रकाणां इति
स्वचक्रपरचक्रयोः स्वचक्रं अतिमात्राभ्यां दण्डकराभ्यां पीडयत्यशक्यं च वारयितुं, परचक्रं तु शक्यं प्रैयोद्धुं उपसारेण सन्धिना वा मोक्षयितुम् इत्याचार्याः
न इति कौटिल्यः
स्वचक्रपीडनं प्रकृतिपुरुषमुख्य उपग्रहविघाताभ्यां शक्यते वारयितुं एकदेशं वा पीडयति, सर्वदेशपीडनं तु परचक्रं विलोपघातदाहविध्वंसनापवाहनैः पीडयति इति
प्रकृतिराजविवादयोः प्रकॄतिविवादः प्रकृतीनां भेदकः पराभियोगान् आवहति, राजविवादः तु प्रकृतीनां द्विगुणभक्तवेतनपरिहारकरो भवति इत्याचार्याः
न इति कौटिल्यः
शक्यः प्रकृतिविवादः प्रकृतिमुख्य उपग्रहेण कलहस्थानापनयनेन वा वारयितुम्
विवदमानाः तु प्रकृतयः परस्परसङ्घर्षेण उपकुर्वन्ति
राजविवादः तु पीडन उच्छेदनाय प्रकृतीनां द्विगुणव्यायामसाध्य इति
देशराजविहारयोर्देशविहारः त्रैकाल्येन कर्मफल उपघातं करोति, राजविहारः तु कारुशिल्पिकुशीलववाग्जीवनरूपाजीवावैदेहक उपकारं करोति इत्याचार्याः
न इति कौटिल्यः
देशविहारः कर्मश्रमं अवधाऽर्थं अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति, राजविहारः तु स्वयं वल्लभैश्च स्वयङ्ग्राहप्रणयपण्यागारकार्य उपग्रहैः पीडयति इति
सुभगाकुमारयोः कुमारः स्वयं वल्लभैश्च स्वयङ्ग्राहप्रणयपण्यागारकार्य उपग्रहैः पीडयति, सुभगा विलास उपभोगेन इत्याचार्याः
न इति कौटिल्यः
शक्यः कुमारो मन्त्रिपुरोहिताभ्यां वारयितुं, न सुभगा बालिश्याद् अनर्थ्यजनसम्योगाच्च इति
श्रेणीमुख्ययोः श्रेणी बाहुल्याद् अनवग्रहा स्तेयसाहसाभ्यां पीडयति, मुख्यः कार्यानुग्रहविघाताभ्याम् इत्याचार्याः
न इति कौटिल्यः
सुव्यावर्त्या श्रेणी समानशीलव्यसनत्वात्, श्रेणीमुख्य एकदेश उपग्रहेण वा
स्तम्भयुक्तो मुख्यः परप्राणद्रव्य उपघाताभ्यां पीडयति इति
सम्निधातृसमाहर्त्रोः सम्निधाता कृतविदूषणात्ययाभ्यां पीडयति, समाहर्ता करणाधिष्ठितः प्रदिष्टफल उपभोगी भवति इत्याचार्याः
न इति कौटिल्यः
सम्निधाता कृतावस्थं अन्यैः कोशप्रवेश्यं प्रतिगृह्णाति, समाहर्ता तु पूर्वं अर्थं आत्मनः कृत्वा पश्चाद् राजार्थं करोति प्रणाशयति वा, परस्वादाने च स्वप्रत्ययश्चरति इति
अन्तपालवैदेहकयोरन्तपालश्चोरप्रसर्गदेयात्यादानाभ्यां वणिक्पथं पीडयति, वैदेहकाः तु पण्य।प्रतिपण्यानुग्रहैः प्रसाधयन्ति इत्याचार्याः
न इति कौटिल्यः
अन्तपालः पण्यसम्पातानुग्रहेण वर्तयति, वैदेहकाः तु सम्भूय पण्यानां उत्कर्षापकर्षं कुर्वाणाः पणे पणशतं कुम्भे कुम्भशतं इत्याजीवन्ति
अभिजात उपरुद्धा भूमिः पशुव्रज उपरुद्धा वा इति अभिजात उपरुद्धा भूमिः महाफलाऽप्यायुधीय उपकारिणी न क्षमा मोक्षयितुं व्यसनाबाधभयात्, पशुव्रज उपरुद्धा तु कृषियोग्या क्षमा मोक्षयितुम्
विवीतं हि क्षेत्रेण बाध्यते इत्याचार्याः
न इति कौटिल्यः
अभिजात उपरुद्धा भूमिरत्यन्तमहा उपकाराऽपि क्षमा मोक्षयितुं व्यसनाबाधभयात्, पशुव्रज उपरुद्धा तु कोशवाहन उपकारिणी न क्षमा मोक्षयितुं, अन्यत्र सस्यवाप उपरोधाद् इति
प्रतिरोधकाटविकयोः प्रतिरोधका रात्रिसत्त्रचराः शरीराक्रमिणो नित्याः शतसहस्राहपारिणः प्रधानकोपकाश्च व्यवहिताः प्रत्यन्तरारण्यचराश्चाटविकाः प्रकाशा दृस्याश्चरन्ति, एकदेशघातकाश्च इत्याचार्याः
न इति कौटिल्यः
प्रतिरोधकाः प्रमत्तस्यापरहन्ति, अल्पाः कुण्ठाः सुखा ज्ञातुं ग्रहीतुं च, स्वदेशस्थाः प्रभूता विक्रान्ताश्चाटविकाः प्रकाशयोदिनोऽपहर्तारो हन्तारश्च देशानां राजसधर्माण इति
मृगहस्तिवनयोः मृगाः प्रभूताः प्रभूतमांसचर्म उपकारिणो मन्दग्रासावक्लेशिनः सुनियम्याश्च
विपरीता हस्तिनो गृह्यमाणा दुष्टाश्च देशविनाशाय इति
स्वपरस्थानीय उपकारयोः स्वस्थानीय उपकारो धान्यपशुहिरण्यकुप्य उपकारो जानपदानां आपद्यात्मधारणः
विपरीतः परस्थानीय उपकारः
इति पीडनानि - आभ्यन्तरो मुख्यस्तम्भो बाह्योऽमित्राटवीस्तम्भः इति स्तम्भवर्गह्
ताभ्यां पीडनैर्यथा उक्तैश्च पीडितः, सक्तो मुख्येषु, परिहार उपहतः, प्रकीर्णो, मिथ्यासंहृतः, सामन्ताटवीहृत इति कोशसङ्गवर्गः
पीडनानां अनुत्पत्तावुत्पन्नानां च वारणे ।
यतेत देशवृद्ध्य्ऽर्थं नाशे च स्तम्भसङ्गयोः