अविद्याविनयः पुरुषव्यसनहेतुः
अविनीतो हि व्यसनदोषान्न पश्यति
तान् उपदेक्ष्यामः
कोपजः त्रिवर्गः, कामजश्चतुर्वर्गः
तयोः कोपो गरीयान्
सर्वत्र हि कोपश्चरति
प्रायशश्च कोपवशा राजानः प्रकृतिकोपैर्हताः श्रूयन्ते, कामवशाः क्षयनिमित्तं अरिव्याधिभिरिति
न इति भारद्वाजः
सत्पुरुषाचारः कोपो वैरयातनं अवज्ञावधो भीतमनुष्यता च
नित्यश्च कोपेन सम्बन्धः पापप्रतिषेधार्थः
कामः सिद्धिलाभः सान्त्वं त्यागशीलता सम्प्रियभावश्च
नित्यश्च कामेन सम्बन्धः कृतकर्मणः फल उपभोगार्थः इति
न इति कौटिल्यः
द्वेष्यता शत्रुवेदनं दुःखासङ्गश्च कोपः
परिभवो द्रव्यनाशः पाटच्चरद्यूतकारलुब्धकगायनवादकैश्चानर्थ्यैः सम्योगः कामः
तयोः परिभवाद् द्वेष्यता गरीयसी
परिभूतः स्वैः परैश्चावगृह्यते, द्वेष्यः समुच्छिद्यत इति
द्रव्यनाशात्शत्रुवेदनं गरीयः
द्रव्यनाशः कोशाबाधकः, शत्रुवेदनं प्राणाबाधकं इति
अनर्थ्यसम्योगाद् दुःखसम्योगो गरीयान्
अनर्थ्यसम्योगो मुहूर्तप्रतीकारो, दीर्घक्लेशकरो दुःखानां आसङ्ग इति
तस्मात् कोपो गरीयान्
वाक्पारुष्यं अर्थदूषणं दण्डपारुष्यं इति
वाक्पारुष्यार्थदूषणयोर्वाक्पारुष्यं गरीयः इति विशालाक्षः
परुषमुक्तो हि तेजस्वी तेजसा प्रत्यारोहति
दुरुक्तशल्यं हृदि निखातं तेजःसन्दीपनं इन्द्रिय उपतापि च इति
न इति कौटिल्यः
अर्थपूजा वाक्षल्यं अपहन्ति, वृत्तिविलोपः त्वर्थदूषणम्
अदानं आदानं विनाशः परित्यागो वाऽर्थस्य इत्यर्थदूषणम्
अर्थदूषणदण्डपारुष्ययोरर्थदूषणं गरीयः इति पाराशराः
अर्थमूलौ धर्मकामौ
अर्थप्रतिबद्धश्च लोको वर्तते
तस्य उपघातो गरीयान् इति
न इति कौटिल्यः
सुमहताऽप्यर्थेन न कश्चन शरीरविनाशं इच्छेत्
दण्डपारुष्याच्च तं एव दोषं अन्येभ्यः प्राप्नोति
इति कोपजः त्रिवर्गः
कामजः तु मृगया द्यूतं स्त्रियः पानं इति चतुर्वर्गः
तस्य मृगयाद्यूतयोर्मृगया गरीयसी इति पिशुनः
स्तेनामित्रव्यालदावप्रस्खलनभयदिन्मोहाः क्षुत्पिपासे च प्राणाबाधः तस्याम्
द्यूते तु जितं एवाक्षविदुषा यथा जयत्सेनदुर्योधनाभ्याम् इति
न इत्य्कौटिल्यः
तयोरप्यन्यतरपराजयोऽस्ति इति नलयुधिष्ठिराभ्यां व्याख्यातम्
तद् एव विजितद्रव्यं आमिषं वैरानुबन्धश्च
सतोऽर्थस्य विप्रतिपत्तिरसतश्चार्जनं अप्रतिभुक्तनाशो मूत्रपुरीषधारणबुभुक्षाऽऽदिभिश्च व्याधिलाभ इति द्यूतदोषाः
मृगयायां तु व्यायामः श्लेष्मपित्तमेदःस्वेदनाशश्चले स्थिते च काये लक्षपरिचयः कोपभयस्थानेषु च मृगाणां चित्तज्ञानं अनित्ययानं च इति
द्यूतस्त्रीव्यसनयोः कैतवव्यसनम् इति कौणपदन्तः
सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः
कृच्छ्रे च प्रतिपृष्टः कुप्यति
स्त्रीव्यसने तु स्नानप्रतिकर्मभोजनभूमिषु भवत्येव धर्मार्थपरिप्रश्नः
शक्या च स्त्री राजहितेनियोक्तुं, उपांशुदण्डेन व्याधिना वा व्यावर्तयितुं अवस्रावयितुं वा इति
न इति कौटिल्यः
सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्रीव्यसनम्
अदर्शनं कार्यनिर्वेदः कालातिपातनाद् अनर्थो धर्मलोपश्च तन्त्रदौर्बल्यं पानानुबन्धश्च इति
स्त्रीपानव्यसनयोः स्त्रीव्यसनम् इति वातव्याधिः
स्त्रीषु हि बालिश्यं अनेकविधं निशान्तप्रणिधौ व्याख्यातम्
पाने तु शब्दादीनां इन्द्रियार्थानां उपभोगः प्रीतिदानं परिजनपूजनं कर्मश्रमवधश्च इति
न इति कौटिल्यः
स्त्रीव्यसने भवत्यपत्य उत्पत्तिरात्मरक्षणं चान्तर्दारेषु, विपर्ययो वा बाह्येषु, अगम्येषु सर्व उच्छित्तिः
तद् उभयं पानव्यसने
पानसम्पत् - संज्ञानाशोऽनुन्मत्तस्य उन्मत्तत्वं अप्रेतस्य प्रेतत्वं कौपीनदर्शनं श्रुतप्रज्ञाप्राणवित्तमित्रहानिः सद्भिर्वियोगोऽनर्थ्यसम्योगः तन्त्रीगीतनैपुण्येषु चार्थघ्नेषु प्रसङ्ग इति
द्यूतमद्ययोर्द्यूतम्
एकेषां पणनिमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्षद्वैधेन प्रकृतिकोपं करोति
विशेषतश्च सङ्घानां सङ्घधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्याद् इति
असतां प्रग्रहः कामः कोपश्चावग्रहः सताम् ।
व्यसनं दोषबाहुल्याद् अत्यन्तं उभयं मतम्
तस्मात् कोपं च कामं च व्यसनारम्भं आत्मवान् ।
परित्यजेन् मूलहरं वृद्धसेवी जित इन्द्रियः