श्लोक ०८-०२

Kautilya Arthashastra by Acharya Chankya
राजा राज्यं इति प्रकृतिसङ्क्षेपः
राज्ञोऽभ्यन्तरो बाह्यो वा कोप इति
अहिभयाद् अभ्यन्तरः कोपो बाह्यकोपात् पापीयान्, अन्तर्ऽमात्यकोपश्चान्तःकोपात्
तस्मात् कोशदण्डशक्तिं आत्मसंस्थां कुर्वीत
द्वैराज्यवैराज्ययोर्द्वैराज्यं अन्योन्यपक्षद्वेषानुरागाभ्यां परस्परसङ्घर्षेण वा विनश्यति, वैराज्यं तु प्रकृतिचित्तग्रहणापेक्षि यथास्थितं अन्यैर्भुज्यते इत्याचार्याः
न इति कौटिल्यः
पितापुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्ययोगक्षेमं अमात्यावग्रहं वर्तयति
वैराज्यं तु जीवतः परस्याच्छिद्य न एतन् मम इति मन्यमानः कर्शयति, अपवाहयति, पण्यं वा करोति, विरक्तं वा परित्यज्यापगच्छति इति
अन्धश्चलितशास्त्रो वा राजा इति अशास्त्रचक्षुरन्धो यत्किञ्चनकारी दृढाभिनिवेशी परप्रणेयो वा राज्यं अन्यायेन उपहन्ति, चलितशास्त्रः तु यत्र शास्त्राच्चलितमतिर्भवति शक्यानुनयो भवति इत्याचार्याः
न इति कौटिल्यः
अन्धो राजा शक्यते सहायसम्पदा यत्र तत्र वा पर्यवस्थापयितुम्
चलितशास्त्रः तु शास्त्राद् अन्यथाऽभिनिविष्टबुद्धिरन्यायेन राज्यं आत्मानं च उपहन्ति इति
व्याधितो नवो वा राजा इति व्याधितो राजा राज्य उपघातं अमात्यमूलं प्राणाबाधं वा राज्यमूलं अवाप्नोति, नवः तु राजा स्वधर्मानुग्रहपरिहारदानमानकर्मभिः प्रकृतिरञ्जन उपकारैश्चरति इत्याचार्याः
न इति कौटिल्यः
व्याधितो राजा यथाप्रवृत्तं राजप्रणिधिं अनुवर्तयति
नवः तु राजा बलावर्जितं मम इदं राज्यम् इति यथा इष्टं अनवग्रहश्चरति
सामुत्थायिकैरवगृहीतो वा राज्य उपघातं मर्षयति
प्रकृतिष्वरूढः सुखं उच्छेत्तुं भवति इति
व्याधिते विशेषः पापरोग्यपापरोगी च
नवेऽप्यभिजातोऽनभिजात इति
दुर्बलोऽभिजातो बलवान् अनभिजातो राजा इति दुर्बलस्याभिजातस्य उपजापं दौर्बल्यापेक्षाः प्रकृतयः कृच्छ्रेण उपगच्छन्ति, बलवतश्चानभिजातस्य बलापेक्षाः सुखेन इत्याचार्याः
न इति कौटिल्यः
दुर्बलं अभिजातं प्रकृतयः स्वयं उपनमन्ति, जात्यं ऐश्वर्यप्रकृतिरनुवर्तत इति
बलवतश्चानभिजातस्य उपजापं विसंवादयन्ति, अनुरागे सार्वगुण्यं इति
प्रयासवधात् सस्यवधो मुष्टिवधात् पापीयान्, निराजीवत्वाद् अवृष्टिरतिवृष्टितः
द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बलाबलम् ।
पारम्पर्यक्रमेण उक्तं याने स्थाने च कारणम्