व्यसनयौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वा इति व्यसनचिन्ता
दैवं मानुषं वा प्रकृतिव्यसनं अनयापनयाभ्यां सम्भवति
गुणप्रातिलोम्यं अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम्
व्यस्यत्येनं श्रेयस इति व्यसनम्
स्वाम्य्ऽमात्यजनपददुर्गकोशदण्डमित्रव्यसनानां पूर्वं पूर्वं गरीयः इत्याचार्याः
न इति भरद्वाजः
स्वाम्य्ऽमात्यव्यसनयोरमात्यव्यसनं गरीयः
मन्त्रो मन्त्रफलावाप्तिः कर्मानुष्ठानं आयव्ययकर्म दण्डप्रणयनं अमित्राटवीप्रतिषेधो राज्यरक्षणं व्यसनप्रतीकारः कुमाररक्षणं अभिषेकश्च कुमाराणां आयत्तं अमात्येषु
तेषां अभावे तद्ऽभावः, छिन्नपक्षस्य इव राज्ञश्चेष्टानाशश्च
व्यसनेषु चासन्नः पर उपजापः
वैगुण्ये च प्राणाबाधः प्राणान्तिकचरत्वाद् राज्ञः इति
न इति कौटिल्यः
मन्त्रिपुरोहितादिभृत्यवर्गं अध्यक्षप्रचारं पुरुषद्रव्यप्रकृतिव्यसनप्रतीकारं एधनं च राजा एव करोति
व्यसनिषु वाऽमात्येष्वन्यान् अव्यसनिनः करोति
पूज्यपूजने दूष्यावग्रहे च नित्ययुक्तः तिष्ठति
स्वामी च सम्पन्नः स्वसम्पद्भिः प्रकृतीः सम्पादयति
स यत्शीलः तत्शीलाः प्रकृतयो भवन्ति, उत्थाने प्रमादे च तद्।आयत्तत्वात्
तत्कूटस्थानीयो हि स्वामी इति
अमात्यजनपदव्यसनयोर्जनपदव्यसनं गरीयः इति विशालाक्षः
कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जनपदाद् उत्तिष्ठन्ते
तेषां अभावो जनपदाभावे, स्वाम्य्ऽमात्ययोश्चानन्तरः इति
न इति कौटिल्यः
अमात्यमूलाः सर्वारम्भाः - जनपदस्य कर्मसिद्धयः स्वतः परतश्च योगक्षेमसाधनं व्यसनप्रतीकारः शून्यनिवेश उपचयौ दण्डकरानुग्रहश्च इति
जनपददुर्गव्यसनयोर्दुर्गव्यसनम् इति पाराशराः
दुर्गे हि कोशदण्ड उत्पत्तिरापदि स्थानं च जनपदस्य
शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चापदि सहाया राज्ञः
जानपदाः त्वमित्रसाधारणाः इति
न इति कौटिल्यः
जनपदमूला दुर्गकोशदण्डसेतुवार्त्ताऽऽरम्भाः
शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु
पर्वतान्तर्द्वीपाश्च दुर्गा नाध्युष्यन्ते जनपदाभावात्
कर्षकप्राये तु दुर्गव्यसनं, आयुधीयप्राये तु जनपदे जनपदव्यसनं इति
दुर्गकोशव्यसनयोः कोशव्यसनम् इति पिशुनः
कोशमूलो हि दुर्गसंस्कारो दुर्गरक्षणं जनपदमित्रामित्रनिग्रहो देशान्तरितानां उत्साहनं दण्डबलव्यवहारश्च
दुर्गः कोशाद् उपजाप्यः परेषाम्
कोशं आदाय च व्यसने शक्यं अपयातुं, न दुर्गम् इति
न इति कौटिल्यः
दुर्गार्पणः कोशो दण्डः तूष्णींयुद्धं स्वपक्षनिग्रहो दण्डबलव्यवहार आसारप्रतिग्रहः परचक्राटवीप्रतिषेधश्च
दुर्गाभावे च कोशः परेषाम्
दृश्यते हि दुर्गवतां अनुच्छित्तिरिति
कोशदण्डव्यसनयोर्दण्डव्यसनम् इति कौणपदन्तः
दण्डमूलो हि मित्रामित्रनिग्रहः परदण्ड उत्साहनं स्वदण्डप्रतिग्रहश्च
दण्डाभावे च ध्रुवः कोशविनाशः
कोशाभावे च शक्यः कुप्येन भूम्या परभूमिस्वयङ्ग्राहेण वा दण्डः पिण्डयितुं, दण्डवता च कोशः
स्वामिनश्चासन्नवृत्तित्वाद् अमात्यसधर्मा दण्डः इति
न इति कौटिल्यः
कोशमूलो हि दण्डः
कोशाभावे दण्डः परं गच्छति, स्वामिनं वा हन्ति
सर्वाभियोगकरश्च कोशो धर्मकामहेतुः
देशकालकार्यवशेन तु कोशदण्डयोरन्यतरः प्रमाणीभवति
लम्भपालनो हि दण्डः कोशस्य, कोशः कोशस्य दण्डस्य च भवति
सर्वद्रव्यप्रयोजकत्वात् कोशव्यसनं गरीय इति
दण्डमित्रव्यसनयोर्मित्रव्यसनम् इति वातव्याधिः
मित्रं अभृतं व्यवहितं च कर्म करोति, पार्ष्णिग्राहं आसारं अमित्रं आटविकं च प्रतिकरोति, कोशदण्डभूमिभिश्च उपकरोति व्यसनावस्थायोगम् इति
न इति कौटिल्यः
दण्डवतो मित्रं मित्रभावे तिष्ठति, अमित्रो वा मित्रभावे
दण्डमित्रयोः तु साधारणे कार्ये सारतः स्वयुद्धदेशकाललाभाद् विशेषः
शीघ्राभियाने त्वमित्राटविकानभ्यन्तरकोपे च न मित्रं विद्यते
व्यसनयौगपद्ये परवृद्धौ च मित्रं अर्थयुक्तौ तिष्ठति
इति प्रकृतिव्यसनसम्प्रधारणं उक्तम्
प्रकृत्य्ऽवयवानां तु व्यसनस्य विशेषतः ।
बहुभावोऽनुरागो वा सारो वा कार्यसाधकः
द्वयोः तु व्यसने तुल्ये विशेषो गुणतः क्षयात् ।
शेषप्रकृतिसाद्गुण्यं यदि स्यान्नाविधेयकम्
शेषप्रकृतिनाशः तु यत्र एकव्यसनाद् भवेत् ।
व्यसनं तद् गरीयः स्यात् प्रधानस्य इतरस्य वा