श्लोक ०७-१८

Kautilya Arthashastra by Acharya Chankya
मध्यमस्यात्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः
द्वितीया चतुर्थी षष्ठी च विकृतयः
तच्चेद् उभयं मध्यमोऽनुगृह्णीयात्, विजिगीषुर्मध्यमानुलोमः स्यात्
न चेद् अनुगृह्णीयात्, प्रकृत्य्ऽनुलोमः स्यात्
मद्यमश्चेद् विजिगीषोर्मित्रं मित्रभावि लिप्सेत, मित्रस्यात्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत
मण्डलं वा प्रोत्साहयेत् अतिप्रवृद्धोऽयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः, सम्भूयास्य यात्रां विहनाम इति
तच्चेन् मण्डलं अनुगृह्णीयात्, मध्यमावग्रहेणात्मानं उपबृंहयेत्
न चेद् अनुगृह्णीयात्, कोशदण्डाभ्यां मित्रं अनुगृह्य ये मध्यमद्वेषिणो राजानः परस्परानुगृहीता वा बहवः तिष्ठेयुः, एकसिद्धौ वा बहवः सिध्येयुः, परस्पराद् वा शङ्किता न उत्तिष्ठेरन्, तेषां प्रधानं एकं आसन्नं वा सामदानाभ्यां लभेत
द्विगुणो द्वितीयं त्रिगुनः तृतीयम्
एवं अभ्युच्चितो मध्यमं अवगृह्णीयात्
देशकालातिपत्तौ वा सन्धाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्मसन्धिम्
कर्शनीयं वाऽस्य मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेद् एनं अहं त्वा त्रायेय इति आ कर्शनात्
कर्शितं एनं त्रायेत
उच्छेदनीयं वाऽस्य मित्रं मध्यमो लिप्सेत, कर्शितं एनं त्रायेत मध्यमवृद्धिभयात्
उच्छिन्नं वा भूम्य्ऽनुग्रहेण हस्ते कुर्याद् अन्यत्रापसारभयात्
कर्शनीय उच्छेदनीययोश्चेन् मित्राणि मध्यमस्य साचिव्यकराणि स्युः, पुरुषान्तरेण सन्धीयेत
विजिगीषोर्वा तयोर्मित्राण्यवग्रहसमर्थानि स्युः, सन्धिं उपेयात्
अमित्रं वाऽस्य मध्यमो लिप्सेत, सन्धिं उपेयात्
एवं स्वार्थश्च कृतो भवति मध्यमस्य प्रियं च
मध्यमश्चेत् स्वमित्रं मित्रभावि लिप्सेत, पुरुषान्तरेण सन्दध्यात्
सापेक्षं वा नार्हसि मित्रं उच्छेत्तुम् इति वारयेत्
उपेक्षेत वा मण्डलं अस्य कुप्यतु स्वपक्षवधात् इति
अमित्रं आत्मनो वा मध्यमो लिप्सेत, कोशदण्डाभ्यां एनं अदृश्यमानोऽनुगृह्णीयात्
उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद् उदासीनाद् भिद्यताम् इति
मध्यम उदासीनयोर्यो मण्डलस्याभिप्रेतः तं आश्रयेत
मध्यमचरितेन उदासीनचरितं व्याख्यातम्
उदासीनश्चेन् मध्यमं लिप्सेत, यतः शत्रुं अतिसन्दध्यान् मित्रस्य उपकारं कुर्याद् उदासीनं वा दण्ड उपकारिणं लभेत ततः परिणमेत
एवं उपबृह्यात्मानं अरिप्रकृतिं कर्शयेन् मित्रप्रकृतिं च उपगृह्णीयात्
सत्यप्यमित्रभावे तस्यानात्मवान्नित्यापकारी शत्रुः शत्रुसंहितः पार्ष्णिग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरिभाविनः, एकार्थाभिप्रयातः पृथग्ऽर्थाभिप्रयातः सम्भूययात्रिकः संहितप्रयाणिकः स्वार्थाभिप्रयातः सामुत्थायिकः कोशदण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधीभाविक इति मित्रभाविनः, -
सामन्तो बलवतः प्रतिघातोऽन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णिग्राहो वा स्वयं उपनतः प्रताप उपनतो वा दण्ड उपनत इति भृत्यभाविनः सामन्ताः
तैर्भूम्य्।एकान्तरा व्याख्याताः
तेषां शत्रुविरोधे यन् मित्रं एकार्थतां व्रजेत् ।
शक्त्या तद्ऽनुगृह्णीयाद् विषहेत यया परम्
प्रसाध्य शत्रुं यन् मित्रं वृद्धं गच्छेद् अवश्यताम् ।
सामन्त एकान्तराभ्यां तत्प्रकृतिभ्यां विरोधयेत्
तत्कुलीनापरुद्धाभ्यां भूमिं वा तस्य हारयेत् ।
यथा वाऽनुग्रहापेक्षं वश्यं तिष्ठेत् तथा चरेत्
न उपकुर्याद् अमित्रं वा गच्छेद् यद् अतिकर्शितम् ।
तद् अहीनं अवृद्धं च स्थापयेन् मित्रं अर्थवित्
अर्थयुक्त्या चलं मित्रं सन्धिं यद् उपगच्छति ।
तस्यापगमने हेतुं विहन्यान्न चलेद् यथा
अरिसाधारणं यद् वा तिष्ठेत् तद् अरितः शठम् ।
भेदयेद् भिन्नं उच्छिन्द्यात् ततः शत्रुं अनन्तरम्
उदासीनं च यत् तिष्ठेत् सामन्तैः तद् विरोधयेत् ।
ततो विग्रहसन्तप्तं उपकारे निवेशयेत्
अमित्रं विजिगीषुं च यत् सञ्चरति दुर्बलम् ।
तद् बलेनानुगृह्णीयाद् यथा स्यान्न परान्मुखम्
अपनीय ततोऽन्यस्यां भूमौ वा सम्निवेशयेत् ।
निवेश्य पूर्वं तत्रान्यद् दण्डानुग्रहहेतुना
अपकुर्यात् समर्थं वा न उपकुर्याद् यद् आपदि ।
उच्छिन्द्याद् एव तन्मित्रं विश्वस्याङ्कं उपस्थितम्
मित्रव्यसनतो वाऽरिरुत्तिष्ठेद् योऽनवग्रहः ।
मित्रेण एव भवेत् साध्यश्छादितव्यसनेन सः
अमित्रव्यसनान् मित्रं उत्थितं यद् विरज्यति ।
अरिव्यसनसिद्ध्या तत्शत्रुणा एव प्रसिध्यति
वृद्धिं क्षयं च स्थानं च कर्शन उच्छेदनं तथा
सर्व उपायान् समादध्याद् एतान् यश्चार्थशास्त्रवित् ।
एवं अन्योन्यसञ्चारं षाड्गुण्यं योऽनुपश्यति
स बुद्धिनिगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः