श्लोक ०७-१७

Kautilya Arthashastra by Acharya Chankya
शमः सन्धिः समाधिरित्येकोऽर्थः
राज्ञां विश्वास उपगमः शमः सन्धिः समाधिरिति
सत्यं शपथो वा चलः सन्धिः, प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः
न इति कौटिल्यः
सत्यं शपथो वा परत्र इह च स्थावरः सन्धिः, इहार्थ एव प्रतिभूः प्रतिग्रहो वा बलापेक्षः
संहिताः स्मः इति सत्यसन्धाः पूर्वे राजानः सत्येन सन्दधिरे
तस्यातिक्रमे शपथेन अग्न्य्।उदकसीताप्राकारलोष्टहस्तिस्कन्धाश्वपृष्टरथ उपस्थशस्त्ररत्नबीजगन्धरससुवर्णहिरण्यान्यालेभिरे हन्युरेतानि त्यजेयुश्च एनं यः शपथं अतिक्रामेत् इति
शपथातिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्यबन्धः प्रतिभूः
तस्मिन् यः परावग्रहसमर्थान् प्रतिभुवो गृह्णाति, सोऽतिसन्धत्ते
विपरीतोऽतिसन्धीयते
बन्धुमुख्यप्रग्रहः प्रतिग्रहः
तस्मिन् यो दूष्यामात्यं दूष्यापत्यं वा ददाति, सोऽतिसन्धत्ते
विपरीतोऽतिसन्धीयते
प्रतिग्रहग्रहणविश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति
अपत्यसमाधौ तु कन्यापुत्रदाने ददत् तु कन्यां अतिसन्धत्ते
कन्या ह्यदायादा परेषां एवार्थायाक्लेश्या(?) च
विपरीतः पुत्रः
पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृतास्त्रं एकपुत्रं वा ददाति सोऽतिसन्धीयते
विपरीतोऽतिसन्धत्ते
जात्याद् अजात्यो हि लुप्तदायादसन्तानत्वाद् आधातुं श्रेयान्, प्राज्ञाद् अप्राज्ञो मन्त्रशक्तिलोपात्, शूराद् अशूर उत्साहशक्तिलोपात्, कृतास्त्राद् अकृतास्त्रः प्रहर्तव्यसम्पल्लोपात्, एकपुत्राद् अनेकपुत्रो निरपेक्षत्वात्
जात्यप्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्यप्रकृतिरनुवर्तते, प्राज्ञं अजात्यं मन्त्राधिकारः
मन्त्राधिकारेऽपि वृद्धसम्योगाज् जात्यः प्राज्ञं अतिसन्धत्ते
प्राज्ञशूरयोः प्राज्ञं अशूरं मतिकर्मणां योगोऽनुवर्तते, शूरं अप्राज्ञं विक्रमाधिकारः
विक्रमाधिकारेऽपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसन्धत्तेश्
शूरकृतास्त्रयोः शूरं अकृतास्त्रं विक्रमव्यवसायोऽनुवर्तते, कृतास्त्रं अशूरं लक्ष्यलम्भाधिकारः
लक्ष्यलम्भाधिकारेऽपि स्थैर्यप्रतिपत्त्य्ऽसम्मोषैः शूरः कृतास्त्रं अतिसन्धत्ते
बह्व्।एकपुत्रयोर्बहुपुत्र एकं दत्त्वा शेषप्रतिष्टब्धः सन्धिं अतिक्रामति, न इतरः
पुत्रसर्वस्वदाने सन्धिश्चेत् पुत्रफलतो विशेषः
समफलयोः शक्तप्रजननतो विशेषः
शक्तप्रजननयोरप्युपस्थितप्रजननतो विशेषः
शक्तिमत्येकपुत्रे तु लुप्तपुत्र उत्पत्तिरात्मानं आदध्यात्, न च एकपुत्रं इति
अभ्युच्चीयमानः समाधिमोक्षं कारयेत्
कुमारासन्नाः सत्त्रिणः कारुशिल्पिव्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारं अपहरेयुः
नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिका वा पूर्वप्रणिहिताः परं उपतिष्ठेरन्
ते कुमारं परम्परया उपतिष्ठेरन्
तेषां अनियतकालप्रवेशस्थाननिर्गमनानि स्थापयेत्
ततः तद्व्यञ्जनो वा रात्रौ प्रतिष्ठेत
तेन रूपाजीवा भार्याव्यञ्जनाश्च व्याख्याताः
तेषां वा तूर्यभाण्डफेलां गृहीत्वा निर्गच्छेत्
सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधक उदकपरिचारकैर्वा द्रव्यवस्त्रभाण्डफेलाशयनासनसम्भोगैर्निर्ह्रियेत
परिचारकच्छद्मना वा किञ्चिद् अरूपवेलायां आदाय निर्गच्छेत्, सुरुङ्गामुखेन वा निशा उपहारेण
तोयाशये वा वारुणं योगं आतिष्ठेत्
वैदेहकव्यञ्जना वा पक्वान्नफलव्यवहारेणारक्षिषु रसं उपचारयेयुः
दैवत उपहारश्राद्धप्रहवणनिमित्तं आरक्षिषु मदनयोगयुक्तं अन्नपानं रसं वा प्रयुज्यापगच्छेत्, आरक्षकप्रोत्साहनेन वा
नागरककुशीलवचिकित्सकापूपिकव्यञ्जना वा रात्रौ समृद्धगृहाण्यादीपयेयुः आरक्षिणां वा
वैदेहकव्यञ्जना वा पण्यसंस्थां आदीपयेयुः
अन्यद् वा शरीरं निक्षिप्य स्वगृहं आदीपयेद् अनुपातभयात्
ततः सन्धिच्छेदखातसुरुङ्गाभिरपगच्छेत्
काचकुम्भभाण्डभारव्यञ्जनो वा रात्रौ प्रतिष्ठेत
मुण्डजटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्व्यञ्जनः प्रतिष्ठेत, विरूपव्याधिकरणारण्यचरच्छद्मनां अन्यतमेन वा
प्रेतव्यञ्जनो वा गूढैर्निर्ह्रियेत
प्रेतं वा स्त्रीवेषेणानुगच्छेत्
वनचरव्यञ्जनाश्च एनं अन्यतो यान्तं अन्यतोऽपदिशेयुः
ततोऽन्यतो गच्छेत्
चक्रचराणां वा शकटवाटैरपगच्छेत्
आसन्ने चानुपाते सत्त्रं वा गृह्णीयात्
सत्त्राभावे हिरण्यं रसविद्धं वा भक्ष्यजातं उभयतःपन्थानं उत्सृजेत्
ततोऽन्यतोऽपगच्छेत्
गृहीतो वा सामादिभिरनुपातं अतिसन्दध्यात्, रसविद्धेन वा पथ्य्ऽदनेन
वारुणयोगाग्निदाहेषु वा शरीरं अन्यद् आधाय शत्रुं अभियुञ्जीत पुत्रो मे त्वया हतः इति
उपात्तच्छन्नशस्त्रो वा रात्रौ विक्रम्य रक्षिषु
शीघ्रपातैरपसरेद् गूढप्रणिहितैः सह