अनुज्ञातसन्धिपण उद्वेगकरं बलवान् विजिगीषमाणो यतः स्वभूमिः स्व।ऋतुवृत्तिश्च स्वसैन्यानां, अदुर्गापसारः शत्रुर्ऽपार्ष्णिरनासारश्च, ततो यायात्
विपर्यये कृतप्रतीकारो यायात्
सामदानाभ्यां दुर्बलान् उपनमयेत्, भेददण्डाभ्यां बलवतः
नियोगविकल्पसमुच्चयैश्च उपायानां अनन्तर एकान्तराः प्रकृतीः साधयेत्
ग्रामारण्य उपजीविव्रजवणिक्पथानुपालनं उज्झितापसृतापकारिणां चार्पणं इति सान्त्वं आचरेत्
भूमिद्रव्यकन्यादानं अभयस्य च इति दानं आचरेत्
सामन्ताटविकतत्कुलीनापरुद्धानां अन्यतम उपग्रहेण कोशदण्डभूमिदाययाचनं इति भेदं आचरेत्
प्रकाशकूटतूष्णींयुद्धदुर्गलम्भ उपायैरमित्रप्रग्रहणं इति दण्डं आचरेत्
एवं उत्साहवतो दण्ड उपकारिणः स्थापयेत्, स्वप्रभाववतः कोश उपकारिणः, प्रज्ञावतो भूम्य्।उपकारिणः
तेषां पण्यपत्तनग्रामखनिसञ्जातेन रत्नसारफल्गुकुप्येन द्रव्यहस्तिवनव्रजसमुत्थेन यानवाहनेन वा यद् बहुश उपकरोति तच्चित्रभोगम्
यद् दण्डेन कोशेन वा महद् उपकरोति तन् महाभोगम्
यद् दण्डकोशभूमीभिरुपकरोति तत् सर्वभोगम्
यद् अमित्रं एकतः प्रतिकरोति तद् एकतोभोगि
यद् अमित्रं आसारं च उभयतः प्रतिकरोति तद् उभयतोभोगि
यद् अमित्रासारप्रतिवेशाटविकान् सर्वतः प्रतिकरोति तत् सर्वतोभोगि
पार्ष्णिग्राहश्चाटविकः शत्रुमुख्यः शत्रुर्वा भूमिदानसाध्यः कश्चिद् आसाद्येत, निर्गुणया भूम्या एनं उपग्राहयेत्, अप्रतिसम्बद्धया दुर्गस्थं, निरुपजीव्ययाऽऽटविकं -
प्रत्यादेयया तत्कुलीनं शत्रोः, अपच्छिन्नया शत्रोरपरुद्धं नित्यामित्रया श्रेणीबलं, बलवत्सामन्तया संहतबलं, उभाभ्यां युद्धे प्रतिलोमं, -
अलब्धव्यायामया उत्साहिनं, शूययाऽरिपक्षीयं, कर्शितयाऽपवाहितं, महाक्षयव्ययनिवेशया गतप्रत्यागतं, अनपाश्रयया प्रत्यपसृतं, परेणानधिवास्यया स्वयं एव भर्तारं उपग्राहयेत्
तेषां महा उपकारं निर्विकारं चानुवर्तयेत्
प्रतिलोमं उपांशुना साधयेत्
उपकारिणं उपकारशक्त्या तोषयेत्
प्रयासतश्चार्थमानौ कुर्याद्, व्यसनेषु चानुग्रहम्
स्वयं।आगतानां यथा इष्टदर्शनं प्रतिविधानं च कुर्यात्
परिभव उपघातकुत्सातिवादांश्च एषु न प्रयुञ्जीत
दत्त्वा चाभयं पिता इवानुगृह्णीयात्
यश्चास्यापकुर्यात् तद् दोषं अभिविख्याप्य प्रकाशं एनं घातयेत्
पर उद्वेगकारणाद् वा दाण्डकर्मिकवच्चेष्टेत
न च हतस्य भूमिद्रव्यपुत्रदारान् अभिमन्येत
कुल्यान् अप्यस्य स्वेषु पात्रेषु स्थापयेत्
कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत्
एवं अस्य दण्ड उपनताः पुत्रपौत्रान् अनुवर्तन्ते
यः तु उपनतान् हत्वा बद्ध्वा वा भूमिद्रव्यपुत्रदारान् अभिमन्येत तस्य उद्विग्नं मण्डलं अभावाय उत्तिष्ठते
ये चास्यामात्याः स्वभूमिष्वायत्ताः ते चास्य उद्विग्ना मण्डलं आश्रयन्ते
स्वयं वा राज्यं प्राणान् वाऽस्याभिमन्यन्ते
स्वभूमिषु च राजानः तस्मात् साम्नाऽनुपालिताः ।
भवन्त्यनुगुणा राज्ञः पुत्रपौत्रानुवर्तिनः