दुर्बलो राजा बलवताऽभियुक्तः तद्विशिष्टबलं आश्रयेत यं इतरो मन्त्रशक्त्या नातिसन्दध्यात्
तुल्यमन्त्रशक्तीनां आयत्तसम्पदो वृद्धसम्योगाद् वा विशेषः
विशिष्टबलाभावे समबलैः तुल्यबलसङ्घैर्वा बलवतः सम्भूय तिष्ठेद् यान्न मन्त्रप्रभावशक्तिभ्यां अतिसन्दध्यात्
तुल्यमन्त्रप्रभावशक्तीनां विपुलारम्भतो विशेषः
समबलाभावे हीनबलैः शुचिभिरुत्साहिभिः प्रत्यनीकभूतैर्बलवतः सम्भूय तिष्ठेद् यान्न मन्त्रप्रभाव उत्साहशक्तिभिरतिसन्दध्यात्
तुल्य उत्साहशक्तीनां स्वयुद्धभूमिलाभाद् विशेषः
तुल्यभूमीनां स्वयुद्धकाललाभाद् विशेषः
तुल्यदेशकालानां युग्यशस्त्रावरणतो विशेषः
सहायाभावे दुर्गं आश्रयेत यत्रामित्रः प्रभूतसैन्योऽपि भक्तयवस इन्धन उदक उपरोधं न कुर्यात् स्वयं च क्षयव्ययाभ्यां युज्येत
तुल्यदुर्गाणां निचयापसारतो विशेषः
निचयापसारसम्पन्नं हि मनुष्यदुर्गं इच्छेद् इति कौटिल्यः
तद् एभिः कार्णैराश्रयेत - पार्ष्णिग्राहं आसारं मध्यमं उदासीनं वा प्रतिपादयिष्यामि, सामन्ताटविकतत्कुलीनापरुद्धानां अन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा -
कृत्यपक्ष उपग्रहेण वाऽस्य दुर्गे राष्ट्रे स्कन्धावारे वा कोपं समुत्थापयिष्यामि, शस्त्राग्निरसप्रणिधानैरौपनिषदिकैर्वा यथा इष्टं आसन्नं हनिष्यामि -
स्वयंऽधिष्ठितेन वा योगप्रणिधानेन क्षयव्ययं एनं उपनेष्यामि, क्षयव्ययप्रवास उपतप्ते वाऽस्य मित्रवर्गे सैन्ये वा क्रमेण उपजापं प्राप्स्यामि -
वीवधासारप्रसारवधेन वाऽस्य स्कन्धावारावग्रहं करिष्यामि, दण्ड उपनयेन वाऽस्य रन्ध्रं उत्थाप्य सर्वसन्दोहेन प्रहरिष्यामि, प्रतिहत उत्साहेन वा यथा इष्टं सन्धिं अवाप्स्यामि, मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति -
निरासारं वाऽस्य मूलं मित्राटवीदण्डैरुद्धातयिष्यामि, महतो वा देशस्य योगक्षेमं इहस्थः पालयिष्यामि, स्वविक्षिप्तं मित्रविक्षिप्तं वा मे सैन्यं इहस्थस्य एकस्थं अविषह्यं भविष्यति, निम्नखातरात्रियुद्धविशारदं वा मे सैन्यं पथ्याबाधमुक्तं आसन्ने कर्म करिष्यति -
विरुद्धदेशकालं इहागतो वा स्वयं एव क्षयव्ययाभ्यां न भविष्यति, महाक्षयव्ययाभिगम्योऽयं देशो दुर्गाटव्य्ऽपसारबाहुल्यात् -
परेषां व्याधिप्रायः सैन्यव्यायामानां अलब्धभौमश्च, तं आपद्गतः प्रवेक्ष्यति, प्रविष्टो वा न निर्गमिष्यति इति
कारणाभावे बलसमुच्छ्रये वा परस्य दुर्गं उन्मुच्यापगच्छेत्
अग्निपतङ्गवद् अमित्रे वा प्रविशेत्
अन्यतरसिद्धिर्हि त्यक्तात्मनो भवति इत्याचार्याः
न इति कौटिल्यः
सन्धेयतां आत्मनः परस्य च उपलभ्य सन्दधीत
विपर्यये विक्रमेण सन्धिं अपसारं वा लिप्सेत
सन्धेयस्य वा दूतं प्रेषयेत्
तेन वा प्रेषितं अर्थमानाभ्यां सत्कृत्य ब्रूयात् इदं राज्ञः पण्यागारं, इदं देवीकुमाराणां, देवीकुमारवचनात्, इदं राज्यं अहं च त्वद्ऽर्पणः इति
लब्धसंश्रयः समयाचारिकवद् भर्तरि वर्तेत
दुर्गादीनि च कर्माणि आवाहविवाहपुत्राभिषेकाश्वपण्यहस्तिग्रहणसत्त्रयात्राविहारगमनानि चानुज्ञातः कुर्वीत
स्वभूम्य्ऽवस्थितप्रकृतिसन्धिं उपघातं अपसृतेषु वा सर्वं अनुज्ञातः कुर्वीत
दुष्टपौरजानपदो वा न्यायवृत्तिरन्यां भूमिं याचेत
दुष्यवद् उपांशुदण्डेन वा प्रतिकुर्वीत
उचितां वा मित्राद् भूमिं दीयमानां न प्रतिगृह्णीयात्
मन्त्रिपुरोहितसेनापतियुवराजानां अन्यतमं अदृश्यमाने भर्तरि पश्येत्, यथाशक्ति च उपकुर्यात्
दैवतस्वस्तिवाचनेषु तत्परा आशिषो वाचयेत्
सर्वत्रात्मनिसर्गं गुणं ब्रूयात्
सम्युक्तबलवत्सेवी विरुद्धः शङ्कितादिभिः ।
वर्तेत दण्ड उपनतो भर्तर्येवं अवस्थितः