श्लोक ०७-१४

Kautilya Arthashastra by Acharya Chankya
सामवायिकैरेवं अभियुक्तो विजिगीषुर्यः तेषां प्रधानः तं ब्रूयात् त्वया मे सन्धिः, इदं हिरण्यं, अहं च मित्रं, द्विगुणा ते वृद्धिः, नार्हस्यात्मक्षयेण मित्रमुखान् अमित्रान् वर्धयितुं, एते हि वृद्धाः त्वां एव परिभविष्यन्ति इति
भेदं वा ब्रूयात् अनपकारो यथाऽहं एतैः सम्भूयाभियुक्तः तथा त्वां अप्येते संहितबलाः स्वस्था व्यसने वाऽभियोक्ष्यन्ते, बलं हि चित्तं विकरोति, तद् एषां विघातय इति
भिन्नेषु प्रधानं उपगृह्य हीनेषु विक्रमयेत्, हीनान् अनुग्राह्य वा प्रधाने, यथा वा श्रेयोऽभिमन्येत तथा
वैरं वा परैर्ग्राहयित्वा विसंवादयेत्
फलभूयस्त्वेन वा प्रधानं उपजाप्य सन्धिं कारयेत्
अथ उभयवेतनाः फलभूयस्त्वं दर्शयन्तः सामवायिकान् अतिसंहिताः स्थ इत्युद्द्दूषयेयुः
दुष्टेषु सन्धिं दूषयेत्
अथ उभयवेतना भूयो भेदं एषां कुर्युः एवं तद् यद् अस्माभिर्दर्शितम् इति
भिन्नेष्वन्यतम उपग्रहेण चेष्टेत
प्रधानाभावे सामवायिकानां उत्साहयितारं स्थिरकर्माणं अनुरक्तप्रकृक्तिं लोभाद् भयाद् वा सङ्घातं उपागतं विजिगीषोर्भीतं राज्यप्रतिसम्बद्धं मित्रं चलामित्रं वा पूर्वान् उत्तराभावे साधयेत् - उत्साहयितारं आत्मनिसर्गेण, स्थिरकर्माणं सान्त्वप्रणिपातेन, अनुरक्तप्रकृतिं कन्यादानयापनाभ्यां, लुब्धं अंशद्वैगुण्येन, भीतं एभ्यः कोशदण्डानुग्रहेण, स्वतो भीतं विश्वास्य प्रतिभूप्रदानेन, राज्यप्रतिसम्बद्धं एकीभाव उपगमनेन, मित्रं उभयतः प्रियहिताभ्यां, उपकारत्यागेन वा, चलामित्रं अवधृतं अनपकार उपकाराभ्याम्
यो वा यथाऽयोगं भजेत तं तथा साधयेत्, सामदानभेददण्डैर्वा यथाऽऽपत्सु व्याख्यास्यामः
व्यसन उपघातत्वरितो वा कोशदण्डाभ्यां देशे काले कार्ये वाऽवधृतं सन्धिं उपेयात्
कृतसन्धिर्हीनं आत्मानं प्रतिकुर्वीत
पक्षे हीनो बन्धुमित्रपक्षं कुर्वीत, दुर्गं अविषह्यं वा
दुर्गमित्रप्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति
मन्त्रशक्तिहीनः प्राज्ञपुरुष उपचयं विद्यावृद्धसम्योगं वा कुर्वीत
तथा हि सद्यः श्रेयः प्राप्नोति
प्रभावहीनः प्रकृतियोगक्षेमसिद्धौ यतेत
जनपदः सर्वकर्मणां योनिः, ततः प्रभावः
तस्य स्थानं आत्मनश्चापदि दुर्गम्
सेतुबन्धः सस्यानां योनिः
नित्यानुषक्तो हि वर्षगुणलाभः सेतुवापेषु
वणिक्पथः परातिसन्धानस्य योनिः
वणिक्पथेन हि दण्डगूढपुरुषातिनयनं शस्त्रावरणयानवाहनक्रयश्च क्रियते, प्रवेशो निर्णयनं च
खनिः सङ्ग्राम उपकरणानां योनिः, द्रव्यवनं दुर्गकर्मणां यानरथयोश्च, हस्तिवनं हस्तिनां, गवाश्वखर उष्ट्राणां च व्रजः
तेषां अलाभे बन्धुमित्रकुलेभ्यः समार्जनम्
उत्साहहीनः श्रेणीप्रवीरपुरुषाणां चोरगणाटविकम्लेच्छजातीनां परापकारिणां गूढपुरुषाणां च यथालाब्भं उपचयं कुर्वीत
परमिश्राप्रतीकारं आबलीयसं वा परेषु प्रयुञ्जीत
एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च ।
सम्पन्नः प्रतिनिर्गच्छेत् परावग्रहं आत्मनः