संहत्यारिविजिगीष्वोरमित्रयोः पराभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्तिसम्पन्नस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
शक्तिसम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णिग्राहं उच्छिन्द्यात्, न हीनशक्तिरलब्धलाभः
शक्तिसाम्ये यो विपुलारम्भस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
विपुलारम्भो ह्यमित्रं उच्छिद्य पार्ष्णिग्राहं उच्छिन्द्यात्, नाल्पारम्भः सक्तचक्रः
आरम्भसाम्ये यः सर्वसन्दोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
शून्यमूलो ह्यस्य सुकरो भवति, नैकदेशबलप्रयातः कृतपार्ष्णिप्रतिविधानः
बल उपादानसाम्ये यश्चलामित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
चलामित्रं प्रयातो हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहं उच्छिन्द्यात्, न स्थितामित्रं प्रयातः
असौ हि दुर्गप्रतिहतः पार्ष्णिग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते
तेन पूर्वे व्याख्याताः
शत्रुसाम्ये यो धार्मिकाभियोगिनः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
धार्मिकाभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिकाभियोगी सम्प्रियः
तेन मूलहरतादात्विककदर्याभियोगिनां पार्ष्णिग्रहणं व्याख्यातम्
मित्राभियोगिनोः पार्ष्णिग्रहणे त एव हेतवः
मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्राभियोगिनः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
मित्राभियोगी हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहं उच्छिन्द्यात्
सुकरो हि मित्रेण सन्धिर्नामित्रेण
मित्रं अमित्रं च उद्धरतोर्योऽमित्र उद्धारिणः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
वृद्धमित्रो ह्यमित्र उद्धारी पार्ष्णिग्राहं उच्छिन्द्यात्, न इतरः स्वपक्ष उपघाती
तयोरलब्धलाभापगमने यस्यामित्रो महतो लाभाद् वियुक्तः क्षयव्ययाधिको वा स पार्ष्णिग्राहोऽतिसन्धत्ते
लब्धलाभापगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णिग्राहोऽतिसन्धत्ते, यस्य वा यातव्यः शत्रोर्विग्रहापकारसमर्थः स्यात्
पार्ष्णिग्राहयोरपि यः शक्यारम्भबल उपादानाधिकः स्थितशत्रुः पार्श्वस्थायी वा सोऽतिसन्धत्ते
पार्श्वस्थायी हि यातव्याभिसारो मूलाबाधकश्च भवति, मूलाबाधक एव पश्चात्स्थायी
पार्ष्णिग्राहाः त्रयो ज्ञेयाः शत्रोश्चेष्टानिरोधकाः ।
सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः
अरेर्नेतुश्च मध्यस्थो दुर्बलोऽन्तर्धिरुच्यते ।
प्रतिघातो बलवतो दुर्गाटव्य्ऽपसारवान्
मध्यमं त्वरिविजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्धलाभापगमने यो मध्यमं मित्राद् वियोजयत्यमित्रं च मित्रं आप्नोति सोऽतिसन्धत्ते
सन्धेयश्च शत्रुरुपकुर्वाणो, न मित्रं मित्रभावाद् उत्क्रान्तम्
तेन उदासीनलिप्सा व्याख्याता
पार्ष्णिग्रहणाभियानयोः तु मन्त्रयुद्धाद् अभ्युच्चयः
व्यायामयुद्धे हि क्षयव्ययाभ्यां उभयोरवृद्धिः
जित्वाऽपि हि क्षिणदण्डकोशः पराजितो भवति इत्याचार्याः
न इति कौटिल्यः
सुमहताऽपि क्षयव्ययेन शत्रुविनाशोऽभ्युपगन्तव्यः
तुल्ये क्षयव्यये यः पुरस्ताद् दूष्यबलं घातयित्वा निह्शल्यः पश्चाद् वश्यबलो युध्येत सोऽतिसन्धत्ते
द्वयोरपि पुरस्ताद् दूष्यबलघातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्तदूष्यं च घातयेत् सोऽतिसन्धत्ते
तेनामित्राटवीबलघातो व्याख्यातः
पार्ष्णिग्राहोऽभियोक्ता वा यातव्यो वा यदा भवेत् ।
विजिगीषुः तदा तत्र नेत्रं एतत् समाचरेत्
पार्ष्णिग्राहो भवेन्नेता शत्रोर्मित्राभियोगिनः ।
विग्राह्य पूर्वं आक्रन्दं पार्ष्णिग्राहाभिसारिणा
आक्रन्देनाभियुञ्जानः पार्ष्णिग्राहं निवारयेत् ।
तथाऽऽक्रन्दाभिसारेण पार्ष्णिग्राहाभिसारिणम्
अरिमित्रेण मित्रं च पुरस्ताद् अवघट्टयेत् ।
मित्रमित्रं अरेश्चापि मित्रमित्रेण वारयेत्
मित्रेण ग्राहयेत् पार्ष्णिं अभियुक्तोऽभियोगिनः ।
मित्रमित्रेण चाक्रन्दं पार्ष्णिग्राहान्निवारयेत्
एवं मण्डलं आत्मार्थं विजिगीषुर्निवेशयेत् ।
पृष्ठतश्च पुरस्ताच्च मित्रप्रकृतिसम्पदा
कृत्स्ने च मण्डले नित्यं दूतान् गूढांश्च वासयेत् ।
मित्रभूतः सपत्नानां हत्वा हत्वा च संवृतः
असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः ।
निह्संशयं विपद्यन्ते भिन्नप्लव इव उदधौ