श्लोक ०७-१२

Kautilya Arthashastra by Acharya Chankya
त्वं चाहं च दुर्गं कारयावहे इति कर्मसन्धिः
तयोर्यो दैवकृतं अविषह्यं अल्पव्ययारम्भं दुर्गं कारयति सोऽतिसन्धत्ते
तत्रापि स्थलनदीपर्वतदुर्गाणां उत्तर उत्तरं श्रेयः
सेतुबन्धयोरप्याहार्य उदकात् सह उदकः श्रेयान्
सह उदकयोरपि प्रभूतवापस्थानः श्रेयान्
द्रव्यवनयोरपि यो महत्सारवद्द्रव्याटवीकं विषयान्ते नदीमातृकं द्रव्यवनं छेदयति सोऽतिसन्धत्ते
नदीमातृकं हि स्व्।आजीवं अपाश्रयश्चापदि भवति
हस्तिवनयोरपि यो बहुशूरमृगं दुर्बलप्रतिवेशंऽनन्तावक्लेशि विषयान्ते हस्तिवनं बध्नाति सोऽतिसन्धत्ते
तत्रापि बहुकुण्ठाल्पशूरयोः अल्पशूरं श्रेयः, शूरेषु हि युद्धं, अल्पाः शूरा बहून् अशूरान् भञ्जन्ति, ते भग्नाः स्वसैन्यावघातिनो भवन्ति इत्याचार्याः
न इति कौटिल्यः
कुण्ठा बहवः श्रेयांसः, स्कन्धविनियोगाद् अनेकं कर्म कुर्वाणाः स्वेषां अपाश्रयो युद्धे, परेषां दुर्धर्षा विभीषणाश्च
बहुषु हि कुण्ठेषु विनयकर्मणा शक्यं शौर्यं आधातुं, न त्वेवाल्पेषु शूरेषु बहुत्वं इति
खन्योरपि यः प्रभूतसारां अदुर्गमार्गां अल्पव्ययारम्भां खनिं खानयति, सोऽतिसन्धत्ते
तत्रापि महासारं अल्पं अल्पसारं वा प्रभूतं इति महासारं अल्पं श्रेयः, वज्रमणिमुक्ताप्रवालहेमरूप्यधातुर्हि प्रभूतं अल्पसारं अत्यर्घेण ग्रसते इत्याचार्याः
न इति कौटिल्यः
चिराद् अल्पो महासारस्य क्रेता विद्यते, प्रभूतः सातत्याद् अल्पसारस्य
एतेन वणिक्पथो व्याख्यातः
तत्रापि वारिस्थलपथयोर्वारिपथः श्रेयान्, अल्पव्ययव्यायामः प्रभूतपण्य उदयश्च इत्याचार्याः
न इति कौटिल्यः
सम्रुद्धगतिरसार्वकालिकः प्रकृष्टभययोनिर्निष्प्रतीकारश्च वारिपथः, विपरीतः स्थलपथः
वारिपथे तु कूलसम्यानपथयोः कूलपथः पण्यपत्तनबाहुल्यात्श्रेयान्, नदीपथो वा, सातत्याद् विषह्याबाधत्वाच्च
स्थलपथेऽपि हैमवतो दक्षिणापथात्श्रेयान्, हस्त्य्ऽश्वगन्धदन्ताजिनरूप्यसुवर्णपण्याः सारवत्तराः इत्याचार्याः
न इति कौटिल्यः
कम्बलाजिनाश्वपण्यवर्जाः शङ्खवज्रमणिमुक्तासुवर्णपण्याश्च प्रभूततरा दक्षिणापथे
दक्षिणापथेऽपि बहुखनिः सारपण्यः प्रसिद्धगतिरल्पव्ययव्यायामो वा वणिक्पथः श्रेयान्, प्रभूतविषयो वा फल्गुपुण्यः
तेन पूर्वः पश्चिमश्च वणिक्पथो व्याख्यातः
तत्रापि चक्रपादपथयोश्चक्रपथो विपुलारम्भत्वात्श्रेयान्, देशकालसम्भावनो वा खर उष्ट्रपथः
आभ्यां अंसपथो व्याख्यातः
परकर्म उदयो नेतुः क्षयो वृद्धिर्विपर्यये
तुल्ये कर्मपथे स्थानं ज्ञेयं स्वं विजिगीषुणा
अल्पागमातिव्ययता क्षयो वृद्धिर्विपर्यये
समायव्ययता स्थानं कर्मसु ज्ञेयं आत्मनः
तस्माद् अल्पव्ययारम्भं दुर्गादिषु महा उदयम्
कर्म लब्ध्वा विशिष्टः स्याद् इत्युक्ताः कर्मसन्धयः