श्लोक ०७-११

Kautilya Arthashastra by Acharya Chankya
त्वं चाहं च शून्यं निवेशयावहे इत्यनवसितसन्धिः
तयोर्यः प्रत्युपस्थितार्थो यथा उक्तगुणां भूमिं निवेशयति सोऽतिसन्धत्ते
तत्रापि स्थलं औदकं वा इति महतः स्थलाद् अल्पं औदकं श्रेयः, सातत्याद् अवस्थितत्वाच्च फलानाम्
स्थलयोरपि प्रभूतपूर्वापरसस्यं अल्पवर्षपाकं असक्तारम्भं श्रेयः
औदकयोरपि धान्यवापं अधान्यवापात्श्रेयः
तयोरल्पबहुत्वे धान्यकान्ताद् अल्पान् महद् अधान्यकान्तं श्रेयः
महत्यवकाशे हि स्थाल्याश्चानूप्याश्चोषधयो भवन्ति
दुर्गादीनि च कर्माणि प्रभूत्येन क्रियन्ते
कृत्रिमा हि भूमिगुणाः
खनिधान्यभोगयोः खनिभोगः कोशकरः, धान्यभोगः कोशकोष्ठागारकरः
धान्यमूला हि दुर्गादीनां कर्मणां आरम्भाः
महाविषयविक्रयो वा खनिभोगः श्रेयान्
द्रव्यहस्तिवनभोगयोर्द्रव्यवनभोगः सर्वकर्मणां योनिः प्रभूतनिधानक्षमश्च, विपरीतो हस्तिवनभोगः इत्याचार्याः
न इति कौटिल्यः
शक्यं द्रव्यवनं अनेकं अनेकस्यां भूमौ वापयितुं, न हस्तिवनम्
हस्तिप्रधानो हि परानीकवध इति
वारिस्थलपथभोगयोरनित्यो वारिपथभोगः, नित्यः स्थलपथभोगः
भिन्नमनुष्या श्रेणीमनुष्या वा भूमिरिति भिन्नमनुष्या श्रेयसी
भिन्नमनुष्या भोग्या भवति, अनुपजाप्या चान्येषां, अनापत्सहा तु
विपरीता श्रेणीमनुष्या, कोपे महादोषा
तस्यां चातुर्वर्ण्यनिवेशे सर्वभोगसहत्वाद् अवरवर्णप्राया श्रेयसी, बाहुल्याद् ध्रुवत्वाच्च कृष्याः कर्षकवती, कृष्याश्चान्येषां चारम्भाणां प्रयोजकत्वात् गोरक्षकवती, पण्यनिचय।ऋणानुग्रहाद् आढ्यवणिग्वती
भूमिगुणानां अपाश्रयः श्रेयान्
दुर्गापाश्रया पुरुषापाश्रया वा भूमिरिति पुरुषापाश्रया श्रेयसी
पुरुषवद् धि राज्यम्
अपुरुषा गौर्वन्ध्येव किं दुहीत
महाक्षयव्ययनिवेशां तु भूमिं अवाप्तुकामः पूर्वं एव क्रेतारं पणेत दुर्बलं अराजबीजिनं निरुत्साहं अपक्षं अन्यायवृत्तिं व्यसनिनं दैवप्रमाणं यत्किञ्चनकारिणं वा
महाक्षयव्ययनिवेशायां हि भूमौ दुर्बलो राजबीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षयव्ययेनावसीदति
बलवान् अराजबीजी क्षयव्ययभयाद् असगन्धाभिः प्रकृतिभिः त्यज्यते
निरुत्साहः तु दण्डवान् अपि दण्डस्याप्रणेता सदण्डः क्षयव्ययेनावभज्यते
कोशवान् अप्यपक्षः क्षयव्ययानुग्रहहीनत्वान्न कुतश्चित् प्राप्नोति
अन्यायवृत्तिर्निविष्टं अप्युत्थापयेत्
स कथं अनिविष्टं निवेशयेत्
तेन व्यसनी व्याख्यातः
दैवप्रमाणो मानुषहीनो निरारम्भो विपन्नकर्मारम्भो वाऽवसीदति
यत्किञ्चनकारी न किञ्चिद् आसादयति
स च एषां पापिष्ठतमो भवति
यत्किञ्चिद्।आरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद् इत्याचार्याः
यथा छिद्रं तथा विनाशं अप्यासादयेद् इति कौटिल्यः
तेषां अलाभे यथा पार्ष्णिग्राह उपग्रहे वक्ष्यामः तथा भूमिं अवस्थापयेत्
इत्यभिहितसन्धिः
गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः सन्धिं अवस्थाप्य दद्यात्
इत्यनिभृतसन्धिः
समेन वा याचितः कारणं अवेक्ष्य दद्यात् प्रत्यादेया मे भूमिर्वश्या वा, अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमिविक्रयाद् वा मित्रहिरण्यलाभः कार्यसामर्थ्यकरो मे भविष्यति इति
तेन हीनः क्रेता व्याख्यातः
एवं मित्रं हिरण्यं च सजनां अजनां च गाम् ।
लभमानोऽतिसन्धत्ते शास्त्रवित् सामवायिकान्