त्वं चाहं च भूमिं लभावहे इति भूमिसन्धिः
तयोर्यः प्रत्युपस्थितार्थः सम्पन्नां भूमिं अवाप्नोति सोऽतिसन्धत्ते
तुल्ये सम्पन्नालाभे यो बलवन्तं आक्रम्य भूमिं अवाप्नोति सोऽतिसन्धत्ते
भूमिलाभं शत्रुकर्शनं प्रतापं च हि प्राप्नोति
दुर्बलाद्भूमिलाभे सत्यं सौकर्यं भवति
दुर्बल एव च भूमिलाभः, तत्सामन्तश्च मित्रं अमित्रभावं गच्छति
तुल्ये बलीयस्त्वे यः स्थितशत्रुं उत्पाट्य भूमिं अवाप्नोति सोऽतिसन्धत्ते
दुर्गावाप्तिर्हि स्वभूमिरक्षणं अमित्राटवीप्रतिषेधं च करोति
चलामित्राद्भूमिलाभे शक्यसामन्ततो विशेषः
दुर्बलसामन्ता हि क्षिप्राप्यायनयोगक्षेमा भवति
विपरीता बलवत् सामन्ता कोशदण्डावच्छेदनी च भूमिर्भवति
सम्पन्ना नित्यामित्रा मन्दगुणा वा भूमिरनित्यामित्रा इति सम्पन्ना नित्यामित्रा श्रेयसी भूमिः सम्पन्ना हि कोशदण्डौ सम्पादयति, तौ चामित्रप्रतिघातकौ इत्याचार्याः
न इति कौटिल्यः
नित्यामित्रालाभे भूयान् शत्रुलाभो भवति
नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति, अनित्यः तु शत्रुरुपकाराद् अनपकाराद् वा शाम्यति
यस्या हि भूमेर्बहुदुर्गाश्चोरगणैर्म्लेच्छाटवीभिर्वा नित्याविरहिताः प्रत्यन्ताः सा नित्यामित्रा, विपर्यये त्वनित्यामित्रा
अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी
सुखा हि प्राप्तुं पालयितुं अभिसारयितुं च भवति
विपरीता व्यवहिता
व्यवहितयोरपि दण्डधारणाऽऽत्मधारणा वा भूमिरिति आत्मधारणा श्रेयसी
सा हि स्वसमुत्थाभ्यां कोशदण्डाभ्यां धार्यते
विपरीता दण्डधारणा दण्डस्थानम्
बालिशात् प्राज्ञाद् वा भूमिलाभ इति बालिशाद्भूमिलाभः श्रेयान्
सुप्राप्याऽनुपाल्या हि भवति, अप्रत्यादेया च
विपरीता प्राज्ञाद् अनुरक्ता
पीडनीय उच्छेदनीययोरुच्छेदनीयाद् भूमिलाभः श्रेयान्
उच्छेदनीयो ह्यनपाश्रयो दुर्बलापाश्रयो वाऽभियुक्तः कोशदण्डावादायापसर्तुकामः प्रकृतिभिः त्यज्यते, न पीडनीयो दुर्गमित्रप्रतिष्टब्धः
दुर्गप्रतिष्टब्धयोरपि स्थलनदीदुर्गीयाभ्यां स्थलदुर्गीयाद् भूमिलाभः श्रेयान्
स्थालेयं हि सुरोधावमर्दावस्कन्दं अनिह्श्राविशत्रु च
नदीदुर्गं तु द्विगुणक्लेशकरं, उदकं च पातव्यं वृत्तिकरं चामित्रस्य
नदीपर्वतदुर्गीयाभ्यां नदीदुर्गीयाद् ब्भूमिलाभः श्रेयान्
नदीदुर्गं हि हस्तिस्तम्भसङ्क्रमसेतुबन्धनौभिः साध्यं अनित्यगाम्भीर्यं अवस्राव्युदकं च
पार्वतं तु स्व्।आरक्षं दुरुपरोधि कृच्छ्रारोहणं, भग्ने च एकस्मिन्न सर्ववधः, शिलावृक्षप्रमोक्षश्च महाऽपकारिणाम्
निम्नस्थलयोधिभ्यो निम्नयोधिभ्यो भूमिलाभः श्रेयान्
निम्नयोधिनो ह्युपरुद्धदेशकालाः, स्थलयोधिनः तु सर्वदेशकालयोधिनः
खनकाकाशयोधिभ्यः खनकेभ्यो भूमिलाभः श्रेयान्
खनका हि खातेन शस्त्रेण च उभयथा युध्यन्ते, शस्त्रेण एवाकाशयोधिनः
एवंविध्येभ्यः पृथिवीं लभमानोऽर्थशास्त्रवित् ।
संहितेभ्यः परेभ्यश्च विशेषं अधिगच्छति