संहितप्रयाणे मित्रहिरण्यभूमिलाभानां उत्तर उत्तरो लाभः श्रेयान्
मित्रहिरण्ये हि भूमिलाभाद् भवतः, मित्रं हिरण्यलाभात्
यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति
त्वं चाहं च मित्रं लभावहे इत्येवं।आदिद्ः समसन्धिः
त्वं मित्रम् इत्येवं।आदिर्विषमसन्धिः
तयोर्विशेषलाभाद् अतिसन्धिः
समसन्धौ तु यः सम्पन्नं मित्रं मित्रकृच्छ्रे वा मित्रं अवाप्नोति सोऽतिसन्धत्ते
आपद्द् हि सौहृदस्थैर्यं उत्पादयति
मित्रकृच्छ्रेऽपि नित्यं अवश्यं अनित्यं वश्यं वा इति नित्यं अवश्यं श्रेयः, तद्द् हि अनुपकुर्वद् अपि नापकरोति इत्याचार्याः
न इति कौटिल्यः
वश्यं अनित्यं श्रेयः
यावद् उपकरोति तावन् मित्रं भवति, उपकारलक्षणं मित्रं इति
वश्ययोरपि महाभोगं अनित्यं अल्पभोगं वा नित्यं इति महाभोगं अनित्यं श्रेयः, महाभोगं अनित्यं अल्पकालेन महद्।उपकुर्वन् महान्ति व्ययस्थानानि प्रतिकरोति इत्याचार्याः ॥
न इति कौटिल्यः
नित्यं अल्पभोगं श्रेयः
महाभोगं अनित्यं उपकारभयाद् अपक्रामति, उपकृत्य वा प्रत्यादातुं ईहते
नित्यं अल्पभोगं सातत्याद् अल्पं उपकुर्वन् महता कालेन महद् उपकरोति
गुरुसमुत्थं महन् मित्रं लघुसमुत्थं अल्पं वा इति गुरुसमुत्थं महन् मित्रं प्रतापकरं भवति, यदा च उत्तिष्ठते तदा कार्यं साधयति इत्याचार्याः
न इति कौटिल्यः
लघुसमुत्थं अल्पं श्रेयः
लगुसमुत्थं अल्पं मित्रं कार्यकालं नातिपातयति दौर्बल्याच्च यथा इष्टभोग्यं भवति, न इतरत् प्रकृष्टभौमम्
विक्षिप्तसैन्यं अवश्यसैन्यं वा इति विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद् इत्याचार्याः
न इति कौटिल्यः
अवश्यसैन्यं श्रेयः
अवश्यं हि शक्यं सामादिभिर्वश्यं कर्तुं, न इतरत् कार्यव्यासक्तं प्रतिसंहर्तुम्
पुरुषभोगं हिरण्यभोगं वा मित्रं इति पुरुषभोगं मित्रं श्रेयः, प्रुषभोगं मित्रं प्रतापकरं भवति, यदा च उत्तिष्ठते तदा कार्यं साधयति इत्याचार्याः
न इति कौटिल्यः
हिरण्यभोगं मित्रं श्रेयः
नित्यो हि हिरण्येन योगः कदाचिद् दण्डेन
दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति
हिरण्यभोगं भूमिभोगं वा मित्रं इति हिरण्यभोगं गतिमत्त्वात् सर्वव्ययप्रतीकारकरम् इत्याचार्याः
न इति कौटिल्यः
मित्रहिरण्ये हि भूमिलाभाद् भवत इत्युक्तं पुरस्ताद्
तस्माद् भूमिभोगं मित्रं श्रेय इति
तुल्ये पुरुषभोगे विक्रमः क्लेशसहत्वं अनुरागः सर्वबललाभो वा मित्रकुलाद् विशेषः
तुल्ये हिरण्यभोगे प्रार्थितार्थता प्राभूत्यं अल्पप्रयसता सातत्यं च विशेषः
तत्र एतद् भवति
नित्यं वश्यं लघु।उत्थानं पितृपैतामहं महत् ।
अद्वैध्यं च इति सम्पन्नं मित्रं षड्गुणं उच्यते
ऋते यद् अर्थं प्रणयाद् रक्ष्यते यच्च रक्षति ।
पूर्व उपचितसम्बन्धं तन् मित्रं नित्यं उच्यते
सर्वचित्रमहाभोगं त्रिविधं वश्यं उच्यते ।
एकतोभोग्युभयतः सर्वतोभोगि चापरम्
आदातृ वा दात्र्ऽपि वा जीवत्यरिषु हिंसया ।
मित्रं नित्यं अवश्यं तद्दुर्गाटव्य्ऽपसारि च
अन्यतो विगृहीतं यल्लघुव्यसनं एव वा ।
सन्धत्ते च उपकाराय तन् मित्रं वश्यं अध्रुवम्
एकार्थेनाथ सम्बद्धं उपकार्यविकारि च ।
मित्रभावि भवत्येतन् मित्रं अद्वैध्यं आपदि
मित्रभावाद् ध्रुवं मित्रं शत्रुसाधारणाच्चलम् ।
न कस्यचिद् उदासीनं द्वयोरुभयभावि तत्
विजिगीषोरमित्रं यन् मित्रं अन्तर्धितां गतम् ।
उपकारेऽनिविष्टं वाऽशक्तं वाऽनुपकारि तत्
प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धं एव वा ।
अनुगृह्णाति यन् मित्रं शत्रुसाधारणं हि तत्
प्रकृष्टभौमं सन्तुष्टं बलवच्चालसं च यत् ।
उदासीनं भवत्येतद् व्यसनाद् अवमानितम्
अरेर्नेतुश्च यद् वृद्धिं दौर्बल्याद् अनुवर्तते ।
उभयस्याप्यविद्विष्टं विद्याद् उभयभावि तत्
कारणाकारणध्वस्तं कारणाकारणागतम् ।
यो मित्रं समुपेक्षेत स मृत्युं उपगूहति
क्षिप्रं अल्पो लाभश्चिरान् महान् इति वा क्षिप्रं अल्पो लाभः कार्यदेशकालसंवादकः श्रेयान् इत्याचार्याः
न इति कौटिल्यः
चिराद् अविनिपाती बीजसधर्मा महाम्ल्लाभः श्रेयान्, विपर्यये पूर्वः
एवं दृष्ट्वा ध्रुवे लाभे लाभांशे च गुण उदयम् ।
स्वार्थसिद्धिपरो यायात् संहितः सामवायिकैः