श्लोक ०७-०८

Kautilya Arthashastra by Acharya Chankya
यातव्योऽभियास्यमानः सन्धिकारणं आदातुकामो विहन्तुकामो वा सामवायिकानां अन्यतमं लाभद्वैगुण्येन पणेत
पणमानः क्षयव्ययप्रवासप्रत्यवायपर उपकारशरीराबाधांश्चास्य वर्णयेत्
प्रतिपन्नं अर्थेन योजयेत्
वैरं वा परैर्ग्राहयित्वा विसंवादयेत्
दुरारब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामः स्व्।आरब्धां वा यात्रासिद्धिं विघातयितुकामो मूले यात्रायां वा प्रहर्तुकामो यातव्यसंहितः पुनर्याचितुकामः प्रत्युत्पन्नार्थकृच्छ्रः तस्मिन्न् अविश्वस्तो वा तदात्वे लाभं अल्पं इच्छेत्, आयत्यां प्रभूतम्
मित्र उपकारं अमित्र उपघातं अर्थानुबन्धं अवेक्षमाणः पूर्व उपकारकं कारयितुकामो भूयः तदात्वे महान्तं लाभं उत्सृज्यायत्यां अल्पं इच्छेत्
दूष्यामित्राभ्यां मूलहरेण वा ज्यायसा विगृहीतं त्रातुकामः तथाविधं उपकारं कारयितुकामः सम्बन्धावेक्षी वा तदात्वे चायत्यां च लाभं न प्रतिगृह्णीयात्
कृतसन्धिरतिक्रमितुकामः परस्य प्रकृतिकर्शनं मित्रामित्रसन्धिविश्लेषणं वा कर्तुकामः पराभियोगात्शङ्कमानो लाभं अप्राप्तं अधिकं वा याचेत
तं इतरः तदात्वे चायत्यां च क्रमं अवेक्षेत
तेन पूर्वे व्याख्याताः
अरिविजिगीष्वोः तु स्वं स्वं मित्रं अनुगृह्णतोः शक्यकल्यभव्यारम्भिस्थिरकर्मानुरक्तप्रकृतिभ्यो विशेषः
शक्यारम्भी विषह्यं कर्मारभते, कल्यारम्भी निर्दोषं, भव्यारम्भी कल्याण उदयम्
स्थिरकर्मा नासमाप्य कर्म उपरमते
अनुरक्तप्रकृतिः सुसहायत्वाद् अल्पेनाप्यनुग्रहेण कार्यं साधयति
त एते कृतार्थाः सुखेन प्रभूतं च उपकुर्वन्ति
अतः प्रतिलोमा नानुग्राह्याः
तयोरेकपुरुषानुग्रहे यो मित्रं मित्रतरं वाऽनुगृह्णाति सोऽतिसन्धत्ते
मित्राद् आत्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपर उपकारान् इतरः
कृतार्थश्च शत्रुर्वैगुण्यं एति
मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाऽनुगृह्णाति सोऽतिसन्धत्ते
मित्राद् आत्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपर उपकारान् इतरः
मध्यमश्चेद् अनुगृहीतो विगुणः स्याद् अमित्रोऽतिसन्धत्ते
कृतप्रयासं हि मध्यमामित्रं अपसृतं एकार्थ उपगतं प्राप्नोति
तेन उदासीनानुग्रहो व्याख्यातः
मध्यम उदासीनयोर्बलांशदाने यः शूरं कृतास्त्रं दुःखसहं अनुरक्तं वा दण्डं ददाति सोऽतिसन्धीयते
विपरीतोऽतिसन्धत्ते
यत्र तु दण्डः प्रहितः तं वा चार्थं अन्यांश्च साधयति तत्र मौलभृतश्रेणीमित्राटवीबलानां अन्यतमं उपलब्धदेशकालं दण्डं दद्यात्, अमित्राटवीबलं वा व्यवहितदेशकालम्
यं तु मन्येत कृतार्थो मे दण्डं गृह्णीयाद्, अमित्राटव्य्ऽभूम्य्ऽनृतुषु वा वासयेद्, अफलं वा कुर्याद् इति, दण्डव्यासङ्गापदेशेन न एनं अनुगृह्णीयात्
एवं अवश्यं त्वनुग्रहीतव्ये तत्कालसहं अस्मै दण्डं दद्यात्
आसमाप्तेश्च एनं वासयेद् योधयेच्च बलव्यसनेभ्यश्च रक्षेत्
कृतार्थाच्च सापदेशं अपस्रावयेत्
दूष्यामित्राटवीदण्डं वाऽस्मै दद्यात्
यातव्येन वा सन्धाय एनं अतिसन्दध्यात्
समे हि लाभे सन्धिः स्याद् विषमे विक्रमो मतः
समहीनविशिष्टानां इत्युक्ताः सन्धिविक्रमाः