विजिगीषुर्द्वितीयां प्रकृतिं एवं उपगृह्णीयात्
सामन्तं सामन्तेन सम्भूय यायात्, यदि वा मन्येत पार्ष्णिं मे न ग्रहीष्यति, पार्ष्णिग्राहं वारयिष्यति, यातव्यं नाभिसरिष्यति, बलद्वैगुण्यं मे भविष्यति, वीवधासारौ मे प्रवर्तयिष्यति, परस्य वारयिष्यति, बह्व्।आबाधे मे पथि कण्टकान् मर्दयिष्यति, दुर्गाटव्य्ऽपसारेषु दण्डेन चरिष्यति, यातव्यं अविषह्ये दोषे सन्धौ वा
स्थापयिष्यति, लब्धलाभांशो वा शत्रून् अन्यान् मे विश्वासयिष्यति इति
द्वैधीभूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानां अन्यतमाल्लिप्सेत
तेषां ज्यायसोऽधिकेनांशेन समात् समेन हीनाद्द् हीनेन इति समसन्धिः
विपर्यये विषमसन्धिः
तयोर्विशेषलाभाद् अतिसन्धिः
व्यसनिनं अपायस्थाने सक्तं अनर्थिनं वा ज्यायांसं हीनो बलसमेन लाभेन पणेत
पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
एवम्भूतो वा हीनशक्तिप्रतापपूरणार्थं सम्भाव्यार्थाभिसारी मूलपार्ष्णित्राणार्थं वा ज्यायांसं हीनो बलसमाद् विशिष्टेन लाभेन पणेत
पणितः कल्याणबुद्धिं अनुगृह्णीयात्, अन्यथा विक्रमेत
जातव्यसनप्रकृतिरन्ध्रं उपस्थितानर्थं वा ज्यायांसं हीनो दुर्गमित्रप्रतिष्टब्धो वा ह्रस्वं अध्वानं यातुकामः शत्रुं अयुद्धं एकान्तसिद्धिं वा लाभं आदातुकामो बलसमाद्द् हीनेन लाभेन पणेत

अरन्ध्रव्यसनो वा ज्यायान् दुर्।आरब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामो दूष्यदण्डं प्रवासयितुकामो दूष्यदण्डं आवाहयितुकामो वा पीडनीयं उच्छेदनीयं वा हीनेन व्यथयितुकामः सन्धिप्रधानो वा कल्याणबुद्धिर्हीनं लाभं प्रतिगृह्णीयात्
कल्याणबुद्धिना सम्भूयार्थं लिप्सेत, अन्यथा विक्रमेत
एवं समः समं अतिसन्दध्याद् अनुगृह्णीयाद् वा
परानीकस्य प्रत्यनीकं मित्राटवीनां वा, शत्रोर्विभूमीनां देशिकं मूलपार्ष्णित्राणार्थं वा समो बलसमेन लाभेन पणेत

जातव्यसनप्रकृतिरन्ध्रं अनेकविरुद्धं अन्यतो लभमानो वा समो बलसमाद्द् हीनेन लाभेन पणेत

एवम्भूतो वा समः सामन्तायत्तकार्यः कर्तव्यबलो वा बलसमाद् विशिष्टेन लाभेन पणेत
पणितः कल्याणबुद्धिं अनुगृह्णीयात् अन्यथा विक्रमेत
जातव्यसनप्रकृतिरन्ध्रं अभिहन्तुकामः स्व्।आरब्धं एकान्तसिद्धिं वाऽस्य कर्म उपहन्तुकामो मूले यात्रायां वा प्रहर्तुकामो यातव्याद्भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत
भूयो वा याचितः स्वबलरक्षाऽर्थं दुर्धर्षं अन्यदुर्गं आसारं अटवीं वा परदण्डेन मर्दितुकामः प्रकृष्टेऽध्वनि काले वा परदण्डं क्षयव्ययाभ्यां योक्तुकामः परदण्डेन वा विवृद्धः तं एव उच्छेत्तुकामः परदण्डं आदातुकामो वा भूयो दद्यात्
ज्यायान् वा हीनं यातव्यापदेशेन हस्ते कर्तुकामः परं उच्छिद्य वा तं एव उच्छेत्तुकामः, त्यागं वा कृत्वा प्रत्यादातुकामो बलसमाद् विशिष्टेन लाभेन पणेत

यातव्यसंहितो वा तिष्ठेत्, दूष्यामित्राटवीदण्डं वाऽस्मै दद्यात्
जातव्यसनप्रकृतिरन्ध्रो वा ज्यायान् हीनं बलसमेन लाभेन पणेत

एवम्भूतं हीनं ज्यायान् बलसमाद्द् हीनेन लाभेन पणेत

आदौ बुध्येत पणितः पणमानश्च कारणम्
ततो वितर्क्य उभयतो यतः श्रेयश्ततो व्रजेत्