श्लोक ०७-०६

Kautilya Arthashastra by Acharya Chankya
विजिगीषुर्द्वितीयां प्रकृतिं एवं अतिसन्दध्यात्
सामन्तं संहितप्रयाणे योजयेत् त्वं इतो याहि, अहं इतो यास्यामि, समानो लाभः इति
लाभसाम्ये सन्धिः, वैषम्ये विक्रमः
सन्धिः परिपणितश्चापरिपणितश्च
त्वं एतं देशं याहि, अहं इमं देशं यास्यामि इति परिपणितदेशः
त्वं एतावन्तं कालं चेष्टस्व, अहं एतावन्तं कालं चेष्टिष्ये इति परिपणितकालः
त्वं एतावत्कार्यं साधय, अहं इदं कार्यं साधयिष्यामि इति परिपणितार्थः
यदि वा मन्येत शैलवननदीदुर्गं अटवीव्यवहितं छिन्नधान्यपुरुषवीवधासारं अयवस इन्धन उदकं अविज्ञातं प्रकृष्टं अन्यभावदेशीयं वा सैन्यव्यायामानां अलब्धभौमं वा देशं परो यास्यति, विपरीतं अहम् इत्येतस्मिन् विशेषे परिपणितदेशं सन्धिं उपेयात्
यदि वा मन्येत प्रवर्ष उष्णशीतं अतिव्याधिप्रायं उपक्षीणाहार उपभोगं सैन्यव्यायामानां चाउपरोधिकं कार्यसाधनानां ऊनं अतिरिक्तं वा कालं परश्चेष्टिष्यते, विपरीतं अहम् इत्येतस्मिन् विशेषे परिपणितकालं सन्धिं उपेयात्
यदि वा मन्येत प्रत्यादेयं प्रकृतिकोपकं दीर्घकालं महाक्षयव्ययं अल्पं अनर्थानुबन्धं अकल्यं अधर्म्यं मध्यम उदासीनविरुद्धं मित्र उपघातकं वा कार्यं परः साधयिष्यति, विपरीतं अहम् इत्येतस्मिन् विशेषे परिपणितार्थं सन्धिं उपेयात्
एवं देशकालयोः कालकार्ययोर्देशकार्ययोर्देशकालकार्याणां चावस्थापनात् सप्तविधः परिपणितः
तस्मिन् प्राग् एवारभ्य प्रतिष्ठाप्य च स्वकर्माणि परकर्मसु विक्रमेत
व्यसनत्वरावमानालस्ययुक्तं अज्ञं वा शत्रुं अतिसन्धातुकामो देशकालकार्याणां अनवस्थापनात् संहितौ स्वः इति सन्धिविश्वासेन परच्छिद्रं आसाद्य प्रहरेद् इत्यपरिपणितः
तत्र एतद् भवति
सामन्तेन एव सामन्तं विद्वान् आयोज्य विग्रहे ।
ततोऽन्यस्य हरेद् भूमिं छित्त्वा पक्षं समन्ततः
सन्धेरकृतचिकीर्षा कृतश्लेषणं कृतविदूषणं अवशीर्णक्रिया च
विक्रमस्य प्रकाशयुद्धं कूटयुद्धं तूष्णींयुद्धम्
इति सन्धिविक्रमौ
अपूर्वस्य सन्धेः सानुबन्धैः सामादिभिः पर्येषणं समहीनज्यायसां च यथाबलं अवस्थापनं अकृतचिकीर्षा
कृतस्य प्रियहिताभ्यां उभयतः परिपालनं यथासम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च कथं परस्मान्न भिद्येत इति कृतश्लेषणम्
परस्यापसन्धेयतां दूष्यातिसन्धानेन स्थापयित्वा व्यतिक्रमः कृतविदूषणम्
भृत्येन मित्रेण वा दोषापसृतेन प्रतिसन्धानं अवशीर्णक्रिया
तस्यां गतागतश्चतुर्विधः - कारणाद् गतागतो, विपरीतः, कारणाद् गतोऽकारणाद् आगतो, विपरीतश्च इति
स्वामिनो दोषेण गतो गुणेनागतः परस्य गुणेन गतो दोषेणागत इति कारणाद् गतागतः सन्धेयः
स्वदोषेण गतागतो गुणं उभयोः परित्यज्य अकारणाद् गतागतः चलबुद्धिरसन्धेयः
स्वामिनो दोषेण गतः परस्मात् स्वदोषेणागत इति कारणाद् गतोऽकारणाद् आगतः तर्कयितव्यः परप्रयुक्तः स्वेन वा दोषेणापकर्तुकामः, परस्य उच्छेत्तारं अमित्रं मे ज्ञात्वा प्रतिघातभयाद् आगतः, परं वा मां उच्छेत्तुकामं परित्यज्यानृशंस्याद् आगतः इति
ज्ञात्वा कल्याणबुद्धिं पूजयेद्, अन्यथाबुद्धिं अपकृष्टं वासयेत्
स्वदोषेण गतः परदोषेणागत इत्यकारणाद् गतः कारणाद् आगतः तर्कयितव्यः छिद्रं मे पूरयिष्यति, उचितोऽयं अस्य वासः, परत्रास्य जनो न रमते, मित्रैर्मे संहितः, शत्रुभिर्विगृहीतः, लुब्धक्रूराद् आविग्नः शत्रुसंहिताद् वा परस्मात् इति
ज्ञात्वा यथाबुद्ध्यवस्थापयितव्यः
कृतप्रणाशः शक्तिहानिर्विद्यापण्यत्वं आशानिर्वेदो देशलौल्यं अविश्वासो बलवद्विग्रहो वा परित्यागस्थानम् इत्याचार्याः
भयं अवृत्तिरमर्ष इति कौटिल्यः
इहापकारी त्याज्यः, परापकारी सन्धेयः, उभयापकारी तर्कयितव्य इति समानम्
असन्धेयेन त्ववश्यं सन्धातव्ये यतः प्रभावः ततः प्रतिविदध्यात्
स उपकारं व्यवहितं गुप्तं आयुःक्षयाद् इति ।
वासयेद् अरिपक्षीयं अवशीर्णक्रियाविधौ
विक्रमयेद् भर्तरि वा सिद्धं वा दण्डचारिणम्
कुर्याद् अमित्राटवीषु प्रत्यन्ते वाऽन्यतः क्षिपेत्
पण्यं कुर्याद् असिद्धं वा सिद्धं वा तेन संवृतम्
तस्य एव दोषेणादूष्य परसन्धेयकारणात्
अथ वा शमयेद् एनं आयत्य्ऽर्थं उपांशुना
आयत्यां च वधप्रेप्सुं दृष्ट्वा हन्याद् गतागतम्
अरितोऽभ्यागतो दोषः शत्रुसंवासकारितः
सर्पसंवासधर्मित्वान्नित्य उद्वेगेन दूषितः
जायते प्लक्षबीजाशात् कपोताद् इव शाल्मलेः
उद्वेगजननो नित्यं पश्चाद् अपि भयावहः
प्रकाशयुद्धं निर्दिष्टे देशे काले च विक्रमः
विभीषणं अवस्कन्दः प्रमादव्यसनार्दनम्
एकत्र त्यागघातौ च कूटयुद्धस्य मातृका
योगगूढ उपजापार्थं तूष्णींयुद्धस्य लक्षणम्