श्लोक ०७-०५

Kautilya Arthashastra by Acharya Chankya
तुल्यसामन्तव्यसने यातव्यं अमित्रं वा इत्यमित्रं अभियायात्, तत्सिद्धौ यातव्यम्
अमित्रसिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्यसिद्धौ
गुरुव्यसनं यातव्यं लघुव्यसनं अमित्रं वा इति गुरुव्यसनं सौकर्यतो यायाद् इत्याचार्याः
न इति कौटिल्यः
लघुव्यसनं अमित्रं यायात्
लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति
सत्यं गुर्वपि गुरुतरं भवति
अनभियुक्तः तु लघुव्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत्, पार्ष्णिं वा गृह्णीयात्
यातव्ययौगपद्ये गुरुव्यसनं न्यायवृत्तिं लघुव्यसनं अन्यायवृत्तिं विरक्तप्रकृतिं वा इति विरक्तप्रकृतिं यायात्
गुरुव्यसनं न्यायवृत्तिं अभियुक्तं प्रकृतयोऽनुगृह्णन्ति, लघुव्यसनं अन्यायवृत्तिं उपेक्षन्ते, विरक्ता बलवन्तं अप्युच्छिन्दन्ति
तस्माद् विरक्तप्रकृतिं एव यायात्
क्षीणलुब्धप्रकृतिं अपचरितप्रकृतिं वा इति क्षीणलुब्धप्रकृतिं यायात्, क्षीणलुब्धा हि प्रकृतयः सुखेन उपजापं पीडां वा उपगच्छन्ति, नापचरिताः प्रधानावग्रहसाध्याः इत्याचार्याः
न इति कौटिल्यः
क्षीणलुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृहिते तिष्ठन्ति, उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यं इति
तस्माद् अपचरितप्रकृतिं एव यायात्
बलवन्तं अन्यायवृत्तिं दुर्बलं वा न्यायवृत्तिं इति बलवन्तं अन्यायवृत्तिं यायात्
बलवन्तं अन्यायवृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति, निष्पातयन्ति, अमित्रं वाऽस्य भजन्ते
दुर्बलं तु न्यायवृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा
अवक्षेपेण हि सतां असतां प्रग्रहेण च ।
अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः
उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः ।
अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च
अकार्याणां च करणैः कार्याणां च प्रणाशनैः ।
अप्रदानैश्च देयानां अदेयानां च साधनैः
अदण्डनैश्च दण्ड्यानां अदण्ड्यानां च दण्डनैः ।
अग्राह्याणां उपग्राहैर्ग्राह्याणां चानभिग्रहैः
अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः ।
अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः
पातैः पुरुषकाराणां कर्मणां गुणदूषणैः ।
उपघातैः प्रधानानां मान्यानां चावमाननैः
विरोधनैश्च वृद्धानां वैषम्येणानृतेन च ।
कृतस्याप्रतिकारेण स्थितस्याकरणेन च
राज्ञः प्रमादालस्याभ्यां योगक्षेमवधेन वा ।
प्रकृतीनां क्षयो लोभो वैराग्यं च उपजायते
क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् ।
विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम्
तस्मात् प्रकृतीनां क्षयलोभविरागकारणानि न उत्पादयेत्, उत्पन्नानि वा सद्यः प्रतिकुर्वीत
क्षीणा लुब्धा विरक्ता वा प्रकृतय इति
क्षीणाः पीडन उच्छेदनभयात् सद्यः सन्धिं युद्धं निष्पतनं वा रोचयन्ते
लुब्धा लोभेनासन्तुष्टाः पर उपजापं लिप्सन्ते
विरक्ताः पराभियोगं अभ्युत्तिष्ठन्ते
तासां हिरण्यधान्यक्षयः सर्व उपघाती कृच्छ्रप्रतीकारश्च, युग्यपुरुषक्षयो हिरण्यधान्यसाध्यः
लोभ ऐकदेशिको मुख्यायत्तः परार्थेषु शक्यः प्रतिहन्तुं आदातुं वा
विरागः प्रधानावग्रहसाध्यः
निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषां, अनापत्सहाः तु
प्रकृतिमुख्यप्रग्रहैः तु बहुधा भिन्ना गुप्ता भवन्त्यापत्सहाश्च
सामवायिकानां अपि सन्धिविग्रहकारणान्यवेक्ष्य शक्तिशौचयुक्तैः सम्भूय यायात्
शक्तिमान् हि पार्ष्णिग्रहणे यात्रासाहाय्यदाने वा शक्तः, शुचिः सिद्धौ चासिद्धौ च यथास्थितकारी इति
तेषां ज्यायसा एकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः
ज्यायसा ह्यवगृहीतश्चरति, समाभ्यां अतिसन्धानाधिक्ये वा
तौ हि सुखौ भेदयितुं, दुष्टश्च एको द्वाभ्यां नियन्तुं भेद उपग्रहं च उपगन्तुं इति
समेन एकेन द्वाभ्यां हीनाभ्यां वा इति द्वाभ्यां हीनाभ्यां श्रेयः
तौ हि द्विकार्यसाधकौ वश्यौ च भवतः
कार्यसिद्धौ तु - कृतार्थाज् ज्यायसो गूढः सापदेशं अपस्रवेत् ।
अशुचेः शुचिवृत्तात् तु प्रतीक्षेता विसर्जनात्
सत्त्राद् अपसरेद् यत्तः कलत्रं अपनीय वा ।
समाद् अपि हि लब्धार्थाद् विश्वः तस्य भयं भवेत्
ज्यायस्त्वे चापि लब्धार्थः समोऽपि परिकल्पते ।
अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्तविकारिणी
विशिष्टाद् अल्पं अप्यंशं लब्ध्वा तुष्टमुखो व्रजेत् ।
अनंशो वा ततोऽस्याङ्के प्रहृत्य द्विगुणं हरेत्
कृतार्थः तु स्वयं नेता विसृजेत् सामवायिकान् ।
अपि जीयेत न जयेन् मण्डल इष्टः तथा भवेत्