सन्धिविग्रहयोरासनं यानं च व्याख्यातम्
स्थानं आसनं उपेक्षणं च इत्यासनपर्यायाः
विशेषः तु - गुण एकदेशे स्थानं, स्ववृद्धिप्राप्त्य्ऽर्थं आसनं, उपायानां अप्रयोग उपेक्षणम्
अतिसन्धानकामयोररिविजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यासनं सन्धाय वा
यदा वा पश्येत् स्वदण्डैर्मित्राटवीदण्डैर्वा समं ज्यायांसं वा कर्शयितुं उत्सहे इति तदा कृतबाह्याभ्यन्तरकृत्यो विगृह्यासीत
यदा वा पश्येत् उत्साहयुक्ता मे प्रकृतयः संहता विवृद्धाः स्वकर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति इति तदा विगृह्यासीत
यदा वा पश्येत् परस्यापचरिताः क्षीणा लुब्धाः स्वचक्रस्तेनाटवीव्यथिता वा प्रकृतयः स्वयं उपजापेन वा मां एष्यन्ति, सम्पन्ना मे वार्त्ता, विपन्ना परस्य, तस्य प्रकृतयो दुर्भिक्ष उपहता मां एष्यन्ति; विपन्ना मे वार्त्ता, सम्पन्ना परस्य, -
तं मे प्रकृतयो न गमिष्यन्ति, विगृह्य चास्य धान्यपशुहिरण्यान्याहरिष्यामि, स्वपण्य उपघातीनि वा परपण्यानि निवर्तयिष्यामि, -
परवणिक्पथाद् वा सरवन्ति मां एष्यन्ति विगृहीते, न इतरं, दूष्यामित्राटवीनिग्रहं वा विगृहीतो न करिष्यति, तैरेव वा विग्रहं प्राप्स्यति, -
मित्रं मे मित्रभाव्यभिप्रयातो बह्व्ऽल्पकालं तनुक्षयव्ययं अर्थं प्राप्स्यति, गुणवतीं आदेयां वा भूमिं, -
सर्वसन्दोहेन वा मां अनादृत्य प्रयातुकामः कथं न यायाद् इति परवृद्धिप्रतिघातार्थं प्रतापार्थं च विगृह्यासीत
तं एव हि प्रत्यावृत्तो ग्रसते इत्याचार्याः
न इति कौटिल्यः
कर्शनमात्रं अस्य कुर्याद् अव्यसनिनः, परवृद्ध्या तु वृद्धः समुच्छेदनम्
एवं परस्य यातव्योऽस्मै साहाय्यं अविनष्टः प्रयच्छेत्
तस्मात् सर्वसन्दोहप्रकृतं विगृह्यासीत
विगृह्यासनहेतुप्रातिलोम्ये सन्धायासीत
विगृह्यासनहेतुभिरभ्युच्चितः सर्वसन्दोहवर्जं विगृह्य यायात्
यदा वा पश्येत् व्यसनी परः, प्रकृतिव्यसनं वाऽस्य शीषप्रकृतिभिरप्रतिकार्यं, स्वचक्रपीडिता विरक्ता वाऽस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद् वा भिन्नाः शक्या लोभयितुं, अग्न्य्।उदकव्याधिमरकदुर्भिक्षनिमित्तं क्षीणयुग्यपुरुषनिचयरक्षाविधानः परः इति तदा विगृह्य यायात्
यदा वा पश्येत् मित्रं आक्रन्दश्च मे शूरवृद्धानुरक्तप्रकृतिः, विपरीतप्रकृतिः परः पार्ष्णिग्राहश्चासारश्च, शक्ष्यामि मित्रेणासारं आक्रन्देन पार्ष्णिग्राहं वा विगृह्य यातुम् इति तदा विगृह्य यायात्
यदा वा फलं एकहार्यं अल्पकालं पश्येत् तदा पार्ष्णिग्राहासाराभ्यां विगृह्य यायात्
विपर्यये सन्धाय यायात्
यदा वा पश्येत् न शक्यं एकेन यातुं अवश्यं च यातव्यम् इति तदा समहीनज्यायोभिः सामवायिकैः सम्भूय यायाद्, एकत्र निर्दिष्टेनांशेन, अनेकत्रानिर्दिष्टेनांशेन
तेषां असमवाये दण्डं अन्यतमस्मान्निविष्टांशेन याचेत
सम्भूयाभिगमनेन वा निर्विश्येत, ध्रुवे लाभे निर्दिष्टेनांशेन, अध्रुवे लाभांशेन
अंशो दण्डसमः पूर्वः प्रयाससम उत्तमः ।
विलोपो वा यथालाभं प्रक्षेपसम एव वा