विजिगीषुः शक्त्य्ऽपेक्षः षाड्गुण्यं उपयुञ्जीत
समज्यायोभ्यां सन्धीयेत, हीनेन विगृह्णीयात्
विगृहीतो हि ज्यायसा हस्तिना पादयुद्धं इवाभ्युपैति
समेन चामं पात्रं आमेनाहतं इव उभयतः क्षयं करोति
कुम्भेन इवाश्मा हीनेन एकान्तसिद्धिं अवाप्नोति
ज्यायांश्चेन्न सन्धिं इच्छेद् दण्ड उपनतवृत्तं आबलीयसं वा योगं आतिष्ठेत्
समश्चेन्न सन्धिं इच्छेद् यावन्मात्रं अपकुर्यात् तावन्मात्रं अस्य प्रत्यपकुर्यात्
तेजो हि सन्धानकारणम्
नातप्तं लोहं लोहेन सन्धत्त इति
हीनश्चेत् सर्वत्रानुप्रणतः तिष्ठेत् सन्धिं उपेयात्
आरण्योऽग्निरिव हि दुःखामर्षजं तेजो विक्रमयति
मण्डलस्य चानुग्राह्यो भवति
संहितश्चेत् परप्रकृतयो लुब्धक्षीणापचरिताः प्रत्यादानभयाद् वा न उपगच्छन्ति इति पश्येद्द् हीनोऽपि विगृह्णीयात्
विगृहीतश्चेत् परप्रकृतयो लुब्धक्षीणापचरिता विग्रह उद्विग्ना वा मां न उपगच्छन्ति इति पश्येज् ज्यायान् अपि सन्धीयेत, विग्रह उद्वेगं वा शमयेत्
व्यसनयौगपद्येऽपि गुरुव्यसनोऽस्मि, लघुव्यसनः परः सुखेन प्रतिकृत्य व्यसनं आत्मनोऽभियुञ्ज्याद् इति पश्येज् ज्यायान् अपि सन्धीयेत
सन्धिविग्रहयोश्चेत् परकर्शनं आत्म उपचयं वा नाभिपश्येज् ज्यायान् अप्यासीत
परव्यसनं अप्रतिकार्यं चेत् पश्येद्द् हीनोऽप्यभियायात्
अप्रतिकार्यासन्नव्यसनो वा ज्यायान् अपि संश्रयेत
सन्धिना एकतो विग्रहेण एकतश्चेत् कार्यसिद्धिं पश्येज् ज्यायान् अपि द्वैधीभूतः तिष्ठेत्
एवं समस्य षाड्गुण्य उपयोगः
तत्र तु प्रतिविशेषः
प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलवताऽबलः ।
सन्धिना उपनमेत् तूर्णं कोशदण्डात्मभूमिभिः
स्वयं सङ्ख्यातदण्डेन दण्डस्य विभवेन वा ।
उपस्थातव्यं इत्येष सन्धिरात्मामिषो मतः
सेनापतिकुमाराभ्यां उपस्थातव्यं इत्ययम् ।
पुरुषान्तरसन्धिः स्यान्नात्मना इत्यात्मरक्षणः
एकेनान्यत्र यातव्यं स्वयं दण्डेन वा इत्ययम् ।
अदृष्टपुरुषः सन्धिर्दण्डमुख्यात्मरक्षणः
मुख्यस्त्रीबन्धनं कुर्यात् पूर्वयोः पश्चिमे त्वरिम् ।
साधयेद् गूढं इत्येते दण्ड उपनतसन्धयः
कोशदानेन शेषाणां प्रकृतीनां विमोक्षणम् ।
परिक्रयो भवेत् सन्धिः स एव च यथासुखम्
स्कन्ध उपनेयो बहुधा ज्ञेयः सन्धिरुपग्रहः ।
निरुद्धो देशकालाभ्यां अत्ययः स्याद् उपग्रहः
विषह्यदानाद् आयत्यां क्षमः स्त्रीबन्धनाद् अपि ।
सुवर्णसन्धिर्विश्वासाद् एकीभावगतो भवेत्
विपरीतः कपालः स्याद् अत्यादानाभिभाषितः ।
पूर्वयोः प्रणयेत् कुप्यं हस्त्य्ऽश्वं वा गरान्वितम्
तृतीये प्रणयेद् अर्थं कथयन् कर्मणां क्षयम् ।
तिष्ठेच्चतुर्थ इत्येते कोश उपनतसन्धयः
भूम्य्।एकदेशत्यागेन शेषप्रकृतिरक्षणम् ।
आदिष्टसन्धिः तत्र इष्टो गूढस्तेन उपघातिनः
भूमीनां आत्तसाराणां मूलवर्जं प्रणामनम् ।
उच्छिन्नसन्धिः तत्र इष्टः परव्यसनकाङ्क्षिणः
फलदानेन भूमीनां मोक्षणं स्याद् अवक्रयः ।
फलातिमुक्तो भूमिभ्यः सन्धिः स परिदूषणः
कुर्याद् अवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसम् ।
आदाय फलं इत्येते देश उपनतसन्धयः
स्वकार्याणां वशेन एते देशे काले च भाषिताः ।
आबलीयसिकाः कार्याः त्रिविधा हीनसन्धयः