सन्धिविग्रहयोः तुल्यायां वृद्धौ सन्धिं उपेयात्
विग्रहे हि क्षयव्ययप्रवासप्रत्यवाया भवन्ति
तेनासनयानयोरासनं व्याख्यातम्
द्वैधीभावसंश्रययोर्द्वैधीभावं गच्छेत्
द्वैधीभूतो हि स्वकर्मप्रधान आत्मन एव उपकरोति, संश्रितः तु परस्य उपकरोति, नात्मनः
यद्बलः सामन्तः तद्विशिष्टबलं आश्रयेत्
तद्विशिष्टबलाभावे तं एवाश्रितः कोशदण्डभूमीनां अन्यतमेनास्य उपकर्तुं अदृष्टः प्रयतेत
महादोषो हि विशिष्टबलसमागमो राज्ञां, अन्यत्रारिविगृहीतात्
अशक्ये दण्ड उपनतवद् वर्तेत
यदा चास्य प्राणहरं व्याधिं अन्तःकोपं शत्रुवृद्धिं मित्रव्यसनं उपस्थितं वा तन्निमित्तां आत्मनश्च वृद्धिं पश्येत् तदा सम्भाव्यव्याधिधर्मकार्यापदेशेनापयायात्
स्वविषयस्थो वा न उपगच्छेत्
आसन्नो वाऽस्य च्छिद्रेषु प्रहरेत्
बलीयसोर्वा मध्यगतः त्राणसमर्थं आश्रयेत, यस्य वाऽन्तर्धिः स्यात्, उभौ वा
कपालसंश्रयः तिष्ठेत्, मूलहरं इतरस्य इतरं अपदिशन्
भेदं उभयोर्वा परस्परापदेशं प्रयुञ्जीत, भिन्नयोरुपांशुदण्डम्
पार्श्वस्थो वा बलस्थयोरासन्नभयात् प्रतिकुर्वीत
दुर्गापाश्रयो वा द्वैधीभूतः तिष्ठेत्
सन्धिविग्रहक्रमहेतुभिर्वा चेष्टेत
दूष्यामित्राटविकान् उभयोरुपगृह्णीयात्
एतयोरन्यतरं गच्छंः तैरेवान्यतरस्य व्यसने प्रहरेत्
द्वाभ्यां उपहतो वा मण्डलापाश्रयः तिष्ठेत्, मध्यमं उदासीनं वा संश्रयेत
तेन सह एकं उपगृह्य इतरं उच्छिन्द्याद्, उभौ वा
द्वाभ्यां उच्छिन्नो वा मध्यम उदासीनयोः तत्पक्षीयाणां वा राज्ञां न्यायवृत्तिं आश्रयेत
तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनं, यत्रस्थो वा शक्नुयाद् आत्मानं उद्धर्तुं, यत्र वा पूर्वपुरुष उचिता गतिरासन्नः सम्बन्धो वा, मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः
प्रियो यस्य भवेद् यो वा प्रियोऽस्य कतरः तयोः ।
प्रियो यस्य स तं गच्छेद् इत्याश्रयगतिः परा