श्लोक ०७-०१

Kautilya Arthashastra by Acharya Chankya
षाड्गुण्यस्य प्रकृतिमण्डलं योनिः
सन्धिविग्रहासनयानसंश्रयद्वैधीभावाः षाड्गुण्यम् इत्याचार्याः
द्वैगुण्यम् इति वातव्याधिः
सन्धिविग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते इति
षाड्गुण्यं एव एतद् अवस्थाभेदाद् इति कौटिल्यः
तत्र पणबन्धः सन्धिः
अपकारो विग्रहः
उपेक्षणं आसनम्
अभ्युच्चयो यानम्
परार्पणं संश्रयः
सन्धिविग्रह उपादानं द्वैधीभावः
इति षड्गुणाः
परस्माद्द् हीयमानः सन्दधीत
अभ्युच्चीयमानो विगृह्णीयात्
न मां परो नाहं परं उपहन्तुं शक्तः इत्यासीत
गुणातिशययुक्तो यायात्
शक्तिहीनः संश्रयेत
सहायसाध्ये कार्ये द्वैधीभावं गच्छेत्
इति गुणावस्थापनम्
तेषां यस्मिन् वा गुणे स्थितः पश्येत् इहस्थः शक्ष्यामि दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्माण्यात्मनः प्रवर्तयितुं, परस्य च एतानि कर्माण्युपहन्तुम् इति तं आतिष्ठेत्
सा वृद्धिः
आशुतरा मे वृद्धिर्भूयस्तरा वृद्ध्य्।उदयतरा वा भविष्यति, विपरीता परस्य इति ज्ञात्वा परवृद्धिं उपेक्षेत
तुल्यकालफल उदयायां वा वृद्धौ सन्धिं उपेयात्
यस्मिन् वा गुणे स्थितः स्वकर्मणां उपघातं पश्येन्न इतरस्य तस्मिन्न तिष्ठेत्
एष क्षयः
चिरतरेणाल्पतरं वृद्ध्य्।उदयतरं वा क्षेष्ये, विपरीतं परः इति ज्ञात्वा क्षयं उपेक्षेत
तुल्यकालफल उदये वा क्षये सन्धिं उपेयात्
यस्मिन् वा गुणे स्थितः स्वकर्मवृद्धिं क्षयं वा नाभिपश्येद् एतत्स्थानम्
ह्रस्वतरं वृद्ध्य्।उदयतरं वा स्थास्यामि, विपरीतं परः इति ज्ञात्वा स्थानं उपेक्षेत
तुल्यकालफल उदये वा स्थाने सन्धिं उपेयाद् इत्याचार्याः
न एतद् विभाषितं इति कौटिल्यः
यदि वा पश्येत् सन्धौ स्थितो महाफलैः स्वकर्मभिः परकर्माण्युपहनिष्यामि, महाफलानि वा स्वकर्माण्युपभोक्ष्ये, परकर्माणि वा, सन्धिविश्वासेन वा योग उपनिषत्प्रणिधिभिः परकर्माण्युपहनिष्यामि, सुखं वा सानुग्रहपरिहारसौकर्यं फललाभभूयस्त्वेन स्वकर्मणां परकर्मयोगावहं जनं आस्रावयिष्यामि -
बलिनाऽतिमात्रेण वा संहितः परः स्वकर्म उपघातं प्राप्स्यति, येन वा विगृहीतो मयासन्धत्ते तेनास्य विग्रहं दीर्घं करिष्यामि, मया वा संहितस्य मद्द्वेषिणो जनपदं पीडयिष्यति -
पर उपहतो वाऽस्य जनपदो मां आगमिष्यति, ततः कर्मसु वृद्धिं प्राप्स्यामि, विपन्नकर्मारम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत -
परतः प्रवृत्तकर्मारम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रुप्रतिबद्धं वा शत्रुणा सन्धिं कृत्वा मण्डलं भेत्स्यामि -
भिन्नं अवाप्स्यामि, दण्डानुग्रहेण वा शत्रुं उपगृह्य मण्डललिप्सायां विद्वेषं ग्राहयिष्यामि, विद्विष्टं तेन एव घातयिष्यामि इति सन्धिना वृद्धिं आतिष्ठेत्
यदि वा पश्येत् आयुधीयप्रायः श्रेणीप्रायो वा मे जनपदः शैलवननदीदुर्ग एकद्वारारक्षो वा शक्ष्यति पराभियोगं प्रतिहन्तुं, विषयान्ते दुर्गं अविषह्यं अपाश्रितो वा शक्ष्यामि परकर्माण्युपहन्तुं -
व्यसनपीड उपहत उत्साहो वा परः सम्प्राप्तकर्म उपघातकालः, विगृहीतस्यान्यतो वा शक्ष्यामि जनपदं अपवाहयितुम् इति विग्रहे स्थितो वृद्धिं आतिष्ठेत्
यदि वा मन्येत न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्म उपघाती वा, व्यसनं अस्य, श्ववराहयोरिव कलहे वा, स्वकर्मानुष्ठानपरो वा वर्धिष्ये इत्यासनेन वृद्धिं आतिष्ठेत्
यदि वा मन्येत यानसाध्यः कर्म उपघातः शत्रोः, प्रतिविहितस्वकर्मारक्षश्चास्मि इति यानेन वृद्धिं आतिष्ठेत्
यदि वा मन्येत नास्मि शक्तः परकर्माण्युपहन्तुं, स्वकर्म उपघातं वा त्रातुम् इति, बलवन्तं आश्रितः स्वकर्मानुष्ठानेन क्षयात् स्थानं स्थानाद् वृद्धिं चाकाङ्क्षेत
यदि वा मन्येत सन्धिना एकतः स्वकर्माणि प्रवर्तयिष्यामि, विग्रहेण एकतः परकर्माण्युपहनिष्यामि इति द्वैधीभावेन वृद्धिं आतिष्ठेत्
एवं षड्भिर्गुणैरेतैः स्थितः प्रकृतिमण्डले ।
पर्येषेत क्षयात् स्थानं स्थानाद् वृद्धिं च कर्मसु