शमव्यायामौ योगक्षेमयोर्योनिः
कर्मारम्भाणां योगाराधनो व्यायामः
कर्मफल उपभोगानां क्षेमाराधनः शमः
शमव्यायामयोर्योनिः षाड्गुण्यम्
क्षयः स्थानं वृद्धिरित्युदयाः तस्य
मानुषं नयापनयौ, दैवं अयानयौ
दैवमानुषं हि कर्म लोकं यापयति
अदृष्टकारितं दैवम्
तस्मिन्न् इष्टेन फलेन योगोऽयः, अनिष्टेनानयः
दृष्टकारितं मानुषम्
तस्मिन् योगक्षेमनिष्पत्तिर्नयः, विपत्तिरपनयः
तच्चिन्त्यं, अचिन्त्यं दैवम्
राजा आत्मद्रव्यप्रकृतिसम्पन्नो नयस्याधिष्ठानं विजिगीषुः
तस्य समन्ततो मण्डलीभूता भूम्य्ऽनन्तरा अरिप्रकृतिः
तथा एव भूम्य्।एकान्तरा मित्रप्रकृतिः
अरिसम्पद्युक्तः सामन्तः शत्रुः, व्यसनी यातव्यः, अनपाश्रयो दुर्बलाश्रयो वा उच्छेदनीयः, विपर्यये पीडनीयः कर्शनीयो वा
इत्यरिविशेषाः
तस्मान् मित्रं अरिमित्रं मित्रमित्रं अरिमित्रमित्रं चानन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात्, पश्चात् पार्ष्णिग्राह आक्रन्दः पार्ष्णिग्राहासार आक्रन्दासारः
भूम्य्ऽनन्तरः प्रकृतिमित्रः, तुल्याभिजनः सहजः, विरुद्धो विरोधयिता वा कृत्रिमः
भूम्य्।एकान्तरं प्रकृतिमित्रं, मातापितृसम्बद्धं सहजं, धनजीवितहेतोराश्रितं कृत्रिमम्
अरिविजिगीष्वोर्भूम्य्ऽनन्तरः संहतासंहतयोरनुग्रहसमर्थो निग्रहे चासंहतयोर्मध्यमः
अरिविजिगीषुमध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहतासंहतानां अरिविजिगीषुमध्यमानां अनुग्रहसमर्थो निग्रहे चासंहतानां उदासीनः
इति प्रकृतयः
विजिगीषुर्मित्रं मित्रमित्रं वाऽस्य प्रकृतयः तिस्रः
ताः पञ्चभिरमात्यजनपददुर्गकोशदण्डप्रकृतिभिरेक एकशः सम्युक्ता मण्डलं अष्टादशकं भवति
अनेन मण्डलपृथक्त्वं व्याख्यातं अरिमध्यम उदासीनानाम्
एवं चतुर्मण्डलसङ्क्षेपः
द्वादश राजप्रकृतयः षष्टिर्द्रव्यप्रकृतयः, सङ्क्षेपेण द्विसप्ततिः
तासां यथास्वं सम्पदः
शक्तिः सिद्धिश्च
बलं शक्तिः
सुखं सिद्धिः
शक्तिः त्रिविधा - ज्ञानबलं मन्त्रशक्तिः, कोशदण्डबलं प्रभुशक्तिः, विक्रमबलं उत्साहशक्तिः
एवं सिद्धिः त्रिविधा एव - मन्त्रशक्तिसाध्या मन्त्रसिद्धिः, प्रभुशक्तिसाध्या प्रभुसिद्धिः, उत्साहशक्तिसाध्या उत्साहसिद्धिः
ताभिरभ्युच्चितो ज्यायान् भवति, अपचितो हीनः, तुल्यशक्तिः समः
तस्मात्शक्तिं सिद्धिं च घटेतात्मन्यावेशयितुं, साधारणो वा द्रव्यप्रकृतिष्वानन्तर्येण शौचवशेन वा
दूष्यामित्राभ्यां वाऽपक्रष्टुं यतेत
यदि वा पश्येत् अमित्रो मे शक्तियुक्तो वाग्दण्डपारुष्यार्थदूषणैः प्रकृतीरुपहनिष्यति, सिद्धियुक्तो वा मृगयाद्यूतमद्यस्त्रीभिः प्रमादं गमिष्यति, स विरक्तप्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति, विग्रहाभियुक्तो वा सर्वसन्दोहेन एकस्थोऽदुर्गस्थो वा स्थास्यति, स संहतसैन्यो मित्रदुर्गवियुक्तः साध्यो मे भविष्यति, बलवान् वा राजा परतः शत्रुं उच्छेत्तुकामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्नकर्मारम्भस्य वा साहाय्यं दास्यति, मध्यमलिप्सायां च, इत्येवं।आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं च इच्छेत्
नेमिं एकान्तरान् राज्ञः कृत्वा चानन्तरान् अरान् ।
नाभिं आत्मानं आयच्छेन्नेता प्रकृतिमण्डले
मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य च उभयोः ।
उच्छेद्यः पीडनीयो वा बलवान् अपि जायते