स्वाम्य्ऽमात्यजनपददुर्गकोशदण्डमित्राणि प्रकृतयः
तत्र स्वामिसम्पत्
महाकुलीनो दैवबुद्धिसत्त्वसम्पन्नो वृद्धदर्शी धार्मिकः सत्यवाग् अविसंवादकः कृतज्ञः स्थूललक्षो महा उत्साहोऽदीर्घसूत्रः शक्यसामन्तो दृढबुद्धिरक्षुद्रपरिषत्को विनयकाम इत्याभिगामिका गुणाः
शुश्रूषाश्रवणग्रहणधारणविज्ञान ऊहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणाः
शौर्यं अमर्षः शीघ्रता दाक्ष्यं च उत्साहगुणाः
वाग्मी प्रगल्भः स्मृतिमतिबलवान् उदग्रः स्व्ऽवग्रहः कृतशिल्पोऽव्यसनो दण्डनाय्युपकारापकारयोर्दृष्टप्रतीकारी ह्रीमान् आपत्प्रकृत्योर्विनियोक्ता दीर्घदूरदर्शी देशकालपुरुषकारकार्यप्रधानः सन्धिविक्रमत्यागसम्यमपणपरच्छिद्रविभागी संवृतोऽदीनाभिहास्यजिह्मभ्रुकुटीक्षणः कामक्रोधलोभस्तम्भचापल उपतापपैशुन्यहीनः शक्लः स्मित उदग्राभिभाषी वृद्ध उपदेशाचार इत्यात्मसम्पत्
अमात्यसम्पद् उक्ता पुरस्तात्
मध्ये चान्ते च स्थानवान् आत्मधारणः परधारणश्चापदि स्वारक्षः स्वाजीवः शत्रुद्वेषी शक्यसामन्तः पङ्कपाषाण उषरविषमकण्टकश्रेणीव्यालमृगाटवीहीनः कान्तः सीताखनिद्रव्यहस्तिवनवान् गव्यः पौरुषेयो गुप्तगोचरः पशुमान् अदेवमातृको वारिस्थलपथाभ्यां उपेतः सारचित्रबहुपण्यो दण्डकरसहः कर्मशीलकर्षकोऽबालिशस्वाम्य्ऽवरवर्णप्रायो भक्तशुचिमनुष्य इति जनपदसम्पत्
दुर्गसम्पद् उक्ता पुरस्तात्
धर्माधिगतः पूर्वैः स्वयं वा हेमरूप्यप्रायश्चित्रस्थूलरत्नहिरण्यो दीर्घां अप्यापदं अनायतिं सहेत इति कोशसम्पत्
पितृपैतामहो नित्यो वश्यः तुष्टभृतपुत्रदारः प्रवासेष्वविसंवादितः सर्वत्राप्रतिहतो दुःखसहो बहुयुद्धः सर्वयुद्धप्रहरणविद्याविशारदः सहवृद्धिक्षयिकत्वाद् अद्वैध्यः क्षत्रप्राय इति दण्डसम्पत्
पितृपैतामहं नित्यं वश्यं अद्वैध्यं महल्लघुसमुत्थं इति मित्रसम्पत्
अराजबीजी लुब्धः क्षुद्रपरिषत्को विरक्तप्रकृतिरन्यायवृत्तिरयुक्तो व्यसनी निरुत्साहो दैवप्रमाणो यत्किञ्चनकार्यगतिरननुबन्धः क्लीबो नित्यापकारी च इत्यमित्रसम्पत्
एवम्भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति
अरिवर्जाः प्रकृतयः सप्त एताः स्वगुण उदयाः ।
उक्ताः प्रत्यङ्गभूताः ताः प्रकृता राजसम्पदः
सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः ।
विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान्
ततः स दुष्टप्रकृतिश्चातुरन्तोऽप्यनात्मवान् ।
हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशम्
आत्मवांः त्वल्पदेशोऽपि युक्तः प्रकृतिसम्पदा ।
नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते