श्लोक ०५-०६

Kautilya Arthashastra by Acharya Chankya
राजव्यसनं एवं अमात्यः प्रतिकुर्वीत
प्राग् एव मरणाबाधभयाद् राज्ञः प्रियहित उपग्रहेण मासद्विमासान्तरं दर्शनं स्थापयेद् देशपीडाऽपहं अमित्रापहं आयुष्यं पुत्रीयं वा कर्म राजा साधयति इत्यपदेशेन
राजव्यञ्जनं अरूपवेलायां प्रकृतीनां दर्शयेत्, मित्रामित्रदूतानां च
तैश्च यथा उचितां सम्भाषां अमात्यमुखो गच्छेत्
दौवारिकान्तर्वंशिकमुखश्च यथा उक्तं राजप्रणिधिं अनुवर्तयेत्
अपकारिषु च हेडं प्रसादं वा प्रकृतिकान्तं दर्शयेत्, प्रसादं एव उपकारिषु
आप्तपुरुषाधिष्ठितौ दुर्गप्रत्यन्तस्थौ वा कोशदण्डावेकस्थौ कारयेत्, कुल्यकुमारमुख्यांश्चान्यापदेशेन
यश्च मुख्यः पक्षवान् दुर्गाटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत्
बह्व्।आबाधं वा यात्रां प्रेषयेत्, मित्रकुलं वा
यस्माच्च सामन्ताद् आबाधं पश्येत् तं उत्सवविवाहहस्तिबन्धनाश्वपण्यभूमिप्रदानापदेशेनावग्राहयेत्, स्वमित्रेण वा
ततः सन्धिं अदूष्यं कारयेत्
आटविकामित्रैर्वा वैरं ग्राहयेत्
तत्कुलीनं अपरुद्धं वा भूंय्।एकदेशेन उपग्राहयेत्
कुल्यकुमारमुख्य उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत्
दाण्डकर्मिकवद् वा राज्यकण्टकान् उद्धृत्य राज्यं कारयेत्
यदि वा कश्चिन् मुख्यः सामन्तादीनां अन्यतमः कोपं भजेत तं एहि, राजानं त्वा करिष्यामि इत्यावाहयित्वा घातयेत्
आपत्प्रतीकारेण वा साधयेत्
युवराजे वा क्रमेण राज्यभारं आरोप्य राजव्यसनं ख्यापयेत्
परभूमौ राजव्यसने मित्रेणामित्रव्यञ्जनेन शत्रोः सन्धिं अवस्थाप्यापगच्छेत्
सामन्तादीनां अन्यतमं वाऽस्य दुर्गे स्थापयित्वाऽपगच्छेत्
कुमारं अभिषिच्य वा प्रतिव्यूहेत
परेणाभियुक्तो वा यथा उक्तं आपत्प्रतीकारं कुर्यात्
एवं एकाइश्वर्यं अमात्यः कारयेद् इति कौटिल्यः
न एवम् इति भारद्वाजः
प्रम्रियमाणे वा राजन्यमात्यः कुल्यकुमारमुख्यान् परस्परं मुख्येषु वा विक्रमयेत्
विक्रान्तं प्रकृतिकोपेन घातयेत्
कुल्यकुमारमुख्यान् उपांशुदण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात्
राज्यकारणाद्द् हि पिता पुत्रान् पुत्राश्च पितरं अभिद्रुह्यन्ति, किं अङ्ग पुनरमात्यप्रकृतिर्ह्येकप्रग्रहो राज्यस्य
तत् स्वयं उपस्थितं नावमन्येत
स्वयं आरूढा हि स्त्री त्यज्यमानाऽभिशपति इति लोकप्रवादः
कालश्च सकृद् अभ्येति यं नरं कालकाङ्क्षिणम् ।
दुर्लभः स पुनः तस्य कालः कर्म चिकीर्षतः
प्रकृतिकोपकं अधर्मिष्ठं अनैकान्तिकं च एतद् इति कौटिल्यः
राजपुत्रं आत्मसम्पन्नं राज्ये स्थापयेत्
सम्पन्नाभावेऽव्यसनिनं कुमारं राजकन्यां गर्भिणीं देवीं वा पुरस्कृत्य महामात्रान् संनिपात्य ब्रूयात् अयं वो निक्षेपः, पितरं अस्यावेक्षध्वं सत्त्वाभिजनं आत्मनश्च, ध्वजमात्रोऽयं भवन्त एव स्वामिनः, कथं वा क्रियताम् इति
तथा ब्रुवाणं योगपुरुषा ब्रूयुः कोऽन्यो भवत्पुरोगाद् अस्माद् राज्ञश्चातुर्वर्ण्यं अर्हति पालयितुम् इति
तथा इत्यमात्यः कुमारं राजकन्यां गर्भिणीं देवीं वाऽधिकुर्वीत, बन्धुसम्बन्धिनां मित्रामित्रदूतानां च दर्शयेत्
भक्तवेतनविशेषं अमात्यानां आयुधीयानां च कारयेत्, भूयश्चायं वृद्धः करिष्यति इति ब्रूयात्
एवं दुर्गराष्ट्रमुख्यान् आभाषेत, यथाऽर्हं च मित्रामित्रपक्षम्
विनयकर्मणि च कुमारस्य प्रयतेत
कन्यायां समानजातीयाद् अपत्यं उत्पाद्य वाऽभिषिञ्चेत्
मातुश्चित्तक्षोभभयात् कुल्यं अल्पसत्त्वं छात्रं च लक्षण्यं उपनिदध्यात्
ऋतौ च एनां रक्षेत्
न चात्मार्थं कञ्चिद् उत्कृष्टं उपभोगं कारयेत्
राजार्थं तु यानवाहनाभरणवस्त्रस्त्रीवेश्मपरिवापान् कारयेत्
यौवनस्थं च याचेत विश्रमं चित्तकारणात् ।
परित्यजेद् अतुष्यन्तं तुष्यन्तं चानुपालयेत्
निवेद्य पुत्ररक्षाऽर्थं गूढसारपरिग्रहान् ।
अरण्यं दीर्घसत्त्रं वा सेवेतारुच्यतां गतः
मुख्यैरवगृहीतं वा राजानं तत्प्रियाश्रितः ।
इतिहासपुराणाभ्यां बोधयेद् अर्थशास्त्रवित्
सिद्धव्यञ्जनरूपो वा योगं आस्थाय पार्थिवम् ।
लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकं आचरेत्