दुर्गजनपदशक्त्या भृत्यकर्म समुदयपादेन स्थापयेत्, कार्यसाधनसहेन वा भृत्यलाभेन
शरीरं अवेक्षेत, न धर्मार्थौ पीडयेत्
ऋत्विग्।आचार्यमन्त्रिपुरोहितसेनापतियुवराजराजमातृराजमहिष्योऽष्टचत्वारिंशत्साहस्राः
एतावता भरणेनानास्पद्यत्वं अकोपकं च एषां भवति
दौवारिकान्तर्वंशिकप्रशास्तृसमाहर्तृसंनिधातारश्चतुर्विंशतिसाहस्राः
एतावता कर्मण्या भवन्ति
कुमारकुमारमातृनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषद्राष्ट्रान्तपालाश्च द्वादशसाहस्राः
स्वामिपरिबन्धबलसहाया ह्येतावता भवन्ति
श्रेणीमुख्या हस्त्य्ऽश्वरथमुख्याः प्रदेष्टारश्चाष्टसाहस्राः
स्ववर्गानुकर्षिणो ह्येतावता भवन्ति
पत्त्य्ऽश्वरथहस्त्य्ऽध्यक्षा द्रव्यहस्तिवनपालाश्च चतुःसाहस्राः
रथिकानीकस्थचिकित्सकाश्वदमकवर्धकयो योनिपोषकाश्च द्विसाहस्राः
कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिकसूतमागधाः पुरोहितपुरुषाः सर्वाध्यक्षाश्च साहस्राः
शिल्पवन्तः पादाताः सङ्ख्यायकलेखकादिवर्गश्च पञ्चशताः
कुशीलवाः त्वर्धतृतीयशताः, द्विगुणवेतनाश्च एषां तूर्यकराः
कारुशिल्पिनो विंशतिशतिकाः
चतुष्पदद्विपदपरिचारकपारिकर्मिकाउपस्थायिकपालकविष्टिबन्धकाः षष्टिवेतनाः, आर्ययुक्तारोहकमाणवकशैलखनकाः सर्व उपस्थायिनश्च
आचार्या विद्यावन्तश्च पूजावेतनानि यथाऽर्हं लभेरन् पञ्चशतावरं सहस्रपरम्
दशपणिको योजने दूतो मध्यमः, दश उत्तरे द्विगुणवेतन आयोजनशताद् इति
समानविद्येभ्यः त्रिगुणवेतनो राजा राजसूयादिषु क्रतुषु
राज्ञः सारथिः साहस्रः
कापटिक उदास्थितगृहपतिकवैदेहकतापसव्यञ्जनाः साहस्राः
ग्रामभृतकसत्त्रितीक्ष्णरसदभिक्षुक्यः पञ्चशताः
चारसञ्चारिणोऽर्धतृतीयशताः, प्रयासवृद्धवेतना वा
शतवर्गसहस्रवर्गाणां अध्यक्षा भक्तवेतनलाभं आदेशं विक्षेपं च कुर्युः
अविक्षेपो राजपरिग्रहदुर्गराष्ट्ररक्षावेक्षणेषु च
नित्यमुख्याः स्युरनेकमुख्याश्च
कर्मसु मृतानां पुत्रदारा भक्तवेतनं लभेरन्
बालवृद्धव्याधिताश्च एषां अनुग्राह्याः
प्रेतव्याधितसूतिकाकृत्येषु च एषां अर्थमानकर्म कुर्यात्
अल्पकोशः कुप्यपशुक्षेत्राणि दद्यात्, अल्पं च हिरण्यम्
शून्यं वा निवेशयितुं अभ्युत्थितो हिरण्यं एव दद्यात्, न ग्रामं ग्रामसञ्जातव्यवहारस्थापनार्थम्
एतेन भृतानां अभृतानां च विद्याकर्मभ्यां भक्तवेतनविशेषं च कुर्यात्
षष्टिवेतनस्याढकं कृत्वा हिरण्यानुरूपं भक्तं कुर्यात्
पत्त्य्ऽश्वरथद्विपाः सूर्य उदये बहिः सन्धिदिवसवर्जं शिल्पयोग्याः कुर्युः
तेषु राजा नित्ययुक्तः स्यात्, अभीक्ष्णं च एषां शिल्पदर्शनं कुर्यात्
कृतनर इन्द्राङ्कं शस्त्रावरणं आयुधागारं प्रवेशयेत्
अशस्त्राश्चरेयुः, अन्यत्र मुद्राऽनुज्ञातात्
नष्टंविनष्टं वा द्विगुणं दद्यात्
विध्वस्तगणनां च कुर्यात्
सार्थिकानां शस्त्रावरणं अन्तपाला गृह्णीयुः, समुद्रं अवचारयेयुर्वा
यात्रां अभ्युत्थितो वा सेनां उद्योजयेत्
ततो वैदेहकव्यञ्जनाः सर्वपण्यान्यायुधीयेभ्यो यात्राकाले द्विगुणप्रत्यादेयानि दद्युः
एवं राजपण्ययोगविक्रयो वेतनप्रत्यादानं च भवति
एवं अवेक्षितायव्ययः कोशदण्डव्यसनं नावाप्नोति
इति भक्तवेतनविकल्पः
सत्त्रिणश्चायुधीयानां वेश्याः कारुकुशीलवाः ।
दण्डवृद्धाश्च जानीयुः शौचाशौचं अतन्द्रिताः