कोशं अकोशः प्रत्युत्पन्नार्थकृच्छ्रः सङ्गृह्णीयात्
जनपदं महान्तं अल्पप्रमाणं वाऽदेवमातृकं प्रभूतधान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत, यथासारं मध्यं अवरं वा
दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्म उपकारिणं प्रत्यन्तं अल्पप्रमाणं वा न याचेत
धान्यपशुहिरण्यादि निविशमानाय दद्यात्
चतुर्थं अंशं धान्यानां बीजभक्तशुद्धं च हिरण्येन क्रीणीयात्
अरण्यजातं श्रोत्रियस्वं च परिहरेत्
तद् अप्यनुग्रहेण क्रीणीयात्
तस्याकरणे वा समाहर्तृपुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः
प्रमादावस्कन्नस्यात्ययं द्विगुणं उदाहरन्तो बीजकाले बीजलेख्यं कुर्युः
निष्पन्ने हरितपक्वादानं वारयेयुः, अन्यत्र शाककटभङ्गमुष्टिभ्यां देवपितृपूजादानार्थं गवार्थं वा
भिक्षुकग्रामभृतकार्थं च राशिमूलं परिहरेयुः
स्वसस्यापहारिणः प्रतिपातोऽष्टगुणः
परसस्यापहारिणः पञ्चाशद्गुणः सीताऽत्ययः, स्ववर्गस्य, बाह्यस्य तु वधः
चतुर्थं अंशं धान्यानां षष्ठं वन्यानां तूललाक्षाक्षौमवल्ककार्पासरौमकौशेयकौषधगन्धपुष्पफलशाकपण्यानां काष्ठवेणुमांसवल्लूराणां च गृह्णीयुः, दन्ताजिनस्यार्धम्
तद् अनिसृष्टं विक्रीणानस्य पूर्वः साहसदण्डः
इति कर्षकेषु प्रणयः
सुवर्णरजतवज्रमणिमुक्ताप्रवालाश्वहस्तिपण्याः पञ्चाशत्कराः
सूत्रवस्त्रताम्रवृत्तकंसगन्धभैषज्यशीधुपण्याश्चत्वारिंशत्कराः
धान्यरसलोहपण्याः शकटव्यवहारिणश्च त्रिंशत्कराः
काचव्यवहारिणो महाकारवश्च विंशतिकराः
क्षुद्रकारवो बन्धकीपोषकाश्च दशकराः
काष्ठवेणुपाषाणमृद्भाण्डपक्वान्नहरितपण्याः पञ्चकराः
कुशीलवा रूपाजीवाश्च वेतनार्धं दद्युः
हिरण्यकरं कर्मण्यान् आहारयेयुः, न च एषां कञ्चिद् अपराधं परिहरेयुः
ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन्
इति व्यवहारिषु प्रणयः
कुक्कुटसूकरं अर्धं दद्यात्, क्षुद्रपशवः षड्भागं, गोमहिषाश्वतरखर उष्ट्राश्च दशभागम्
बन्धकीपोषका राजप्रेष्याभिः परमरूपयौवनाभिः कोशं संहरेयुः
इति योनिपोषकेषु प्रणयः
सकृद् एव न द्विः प्रयोज्यः
तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौरजानपदान् भिक्षेत
योगपुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः
एतेन प्रदेशेन राजा पौरजानपदान् भिक्षेत
कापटिकाश्च एनान् अल्पं प्रयच्छतः कुत्सयेयुः
सारतो वा हिरण्यं आढ्यान् याचेत, यथा उपकारं वा, स्ववशा वा यद् उपहरेयुः
स्थानच्छत्रवेष्टनविभूषाश्च एषां हिरण्येन प्रयच्छेत्
पाषण्डसङ्घद्रव्यं अश्रोत्रिय उपभोग्यं देवद्रव्यं वा कृत्यकराः प्रेतस्य दग्धगृहस्य वा हस्ते न्यस्तं इत्युपहरेयुः
देवताऽध्यक्षो दुर्गराष्ट्रदेवतानां यथास्वं एकस्थं कोशं कुर्यात्, तथैव च उपहरेत्
दैवतचैत्यं सिद्धपुण्यस्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रासमाजाभ्यां आजीवेत्
चैत्य उपवनवृक्षेण वा देवताऽभिगमनं अनार्तवपुष्पफलयुक्तेन ख्यापयेत्
मनुष्यकरं वा वृक्षे रक्षोभयं प्ररूपयित्वा सिद्धव्यञ्जनाः पौरजानपदानां हिरण्येन प्रतिकुर्युः
सुरुङ्गायुक्ते वा कूपे नागं अनियतशिरस्कं हिरण्य उपहारेण दर्शयेत्
नागप्रतिमायां अन्तश्छन्नायां चैत्यच्छिद्रे वल्मीकच्छिद्रे वा सर्पदर्शनं आहारेण प्रतिबद्धसंज्ञं कृत्वा श्रद्दधानानां दर्शयेत्
अश्रद्दधानानां आचमनप्रोक्षणेषु रसं उपचार्य देवताऽभिशापं ब्रूयात्, अभित्यक्तं वा दंशयित्वा
योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात्
वैदेहकव्यञ्जनो वा प्रभूतपण्यान्तेवासी व्यवहरेत
स यदा पण्यमूल्ये निक्षेपप्रयोगैरुपचितः स्यात् तदा एनं रात्रौ मोषयेत्
एतेन रूपदर्शकः सुवर्णकारश्च व्याख्यातौ
वैदेहकव्यञ्जनो वा प्रख्यातव्यवहारः प्रहवणनिमित्तं याचितकं अवक्रीतकं वा रूप्यसुवर्णभाण्डं अनेकं गृह्णीयात्
समाजे वा सर्वपण्यसन्दोहेन प्रभूतं हिरण्यसुवर्णं ऋणं गृह्णीयात्, प्रतिभाण्डमूल्यं च
तद् उभयं रात्रौ मोषयेत्
साध्वीव्यञ्जनाभिः स्त्रीभिर्दूष्यान् उन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्वस्वान्याहरेयुः
दूष्यकुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः
तेन दोषेण इतरे पर्यादातव्याः
दूष्यं अभित्यक्तो वा श्रद्धेयापदेशं पण्यं हिरण्यनिक्षेपं ऋणप्रयोगं दायं वा याचेत
दासशब्देन वा दूष्यं आलम्बेत, भार्यां अस्य स्नुषां दुहितरं वा दासीशब्देन भार्याशब्देन वा
तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात् हतोऽयं अर्थकामुकः इति
तेन दोषेण इतरे पर्यादातव्याः
सिद्धव्यञ्जनो वा दूष्यं जम्भकविद्याभिः प्रलोभयित्वा ब्रूयात् अक्षयहिरण्यं राजद्वारिकं स्त्रीहृदयं अरिव्याधिकरं आयुष्यं पुत्रीयं वा कर्म जानामि इति
प्रतिपन्नं चैत्यस्थाने रात्रौ प्रभूतसुरामांसगन्धं उपहारं कारयेत्
एकरूपं चात्र हिरण्यं पूर्वनिखातं प्रेताङ्गं प्रेतशिशुर्वा यत्र निहितः स्यात्, ततो हिरण्यं अस्य दर्शयेद् अत्यल्पम् इति च ब्रूयात्
प्रभूतहिरण्यहेतोः पुनरुपहारः कर्तव्य इति स्वयं एव एतेन हिरण्येन श्वोभूते प्रभूतं औपहारिकं क्रीणीहि इति
स तेन हिरण्येनाउपहारिकक्रये गृह्येत
मातृव्यञ्जनया वा पुत्रो मे त्वया हतः इत्यवकुपिता स्यात्
संसिद्धं एवास्य रात्रियागे वनयागे वनक्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तं अतिनयेयुः
दूष्यस्य वा भृतकव्यञ्जनो वेतनहिरण्ये कूटरूपं प्रक्षिप्य प्ररूपयेत्
कर्मकरव्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेनकूटरूपकारक उपकरणं उपनिदध्यात्, चिकित्सकव्यञ्जनो वा गरं अगदापदेशेन
प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितं अभिषेकभाण्डं अमित्रशासनं च कापटिकमुखेनाचक्षीत, कारणं च ब्रूयात्
एवं दूष्येष्वधार्मिकेषु च वर्तेत, न इतरेषु
पक्वं पक्वं इवारामात् फलं राज्याद् अवाप्नुयात् ।
आत्मच्छेदभयाद् आमं वर्जयेत् कोपकारकम्