श्लोक ०५-०१

Kautilya Arthashastra by Acharya Chankya
दुर्गराष्ट्रयोः कण्टकशोधनं उक्तम्
राजराज्ययोर्वक्ष्यामः
राजानं अवगृह्य उपजीविनः शत्रुसाधारणा वा ये मुख्याः तेषु गूढपुरुषप्रणिधिः कृत्यपक्ष उपग्रहो वा सिद्धिः यथा उक्तं पुरस्ताद्, उपजापोऽपसर्पो वा यथा पारग्रामिके वक्ष्यामः
राज्य उपघातिनः तु वल्लभाः संहता वा ये मुख्याः प्रकाशं अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्मरुचिरुपांशुदण्डं प्रयुञ्जीत
दूष्यमहामात्रभ्रातरं असत्कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत्
तं राजा दूष्यद्रव्य उपभोगातिसर्गेण दूष्ये विक्रमयेत्
शस्त्रेण रसेन वा विक्रान्तं तत्र एव घातयेद् भ्रातृघातकोऽयम् इति
तेन पारशवः परिचारिकापुत्रश्च व्याख्यातौ
दूष्यंमहामात्रं वा सत्त्रिप्रोत्साहितो भ्राता दायं याचेत
तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद् हतोऽयं दायकामुकः इति
ततो हतपक्षं उपगृह्य इतरं निगृह्णीयात्
दूष्यसमीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः
तं रात्रौ इति समानम्
दूष्यमहामात्रयोर्वा यः पुत्रः पितुः पिता वा पुत्रस्य दारान् अधिचरति, भ्राता वा भ्रातुः, तयोः कापटिकमुखः कलहः पूर्वेण व्याख्यातः
दूष्यमहामात्रपुत्रं आत्मसम्भावितं वा सत्त्री राजपुत्रः त्वं, शत्रुभयाद् इह न्यस्तोऽसि इत्युपजपेत्
प्रतिपन्नं राजा रहसि पूजयेत् प्राप्तयौवराज्यकालं त्वां महामात्रभयान्नाभिषिञ्चामि इति
तं सत्त्री महामात्रवधे योजयेत्
विक्रान्तं तत्र एव घातयेत् पितृघातकोऽयम् इति
भिक्षुकी वा दूष्यभार्यां सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसन्दध्यात्
इत्याप्यप्रयोगः
दूष्यमहामात्रं अटवीं परग्रामं वा हन्तुं कान्तारव्यवहिते वा देशे राष्ट्रपालं अन्तपालं वा स्थापयितुं नागरस्थानं वा कुपितं अवग्राहितुं सार्थातिवाह्यं प्रत्यन्ते वा स-प्रत्यादेयं आदातुं फल्गुबलं तीक्ष्णयुक्तं प्रेषयेत्
रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधकव्यञ्जना वा हन्युः अभियोगे हतः इति
यात्राविहारगतो वा दूष्यमहामात्रान् दर्शनायाह्वयेत्
ते गूढशस्त्रैः तीक्ष्णैः सह प्रविष्टा मध्यमकक्ष्यायां आत्मविचयं अन्तःप्रवेशनार्थं दद्युः
ततो दौवारिकाभिगृहीताः तीक्ष्णाः दूष्यप्रयुक्ताः स्म इति ब्रूयुः
ते तद्ऽभिविख्याप्य दूष्यान् हन्युः
तीक्ष्णस्थाने चान्ये वध्याः
बहिर्विहारगतो वा दूष्यान् आसन्नावासान् पूजयेत्
तेषां देवीव्यञ्जना वा दुःस्त्री रात्रावावासेषु गृह्येत इति समानं पूर्वेण
दूष्यमहामात्रं वा सूदो भक्षकारो वा ते शोभनः इति स्तवेन भक्ष्यभोज्यं याचेत, बहिर्वा क्वचिद् अध्वगतः पानीयम्
तद्।उभयं रसेन योजयित्वा प्रतिस्वादने तावेव उपयोजयेत्
तद्ऽभिविख्याप्य रसदौ इति घातयेत्
अभिचारशीलं वा सिद्धव्यञ्जनो गोधाकूर्मकर्कटककूटानां लक्षण्यानां अन्यतमप्राशनेन मनोरथान् अवाप्स्यसि इति ग्राहयेत्
प्रतिपन्नं कर्मणि रसेन लोहमुसलैर्वा घातयेत् कर्मव्यापदा हतः इति
चिकित्सकव्यञ्जनो वा दौरात्मिकं असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्याहारयोगेषु रसेनातिसन्दध्यात्
सूदारालिकव्यञ्जना वा प्रणिहिता दूष्यं रसेनातिसन्दध्युः
इत्युपनिषत्प्रतिषेधः
उभयदूष्यप्रतिषेधः तु
यत्र दूष्यः प्रतिषेद्धव्यः तत्र दूष्यं एव फल्गुबलतीक्ष्णयुक्तं प्रेषयेत्, गच्छ, अमुष्मिन् दुर्गे राष्ट्रे वा सैन्यं उत्थापय हिरण्यं वा, वल्लभाद् वा हिरण्यं आहारय, वल्लभकन्यां वा प्रसह्यानय, दुर्गसेतुवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्मणां अन्यतमद् वा कारय राष्ट्रपाल्यं अन्तपाल्यं वायश्च त्वा प्रतिषेधयेन्न वा ते साहाय्यं दद्यात् स बन्धव्यः स्यात् इति
तथैव इतरेषां प्रेषयेद् अमुष्याविनयः प्रतिषेद्धव्यः इति
तं एतेषु कलहस्थानेषु कर्मप्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः
तेन दोषेण इतरे नियन्तव्याः
पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमाक्षेत्रखलवेश्ममर्यादासु द्रव्य उपकरणसस्यवाहनहिंसासु प्रेक्षाकृत्य उत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः एवं क्रियन्ते येऽमुना कलहायन्ते: इति
तेन दोषेण इतरे नियन्तव्याः
येषां वा दूष्याणां जातमूलाः कलहाः तेषां क्षेत्रखलवेश्मान्यादीपयित्वा बन्धुसम्बन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः अमुना प्रयुक्ताः स्मः इति
दुर्गराष्ट्रदूष्यान् वा सत्त्रिणः परस्परस्यावेशनिकान् कारयेयुः
तत्र रसदा रसं दद्युः
तेन दोषेण इतरे नियन्तव्याः
भिक्षुकी वा दूष्यराष्ट्रमुख्यं दूष्यराष्ट्रमुख्यस्य भार्या स्नुषा दुहिता वा कामयते इत्युपजपेत्
प्रतिपन्नस्याभरणं आदाय स्वामिने दर्शयेत् असौ ते मुख्यो यौवन उत्सिक्तो भार्यां स्नुषां दुहितरं वाऽभिमन्यते इति
तयोः कलहो रात्रौ इति समानम्
दूष्यदण्ड उपनतेषु तु - युवराजः सेनापतिर्वा किञ्चिद् अपकृत्यापक्रान्तो विक्रमेत
ततो राजा दूष्यदण्ड उपनतान् एव प्रेषयेत् फल्गुबलतीक्ष्णयुक्तान् इति समानाः सर्व एव योगाः
तेषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृदायं लभेत
एवं अस्य पुत्रपौत्रान् अनुवर्तते राज्यं अपास्तपुरुषदोषम्
स्वपक्षे परपक्षे वा तूष्णीं दण्डं प्रयोजयेत् ।
आयत्यां च तदात्वे च क्षमावान् अविशङ्कितः